________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
136 विशेषा० अविसेसकेवलं पुण संयपज्जाएहिं चैव तत्तुलं । जं नेयं पइ ते सव्वभावव्वावारविंणिउत्तं ।। ४९४ ।।
उभयत्र सर्वद्रव्य-पर्यायराशिप्रमाणत्वे तुल्येऽपि श्रुत-फेत्रलयोरस्ति विशेष इत्येवं पुनः शब्दोऽत्र विशेषचीतनाथः । का पुनरसौ विशेषः १, इत्याह- अविशेषेण पर्यायसामान्येन युक्तं केवलमविशेषकेवलं स्व-परविशेषरहितैः सामान्यत एवाऽनन्तपर्यायैर्युक्तं केवलज्ञानमविशेषकेवलमित्यर्थः । तदेवंभूतं केवलं स्वपर्यायैरेव तत्तुल्यं- तेन प्रक्रमानुवर्तमानसर्वद्रव्य-पर्यायराशिना तुल्यं तत्तुल्यं, श्रुतज्ञानं तु समुदितैरेव स्व-परपर्यायैस्तत्तुल्यमिति विशेष इति भावः । कथं पुनः केवलज्ञानस्य तावन्तः पर्यायाः, इत्याह- 'जे नेयमित्यादि' यद् यस्मात् केवलज्ञानं सर्वद्रव्य-पर्यायलक्षणं ज्ञेयं प्रति सर्वभावेषु निःशेषज्ञातव्यपदार्थेषु योऽसौ परिच्छेदलक्षणो व्यापारस्तत्र विनियुक्त प्रतिसमयं प्रवृत्तिमदित्यर्थः । इदमुक्तं भवति- केवलज्ञानं सर्वानपि सर्वद्रव्य-पर्यायान् जानाति, तेच तेन ज्ञायमाना ज्ञानवादिनयमतेन तत्स्वरूपतया परिणताः, ततो ज्ञानमयत्वात् ते केवलस्य स्वपर्याया एव भवन्ति, अतः केवलज्ञानं तैरेव सर्वद्रव्यपर्यायराशितुल्यं भवति । श्रुतादिज्ञानानि तु सर्वद्रव्य-पर्यायराशेरनन्ततममेव भागं जानन्ति । अतस्तेषां स्वपर्याया एतावन्त एव भवन्ति, अतोन श्रुतज्ञानं स्वपर्यायैस्तत्तुल्यं, तदनन्तभागवर्तिस्वपर्यायमानत्वात्, इति श्रुत-केवलयोर्विशेषः । अत्र पक्षे केवलस्य परपर्यायविवक्षा न कृता। ये हि केवलस्य निःशेषज्ञेयगता विषयभूताः पर्यायास्ते ज्ञानाद्वैतवादिनयमतेन ज्ञानरूपत्वादापत्त्यैव स्वपर्यायाः प्रोक्तान तु परपर्यायापेक्षया, इत्यविशेषकेवलत्वविरोधो नाशङ्कनीय इति ॥ ४९४ ॥
तदेवं ज्ञानवादिनयमतविवक्षयैव केवलस्य परपर्यायाभावः प्रोक्तः, वस्तुस्थित्या पुनरिदमपि स्व-परपर्यायान्वितमेवेति दर्शयति-- - वेत्थुसहावं पइ तं पि स-परपज्जायभेयओ भिन्नं । तं जेण जीवभावो भिन्ना य तओ घडाईया ॥४९५॥
वस्तुस्वभावं प्रति यथावस्थितैवस्तुस्वरूपमाश्रित्य तदपि केवलज्ञानमकाराधक्षरवत् ख-परपर्यायभेदतो भिन्नमेव, न तु यथोतनीत्या स्वपर्यायान्वितमेवेति भावः । कुतः १, इत्याह- येन कारणेन तत्केवलज्ञानं जीवभावःप्रतिनियतो जीवपर्यायो न घटादिस्वरूप तत, नापि घटादयस्तत्वभावाः, किंतु ततो भिन्नाः । इति तेन ज्ञायमाना अपि कथं तस्य स्वपर्याया भवेयुः, सर्वसंकरैकत्वादिप्रसङ्गात् । तस्मादमूर्तत्वाच्चेतनवत्त्व-सर्ववेत्तृत्वा-अतिपातित्व-निरावरणत्वादयः केवलज्ञानस्य स्वपर्यायाः, घटादिपर्यायास्तु व्यावृत्तिमाश्रित्य परपर्याया।
१ भविशेषकेवलं पुनः स्वकपर्यायरेव सस्तुल्यम् । यज्ज्ञेयं प्रति तत् सर्वभावव्यापारविनियुक्तम् ॥ ४९४ ॥ २ वस्तुस्वभावं प्रति तदपि स्व-परपर्यायभेदतो भिन्नम् । तद् येन जीवभावो भिन्नाश्च ततो घटादिकाः ॥ ४९५ ॥ ३ क.ख.ग. 'तं ।
अन्ये तु व्याचक्षते- सर्वद्रव्यगतान् सर्वानपि पर्यायान् केवलज्ञानं जानाति, येन च स्वभावेनैक पर्याय जानानि न तेनैवाऽपरमपि, किन्तु स्वभावभेदेन, अन्यथा सर्वव्य-पर्यायैकत्वप्रसङ्गात् । तस्मात् सर्वद्रव्य-पर्यायराशितुल्याः स्वभावभेदलक्षणाः केवलज्ञानस्य खपर्यायाः, सर्वद्रव्य-पर्यायास्तु परपर्यायाः, इत्येवं वपर्यायाः, परपर्यायाश्चोभयेऽपि परस्परं तुल्याः केवलस्येति ।। ४९५॥
एवं च सति किं स्थितम् ?, इत्याह- अविसेसियं पि सुत्ते अक्खरपज्जायमाणमाइट । सुय-केवलक्खराणं एवं दोण्हं पि न विरुद्ध ॥ ४९६ ॥
एवं सत्यविरुद्धम्- एवं सत्यविशिष्टमपि नन्दिसूत्रे यत्सर्वाकाशमदेशाग्रमनन्तगुणितमक्षरप्रमाणमादिष्टम् । तत् श्रुतस्य, केवलस्य वा न विरुद्धम् , श्रुताक्षरस्य केवलस्य चोक्तन्यायेनाऽर्थतो द्वयोरपि समानपर्यायत्वात्। तथाहि- श्रुतस्य, केवलस्य च परपर्याया निर्विवादं तुल्या एव, स्वपर्यायास्तु यद्यपि 'अन्ये तु व्याचक्षते' इत्यादिनाऽनन्तरमेव केवलस्य भूयांसः प्रोक्ताः, तथापि तेभ्यो व्यावृत्तत्वात् तावन्तः श्रुतस्य परपर्याया वर्धन्त इति । तदेवं द्वयोरपि सामान्यतः पर्यायसमानत्वम्, इत्युभयोरपि ग्रहणे सूत्रेन किमपि थूयत इति।।४९६॥
नन्वेतत् सर्वपरिमाणमक्षरं किं सर्वमपि ज्ञानावरणकर्मणाऽऽवियते, न वा ?, इत्याह
तैस्स उँ अणंतभागो निच्चुग्घाडो य सव्वजीवाणं । भणियो सुयम्मि केवलिवज्जाणं तिविहभेओ वि॥४९७॥
तस्य च सामान्येनैव सर्वपर्यायपरिमाणाऽक्षरस्याऽनन्तभागो नित्योद्घाटितः सर्वदैवाऽनावृतः केवलिवानां सर्वजीवाना जघन्य-मध्यमो-स्कृष्टत्रिविधभेदोऽपि श्रुते भणितः प्रतिपादित इति ॥ ४९७ ॥
तत्र सर्वजघन्यस्याऽक्षरानन्तभागस्य स्वरूपमाहसो पुण सव्वजहन्नो चेयण्णं नावरिजइ कयाइ । उक्कोसावरणम्मि वि जलयच्छन्नकभासो व्व ॥ ४९८॥
नः सर्वजघन्योऽक्षरानन्तभाग आत्मनो जीवत्वनिबन्धनं चैतन्यमात्र, तच्च तावन्मात्रमुत्कृष्टावरणेऽपि सति जीवस्य कदा चिदपि नावियते न तिरस्क्रियते, अजीवत्वप्रसङ्गात् , यथा सुष्ठपि जलदच्छन्नस्याऽस्याऽऽदित्यस्य भासः प्रकाशो दिन-रात्रिविभागनिबन्धन किश्चित्पभामांत्र (कदापि)नाऽऽवियते, एवं जीवस्यापि चैतन्यमानं कदाँचिद् नावियत इति भाव इति ॥ ४९८ ॥
१ घ.छ. 'लस्य' । २ अविशेषितमपि सूत्रेऽक्षरपर्यायमानमादिष्टम् । श्रुत-केवलाक्षरयोरेवं द्वयोरपि न विरुवम् ॥ १९॥xत्ति३ तस्य त्वनन्तभागो नित्योद्घाटश्च सर्वजीवानाम् । भणितः श्रुते केवलिवर्जानां त्रिविधभेदोऽपि ॥ ४९७॥ ४ घ.छ. 'उण अ। ५ स पुनः सर्वजघन्यश्चैतन्यं नानियते कदापि । उत्कृष्टावरणेऽपि जलदच्छचार्कभास इव ॥ ४९८ ।। ६. छ. 'ना' । ७ प.छ'दापि ना।..
For Private and Personal Use Only