Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 181
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 174 , विशेषा. पश्यति । कियन्तम् ?, इत्याह- समा उत्सर्पिण्य-वसर्पिणी: 'असंख्येया' इति लिङ्गव्यत्ययेनाऽत्रापि संबध्यते । द्रव्यं तु सर्व रूपं पश्यति । भावं तु तेषामेव रूपिद्रव्याणां पर्यायान् वक्ष्यमाणसंख्यान जानाति ॥ ६८६॥ ___ अथ प्रेरका माह खेत्तोवमाणमुत्तं जमगणिजीवेहिं किं पुणो भणियं । तं चिय संखाइयाई लोगमित्ताइं निहिं ॥३८७॥ आह- ननु यदग्निजीवैः क्षेत्रोपमान क्षेत्रोपमित तत् नियुक्तिकृता 'सव्यबहुअगणिजीवा निरंतर जत्तिय भरिजसु' इत्यादि गाथायां मागेवोक्तं प्रतिपादितम् , किमर्थं पुनरप्यत्र "खेत्तोवमियं अगणिजीवा' इत्यनेन गाथावयवेन भणितम् । अत्रोत्तरमाह- 'त चियेत्यादि' तदेव मागुक्तमग्निजीवैः क्षेत्रोपमानं क्षेत्रोपमितमिह 'परमोहि असंखेज्जा' इत्यादिवचनादलोके लोकमात्राणि संख्यातीतानि खण्टानि भवन्ति, इति नियतमानतया निर्दिष्टं, न पुनरपूर्वतयेति भावः । इह 'सूत्रगय लहइ सव्वं' इत्येतद् भाष्यकृता 'देव्यं सय रूब पासई' इति वचनादवधेव्यतो विषयपतिपादनपरं व्याख्यातम् ॥ ६८७ ॥ .. अथ 'एंगपएसोगाढ' इत्यादिनैव द्रव्यतोऽवधिविषयस्योक्तत्वात् क्षेत्र-कालयोरेव विशेषणत्वलक्षणेन प्रकारान्तरेण व्याख्यातुमाह अहवा दव्वं भणियं इह रूवगयं ति खेत्त-कालदुगं । रूवाणुगयं पेच्छइ न य तं चिय तं जओऽमुत्तं ॥६८८॥ अथवा 'एंगपएसोगाढं परमोही लहइ कम्मगसरीर' इत्यादिनैवाऽवधिविषयभूतं द्रव्यं भणितम् , अतो 'रूपगतं लभते सर्वे इत्येतदवधेव्यतो विषयाभिधायकतया न व्याख्यायते । तर्हि कथमिदं नीयते ? इत्याह- 'इहेत्यादि' इह यदसंख्येयलोकखण्डासंख्यातोत्सर्पिण्य-ऽवसर्पिणीलक्षणं क्षेत्र-कालद्वयमवधिविपयत्वेनोक्तम् , तद् 'रूपगतं' इति रूपगतं लभते सर्वम् । कोऽर्थः १, इत्याह- रूपानुगतं तत्स्थरूपिद्रव्याणां दर्शनाद् रूपिद्रव्यसंबद्धमेव प्रेक्षते, न पुनस्तदेव क्षेत्र-कालद्वयं केवलं पश्यति, यतस्तदमूर्तम् , मूर्तविषयश्चावधिरिति ॥ ६८८॥ अथ विनेयानुग्रहार्थं प्रासङ्गिक किश्चिदभिधित्सुर्वक्ष्यमाणं च संबन्धयितुमाह१ क. ग. 'संख्येया'। २ क्षेत्रोपमानमुक्तं यदग्निजीवैः किं पुनर्भणितम् । तदेव संख्यातीतानि लोकमात्राणि निर्दिष्टम् ॥ ६८७ ॥ ३ गाथा ५९८।। ४ गाथा ६८५। ५ गाथा ६८६ । ६ गाथा ६७५ । ७ अथवा द्रव्यं भणितमिह रूपगतमिति क्षेत्र-कालद्विकम् । रूपानुगत प्रेक्षते न च तदेव तद् यतोऽमूर्तम् ॥६८८) .. 'परमोहिन्नाणविओ केवलमंतोमुहुत्तमित्तेण । मणुयक्खओवसमिओ भणिओ, तिरियाण वोच्छामि॥६८९॥ परमावधिज्ञानेन वेत्तीति परमावधिज्ञानवित् तस्य परमावधिज्ञानविदः परमावधौ समुत्पन्ने सति किलान्तर्मुहूर्तेनावश्यमेव केवलज्ञानमुत्पद्यते । केवल ज्ञानसूर्यस्य [दयपदवीमासादयतः प्रथमप्रभास्फोटकल्पं परमावधिज्ञानम् , अतस्तदनन्तरमवश्यं भवत्येव केवलज्ञानभास्करोदय इति । तदेवं भणितो मनुष्यसंवन्धी क्षायोपशमिकोऽवधिः । इदानी तिरवाममुं वक्ष्यामि ॥ इति गाथाचतु ध्यार्थः ॥ ६८९ ॥ यथाप्रतिज्ञातमेवाह आहार-तेयलंभो उक्कोसेणं तिरिक्खजोणीसु । गाउय जहण्णमोही नरएसु य जोयणुक्कोसो ॥६९० ॥ आहारक-तैजसयोरुपलक्षणत्वाद् यान्यौदारिक-वैक्रिया-ऽऽहारक-तैजसद्व्याणि, यानि च तदन्तरालेषु तदयोग्यानि द्रन्याणि तेषां लाभः परिच्छेद उत्कृष्टतस्तिर्यग्योनिषु मत्स्यादिषु भवति । एतद्र्व्यानुसारेण क्षेत्र-काल-भावाः स्वयमभ्यूह्या इति । तदेवं यदुक्तम्'काई भवपच्चइया खओवसमियाओ काओ वि' तत्र क्षायोपशमिककृतयोऽभिहिताः। अथ भवप्रत्ययास्ताः प्रतिपाद्याः, ताश्च सुर-नार काणां भवन्ति, तत्राल्पवक्तव्यत्वात् प्रथमं नारकाणामाह- 'गाउएत्यादि' नरकेषु पुनर्नारकाणामुत्कृष्टोऽवधिः क्षेत्रतो योजन पश्यति, जघन्यस्तु गव्यूतम् । तत्र योजनप्रमाणो रत्नप्रभायां, गव्यूतमानस्तु सप्तमपृथिव्यां द्रष्टव्यः ॥ इति नियुक्तिगाथार्पः ॥ ६९०॥ अत्र भाष्यम् ओरालिय-बेउविय-आहारग-तेयगाइं तिरिएसु । उक्कोसेणं पेच्छइ जाइं च तदंतरालेसु ॥ ६९१ ॥ भणिओ खओवसमिओ भवपच्चइओस चरिमपुढवीए । गाउयमुक्कोसेणं पढमाए जोयणं होइ ॥ ६९२ ॥ , परमावधिज्ञानविदा केवलमन्तर्मुहूर्तमानेण । मनुजक्षायोपशमिको भणितः, तिरश्वो वक्ष्यामि ॥ ६८९ ॥ २ आहार-सजसालम्भ उत्कर्षेण तिर्यग्योनिपु । गम्यतं जघन्यमवधिर्नरकेषु च योजनमुस्कृष्टम् ॥ ६९० ॥ ३ गाथा ५६८ । ४ औदारिक-वैक्रिया-हारक-सैजसानि तिर्यक्षु । उत्कर्षेण प्रेक्षते यानि च तदन्तरालेषु ॥ १९॥ भणितः क्षायोपशमिको भवप्रत्ययितःस चरमपृथिव्याम् । गन्यूतमुत्कर्षेण प्रथमायां योजनं भवति ॥ ६९२ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339