________________
Shri Mahavir Jain Aradhana Kendra
विशेषा०
www.kobatirth.org
138
अथ संज्ञिश्रुतमभिधित्सुराहसेण्णिस्स सु
अथ भाष्यम् -
ससियाई दव्वयमेत महवा सुअवउत्तस्स । सव्वो च्चिय वावारो सुयमिह तो किं न चेट्ठा वि १ ॥ ५०२॥
इहोच्छ्रासानक्षरश्रुतं द्रव्यश्रुतमात्रमेवाऽवगन्तव्यम्, शब्दमात्रत्वात् ; शब्दश्व भावश्रुतस्य कारणमेव, यच्च कारणं तद् द्रव्यमेव भवतीति भावः । भवति च तथाविधोच्छ्वसित निःश्वसितादिश्रवणे 'सशोकोऽयं' इत्यादि ज्ञानम् । एवं विशिष्ट सन्धिपूर्वकनिष्ठ कासित - क्षुतादिश्रवणेऽप्यात्मज्ञानादि ज्ञानं वाच्यमिति । अथवा, श्रुतज्ञानोपयुक्तस्यात्मनः सर्वात्मनैवोपयोगात् सर्वोऽप्युच्छ्रासतादिको व्यापारः श्रुतमेवेह प्रतिपत्तव्यम्, इत्युच्छसितादयः श्रुतं भवन्त्येवेति । आह- यद्येवम्, ततो गमना-ऽऽगमने-चलन - स्पन्दनादिकाऽपि चेष्टा व्यापार एव । ततः श्रुतोपयुक्तस्य संबन्धिन्येषाऽपि किं श्रुतं न भवति । उच्यते- कः किमाह :- प्रानोत्यनेन न्यायेन साऽपि श्रुतम् ।। ५०२ ।।
किन्तु —-
* तं सुयं सुवइति चेट्ठा न सुव्वइ कयाइ । अहिगमया वण्णा इव जमणुस्सारादओ तेणं ॥५०३॥
Acharya Shri Kailassagarsuri Gyanmandir
उक्तन्यायेन श्रुत्वमाप्तौ समानायामपि तदेवोच्वसितादि श्रुतम्, न शिरोधूनन-करचलनादिचेष्टा, यतः शास्त्रज्ञलोकप्रसिद्धा रूढिरियम् । तत उच्छ्रसिताद्येव श्रुतं रूढं न चेष्टेत्यर्थः ' श्रूयते इति श्रुतमिति चान्वर्थवशात् तदेवोच्छ्वसितादि श्रुतम्, न चेष्टा इत्येवं चशब्दः पक्षान्तरसुचकः, भिन्नक्रमश । करादिचेष्टा तु दृश्यत्वात् कदापि न श्रूयते इति कथमसौ श्रुतं स्यात् ? इत्यर्थः । अनुस्वारादयस्त्वकारादिवर्णा इवार्थस्याऽधिगमका एवेति । तेन कारणेन ते निर्विवादमेव श्रुतम् ॥ इति गाथाद्वयार्थः ॥ ५०३ || ॥ इत्यनक्षरश्रुतमिति ॥
तं सण्णिसुयं सोय जस्स सा सण्णा । होइ तिहा कालिय- हेउ-दिट्ठिवाओवएसेण ॥ ५०४ ॥
७ उच्छुसितादि द्रव्यश्रुतमाश्रमयत्रा श्रुतोपयुक्तस्य । सर्व एव व्यापारः श्रुतमिह ततः किं न चेष्टापि १ ॥ ५०२ ॥ २क. 'न-स्प' |
३ रूढिश्च तत् श्रुतं श्रूयत इति चेष्टा न श्रूयते कदापि । अधिगमका वर्णा इत्र यदनुस्वारादयस्तेनं ॥ ५०३ ॥ ४ घ. छ. 'ढी ते' | ५ संज्ञिनः श्रुतं यत् तद् संशिश्रुतं स च यस्य सा संज्ञा । भवति विधा कालिक-हेतु दृष्टिवादोपदेशेन ॥ ५०४ ॥ संज्ञितं तावत् तदेवाऽभिधीयते यत् संज्ञिनः संवन्धि । सोऽपि संज्ञी स एव यस्याऽसौ संज्ञा समस्ति । सा च संज्ञा त्रिविधा भवति - दीर्घशब्द लोगाद् दर्घिकालिकोपदेशेन, हेतुवादोपदेशेन, दृष्टिवादोपदेशेन चेति ॥ ५०४ ॥
अत्र पर: माह
जेइ सण्णासंबंधेण सण्णिणो, तेण सण्णिणो सव्वे । एगिंदियाइयाण वि जं सण्णा दसविहा भणिया ॥ ५०५॥ संज्ञा विद्यते येषां ते संज्ञिनः इत्येवं संज्ञासंबन्धाद् यदि संज्ञिन इष्यन्ते, तदा तेन संज्ञासंबन्धेन सर्वेऽप्येकेन्द्रियादयो जीवाः संज्ञिनः श्राप्नुवन्ति, न पुनः केऽप्यसंज्ञिनः इत्येवमतिव्याप्तिप्रसङ्गः, यतः सर्वजीवानामेकेन्द्रियादीनामपि प्रज्ञापनादिषु संज्ञा दशविधा भणिता, तद्यथा- “एगिंदियाणं भंते ! कइविहा सण्णा पन्नत्ता १ । गोयमा ! दसविहा, तं जहा- आहारसण्णा, भयसण्णा, मेहुणसण्णा, परिग्गहसण्णा, कोहसण्णा, माणसण्णा, मायासण्णा, लोहसण्णा, ओहसण्णा, लोगसण्णा " एवं द्वीन्द्रियादीनामपि वाच्यम् । तत् के नामेत्थुमसंज्ञिनः १, प्रोक्ताथैतेऽनेकशस्तेषु तेषु प्रदेशेष्वागमे, ततः कथमेतत् १ इति ॥ ५०५ ।।
अत्र परिहारमाह
वान सोहणा वियजं सा तो नाहिकीरए इहई । करिसावणेण धणवं न रूववं मुत्तिमेत्तेण ॥ ५०६ ॥ जह बहुव्वो धणवं पत्थरूवो अ रूववं होइ । महईए सोहणाए य तह सण्णी नाणसण्णा ॥ ५०७ ॥
यद्यस्मात् कारणात् सा दशविधा संज्ञा काचित् तावदोघसंज्ञात्मिका स्तोका इति खल्पा, ततोऽत्र नाधिक्रियते न तया संज्ञी and युज्यत इति भावः । न हि कार्षापणमात्रास्तित्वेन लोकेऽपि धनवानुच्यते । आहार-भय- परिग्रह-मैथुनादिसंज्ञात्मिकाऽपि च भूयस्यपीह नाधिक्रियते तामप्याश्रित्य न 'संज्ञी' इति निर्दिश्यत इत्यर्थः, यतो नाऽसौ शोभना - मोहादिजन्यत्वेन नासौ विशिष्टेत्यर्थः । न चाऽविशि
१ यदि संज्ञासंबन्धेन संज्ञिनः तेन संज्ञिनः सर्वे । एकेन्द्रियादिकानामपि यत् संज्ञा दशविधा भणिता ॥ ५०५ ॥
२ एकेन्द्रियाणां भगवन् ! कतिविधा संज्ञा प्रशप्ता १ । गौतम ! दशविधा, तद्यथा- भाहारसंज्ञा, भयसंज्ञा, मैथुनसंज्ञा, परिग्रहसंज्ञा, क्रोधसंज्ञा, मानसंज्ञा, मायासंज्ञा, लोभसंज्ञा, ओघसंज्ञा, लोकसंज्ञा । ३ . छ. 'लोभस ।
* स्तोका न शोभनाऽपि च यत् सा ततो नाऽधिक्रियत इह । कार्षापणेन धनवान् न रूपवान् मूर्तिमात्रेण ॥ ५०६ ॥
यथा बहुद्रव्यो धनवान् प्रशस्तरूपश्च रूपवान् भवति । महत्या शोभनया च तथा संत्री ज्ञानसंज्ञया ॥ ५०७ ॥ ५ घ. छ. 'वो य रु' ।
For Private and Personal Use Only