Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 197
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 190 विशेषा० इत्याह- 'तेञ्चिय पुन्चपवण्णेत्यादि' य एव मतिज्ञानस्य पूर्वप्रतिपन्ना उक्ता अवधिज्ञानस्याऽपि त एव द्रष्टव्याः। किं सर्वथा ?, न, इत्याई'वियलेत्यादि' विकलेन्द्रियान् असंक्षिपश्चेन्द्रियांश्च मुक्त्वेत्यर्थः । एते हि सास्वादनसम्यग्दृष्टयो मतिज्ञानस्य पूर्वप्रतिपमा उक्ताः, अवधेस्तु न प्रतिपयमानका नापि पूर्वप्रतिपन्ना भवन्तीति भावः ॥ इति गायाद्वयार्थः ॥ ७७७ ॥ ७७८ ॥ ॥ अवसितं गत्यादिद्वारम् ॥ अथ शेषवर्णयितुमाह आमोसहि विप्पोसहि खेलोसहि जेल्लमोसहि चेव । संभिन्नसोय उजुमइ सव्वोसहि चेव बोधन्वो ॥७७९॥ चारण आसीविसा केवली य मणनाणिणो य पुव्वधरा । अरहंत-चक्कवट्टी बलदेवा वासुदेवा य ॥७८०॥ - ताऽऽमर्षणमामर्षः संस्पर्शनमित्यर्थः, स एवौषधिर्यस्याऽसावामडैषधिः, करादिसंस्पर्शमात्रादेव व्याध्यपनयनसमर्थो लब्धिलब्धिमतोरभेदोपचारात् साधुरेवाऽऽमर्पोषधिरित्यर्थः । 'विप्पोसहि त्ति' मूत्र-पुरीषयोरवयवो विमुडुच्यते । अन्ये त्वाहुः- विड् उच्चारः, प्रेति प्रत्रवणम | खेलः श्लेष्मा, जल्लो मलः, औषधिशब्देन समासकरणादिकं तथैव, सुगन्धाश्चैते विडादयस्तल्लब्धिमतां द्रष्टव्याः । चात्मानं परं वा रोगापनयनबुड्या विडादिभिः स्पृशतः साधोस्तद्रोगापगमो द्रष्टव्यः, प्रागुक्ताऽऽमर्षलब्धिरपि शरीरैकदेशे सर्वस्मिन् वा शरीरे समुत्पद्यते, तेन चात्मानं परं वा व्याध्यपगमबुद्ध्या परामशतस्तदपगमो द्रष्टव्यः। 'संभिन्नसोयत्ति यः सर्वतः सर्वैरपि शरीरटेज शृणोति स संभिन्नश्रोताः। अथवा, श्रोतांसीन्द्रियाणि संमिन्नान्येकैकशः सर्वविषयैर्यस्य स तथा, एकतरेणापीन्द्रियेण समस्तापरेन्द्रियगम्यान् विषयान् यो मुणत्यवगच्छति स संभिन्न श्रोता इत्यर्थः । अथवा, श्रोतांसीन्द्रियाणि सभिन्नानि परस्परत एकरूपतामापन्नानि यस्य स तथा, श्रोत्रं चक्षुःकार्यकारित्वाच्चक्षुरूपतामापन्नम् , चक्षुरपि श्रोत्रकार्यकारित्वात् तत्तद्रूपतामापन्नम् , इत्येवं संभिन्नानि श्रोतांसि सर्वाण्यपि परस्परणेन्द्रियाणि यस्यासौ संभिन्नश्रोता इति भावः, इत्यत्रापि स एवार्थः । अथवा, द्वादशयोजनस्य चक्रवर्तिकटकस्य. युगपद् वाणस्य, तत्तूर्यसंघातस्य वा युगपदास्फाल्यमानस्य संभिन्नॉल्लक्षणतो विधानतश्च परस्परतो विभिन्नान् जननिवहसमुत्थान श-भेरी-माणक-ढक्कादितूर्यसमुत्थान् वा युगपदेव सुबहून् शब्दान् यः शृणोति स संभिन्नश्रोताः । एवं च संभिन्नश्रोतृत्वलब्धिरपि , भामयौंषधिर्विमुडौषधिः श्लेष्मौषधिर्मलौषधिश्चैव । संभिन्नश्रोता ऋजुमतिः सर्वोषधिश्चैव बोखड्यः ॥ ७७९ ॥ २ चारणा माशीविषा केवलिनश्च मनोज्ञानिनश्च पूर्वधराः । अहं-चक्रवर्तिनो बलवेवा वासुदेवाय ॥...॥ ऋदिरेवेति । 'उजुमइ त्ति' ऋज्वी पायो घटादिसामान्यमात्रग्राहिणी मतिः ऋजुमतिः, विपुलमत्यपेक्षया किश्चिदविशुद्धतरं मनापर्यायज्ञानमेव । 'सव्वोसहि त्ति' सर्व एव विड्-मूत्र-केश-नखादयोऽवयवाः सुरभयो व्याध्यपनयनसमर्थत्वादौषधयो यस्य स सर्वोपषिः, अथवा, सर्वा आमर्पोषध्यादिका औषधयो यस्यैकस्यापि साधोः स तथा । एवमेते ऋद्धिविशेषा बोद्धव्याः। तथा 'चारण त्ति' अतिशयवद्गमना-ऽऽगमनरूपाचारणाच्चारणाः सातिशयगमना-ऽऽगमनलब्धिसंपन्नाः साधुविशेषा एव । तेच द्विविधा:- विद्याचारणाः, जङ्घाचारणाश्च । तत्र विद्या विवक्षितः कोऽप्यागमस्तत्मधानश्चारणो विद्याचारणः । अस्य च यथाविधि सातिशयषष्ठलक्षणेन तपसा सर्वदैव तपस्यतो विद्याचरणलब्धिरुत्पद्यते, तया चासावित एकेनोत्पातेन मानुषोत्तरपर्वतं गच्छति, चैत्यानि च तत्र वन्दते । ततो द्वितीयेनोत्पातेन नन्दीश्वरनामानमष्टमद्वीपं गत्वा चैत्यानि वन्दते । तत एकेनोत्पातेन प्रतिनिवृत्त्य यतः स्थानाद् गतः पुनस्तत्रागच्छतीति । एष तावत् तस्य तियेंग्गतिविषयः। ऊर्ध्व स्वित एकेनोत्पातेन नन्दनवनं गत्वा तत्र चैत्यानि वन्दते, ततो द्वितीयेनोत्पातेन मेरुशिखरस्थं पण्डकवनं गत्वा चैत्यानि वन्दते । ततश्चैकेनोत्पातेन प्रतिनिवृत्य यतः स्थानाद गतः पुनस्तत्राऽऽगच्छतीति । लूतातन्तुनिवर्तितपुटकतन्तून् रविकरान् वा निश्रां कृत्वा जङ्घाभ्यामाकाशेन चरतीति जङ्घाचारणः । अस्य च यथाविधि सातिशयाऽष्टमलक्षणेन विकृष्टतपसा सर्वदैव तपस्यतो जङ्घाचारणलब्धिरुत्पद्यते । तया चासावित एकनोत्पातेन त्रयोदशं रुचकवरद्वीप गत्वा तत्र चैत्यानि वन्दते । ततो निवर्तमानो द्वितीयेनोत्पातेन नन्दीश्वरमागत्य तत्र चैत्यानि वन्दते । ततस्तृतीयेनोत्पातेन यतः स्थानाद् गतस्तत्रागच्छतीति । एषोऽस्य तिर्यग्गतिविषयः । ऊर्ध्व वित एकेनोत्पातेन पण्डकवनं गत्वा चैत्यानि वन्दते । ततो निवर्तमानो द्वितीयेनोत्पातेन नन्दनवने चैत्यानि वन्दित्वा तृतीयोत्पातेन यतः स्थानाद गतस्तत्राऽऽगच्छतीति । 'आसीविस त्ति' आश्यो दंष्ट्रास्तासु विषं येषां ते आशीविषाः, ते च द्विविधा:-जातितः, कर्मतश्च। तत्र जातितो दृश्चिक-मण्डूकसर्प-मनुष्यजातयः, क्रमेण बहु-बहुतर-बहुतमविषाः- वृश्चिकविषं धुत्कृष्टतोऽर्धभरतक्षेत्रमाणं शरीरं व्यामोतीति, मण्डूकविषं तु भतरक्षेत्र प्रमाणम् , भुजङ्गमविषं तु जम्बूद्वीपप्रमाणम् , मनुष्यविषं तु समयक्षेत्रमाणं वपुर्व्यामोति । कर्मतस्तु पञ्चेन्द्रियतिर्यश्चः,मनुष्याः, देवाचाऽऽ सहस्रारादिति । एते हि तपश्चरणानुष्ठानतोऽन्यतो वा गुणत आशीविषवृश्चिक-भुजङ्गादिसाध्यकर्मक्रियां कुर्वन्ति-शापादिना परं व्यापादगन्तीत्यर्थः । देवाश्चाऽपर्याप्तावस्थायां तच्छक्तिमन्तो द्रष्टव्याः; ते हि पूर्व मनुष्यभवे समुपार्जिताशीविषलब्धयः सहस्रारान्तदेवेष्वभिनवोत्पन्ना आपर्याप्तावस्थायां प्राग्भविकाऽऽशीविषलब्धिमन्तो मन्तव्याः, ततः परं तल्लब्धिनिवृत्तेः। पर्याप्ता अपि देवाः शापादिना परं विनाशयन्ति, किन्तु लब्धिव्यपदेशस्तदान प्रवर्तत इति । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339