________________
J
a
vir Jan Aradhana Rendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
137 विशेषा० केषां पुनरसौ सर्वजघन्योऽक्षरानन्तभागः प्राप्यते १, इत्याह
थीणद्धिसहियनाणावरणोदयओ स पत्थिवाईणं । बेइंदियाइयाणं परिवड्ढए कमविसोहीए ॥ ४९९ ॥
स्त्यानर्धिमहानिद्रोदयसहितोत्कृष्टज्ञानावरणोदयादसौ सर्वजघन्योऽक्षरानन्तभागः पृथिव्यायेकेन्द्रियाणां प्राप्यते । ततः क्रमविशुद्ध्या द्वीन्द्रियादीनामसौ क्रमेण वर्धत इति ॥ ४९९ ॥
तमुत्कृष्टः, मध्यमश्वैष केषा मन्तव्यः , इत्याह
उकोसो उक्कोसयसुयणाणविओ, तओवसेसाणं । होइ विमझो मज्झे छट्ठाणगयाण पाएण ॥ ५० ॥
स एवाक्षरानन्तभाग उत्कृष्टो भवत्युत्कृष्टश्चतज्ञानविदः संपूर्णश्रुतज्ञानस्येत्यर्थः । अत्राह- नन्वस्य कथमक्षरानन्तभागः, • यावता श्रुतज्ञानाक्षरं संपूर्णमप्यस्य प्राप्यत एव । सत्यम्, किन्तु संलुलितसामान्यश्रुत-केवलारापेक्षयैवाऽस्याक्षरानन्तभागो विवक्षितः 'केवलिवज्जाणं तिविहभेओ वि' इत्यनन्तरवचनात् , अन्यथा हि यथा केवलिनः संपूर्णकेवलाक्षरयुक्तत्वेनाऽक्षरानन्तभागनिविघोऽपि न संभवति, इति तर्जनं कृतम् , एवं संपूर्णश्रुतज्ञानिनोऽपि समस्तश्रुताक्षरयुक्तत्वेनाऽक्षरानन्तभागस्त्रिविधोऽपि न संभवतीति तर्जनमपि कृतं स्यात् । तस्मादसमिलितसामान्याक्षरापेक्षयैवाऽस्याऽक्षरानन्तभागः प्रोक्तः । सामान्ये चाक्षरे विवक्षिते केवलाक्षरापेक्षया श्रुतज्ञानाक्षरस्य संपूर्णऽप्यनन्तभागवर्तित्वं युक्तमेव, केवलज्ञानवपर्यायेभ्यः श्रुतज्ञानस्वपर्यायाणामनन्तभागवर्तित्वात. तस्य परोक्षविषयत्वेनाऽस्पष्टत्वाच्चेति । यच्च समुदितख-परपर्यायापेक्षया श्रुत-केवलाक्षरयोस्तुल्यत्वं तदिह न विवक्षितमेवेति।
___ अन्ये तु- 'सो पुण सव्वजहनो चेयण्णं' इत्यादिगाथायां “स पुनरक्षरलाभः" इति व्याचक्षते । इदं चानेकदोषान्वितत्वाद, जिनभद्रगणिक्षमाश्रमणपूज्यटीकायां चादर्शनादसंगतमेव लक्षयामः, तथाहि-'तेस्स उ अणंतभागो निच्चुग्घाडो' इत्याद्यनन्तरगांथायामक्षरानन्तभाग एवं प्रकृतः, अक्षरलाभस्त्वनन्तरपरामर्शिना तच्छब्देन कुतो लब्धः १, किमाकाशाद् पतितः । किंञ्च, यद्यक्षरलाभ इतीह व्याख्यायते, तर्हि 'केवलिवज्जार्ण तिविहभेओ वि' इत्यत्र किमिति केवलिनो वर्जनं कृतम् । यथा हि श्रुताक्षरमाश्रित्यो
१ स्त्यानर्धिसाहितज्ञानावरणोदयतः स पृथिव्यादीनाम् । द्वीन्द्रियादिकानां परिवर्धते क्रमविशुद्ध्या ॥ ४९९ ॥ ३. घ. छ. 'डूढइ क' । ३ उत्कृष्ट उत्कृष्टश्रुतज्ञानविदा, ततोऽवशेषाणाम् । भवति विमभ्यो मध्ये पदस्थानगतानां प्रायेण ॥ ५.०॥+केवलाके.-।
४ प.छ... 'भो विसे'। ५ गाथा ४९७। क. 'स्याऽन'। ७ गाथा ४९८ । (द! स्कृष्टोऽक्षरलाभा संपूर्णश्रुतज्ञानवतो लभ्यते, तथा केवलाक्षरमङ्गीकृत्योत्कृष्टोऽसौ केवलिनोऽपि लभ्यत एव, कि तद्वजनस्य फलम् ।। क्षमाश्रमणपूज्यैश्च 'थीणद्धि' इत्यादिगाथायामित्थं व्याख्यातम्- "सच किल जघन्यतोऽनन्तभाग" इत्यादि नेह प्रक्रमे गृह्यते, किन्तु श्रुताक्षरमेवेति । तदयुक्तम् , चिरन्तनटीकाद्वयेऽप्यक्षरस्य सामान्यस्यैव व्याख्यानात् । किञ्च, विशेषतोत्र श्रुताक्षरे गृह्यमाणे 'तस्य श्रुताक्षरस्याऽनन्तभागः सर्वजीवानां नित्योद्घाटः' इति व्याख्यानमापद्यते । एतच्चाऽयुक्तम्, संपूर्णश्रुतज्ञानिनां, ततोऽनन्तभागादिहीनश्रुतज्ञानवतां च श्रुताक्षरानन्तभागवत्चानुपपत्तेः । किञ्च, (सो उण) 'केवलिवज्जाणं तिविहभेओ वि' इत्येतदसंबद्धमेव स्यात् , केवलिनः सर्वथैव श्रुताक्षरस्यासंभवेन तद्वर्जनस्याऽऽनर्थक्यप्रसङ्गादिति । परमार्थ चेह केवलिनः, बहुश्रुतावा विदन्ति, इत्यलं प्रसङ्गेन ।
_ विमध्यममक्षरानन्तभागमाह- ततस्तस्मादुत्कृष्टश्रुतज्ञानविदोऽवशेषाणामेकेन्द्रिय-संपूर्णश्रुतज्ञानिनोर्मध्ये वर्तमानानां पदस्थानपतितानामनन्तभागादिगतानां प्रायेण विमध्यो मध्यमोऽक्षरानन्तभागो भवति । एकस्मादुत्कृष्टश्रुतज्ञानिनोऽवशेषाः केचित् श्रुतमाश्रित्य तुल्या अपि भवन्ति, अत उक्तम्-प्रायेणावशेषाणां विमध्यम इति । अयमर्थ:-विवक्षितादेकस्मादुत्कृष्टश्रुतज्ञानिनोऽवशेषाणामपि केषाश्चिदुत्कृष्टश्रुतज्ञानवतां तत्तुल्य एवाऽक्षरानन्तभागो भवति, न तु विमध्यम उत्कृष्ट इत्यर्थः॥ इति सप्तचत्वारिंशदाथार्थः ॥ ५० ॥।
॥ इत्यक्षरश्रुतं समाप्तमिति ॥ अथ तत्मतिपक्षभूतमनक्षरश्रुतमाह
ऊँससियं नीससियं निच्छूढं खासिअं च छीयं च । निस्सिंघियमणुसारं अणक्खरं छेलियाईयं ॥५०॥
उच्चसनमुच्छसितं, भावे निष्ठाप्रत्ययः । तथा, निःश्वसनं निःश्वसितम् । निष्ठीवनं निष्ठूतम् । कासनं कासितम् । क्षवण क्षुतम् । निःसिङ्घनं निःसिङ्गितम् । अनुस्वारवदनुस्वारम् , अक्षरमपि यदनुस्वारवदुच्चार्यत इत्यर्थः । एतदुच्छुसिताद्यनक्षरश्रुतम् । न केवलमेतत् , किन्तु सेण्टनं सेण्टितम् , एतदादि चाऽनक्षरश्रुतमिति प्राक्तनसमुच्चयार्थचशब्दयोरेकोऽत्र योज्यते । आदिशब्दात् पूत्कृत-सीत्कारादिपरिग्रहः॥ इति नियुक्तिगाथार्थः॥ ५०१॥
१ प. छ. 'नफ' । २ गाथा ४९९ । ३ गाथा ४९७ ॥ ४ प.छ. 'मध्यमो म'।+चेति-1xजघन्यो -15निरयतम५ उच्छ्वसितं निःश्वसितं निष्ठूतं कासितं च क्षुतं च । नि.सिडितमनुस्वारमनक्षरं सेण्टितादिकम् ॥५०॥ ६ घ.छ. 'दिन' ।
For Private and Personal Use Only