________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
190
विशेषा० इत्याह- 'तेञ्चिय पुन्चपवण्णेत्यादि' य एव मतिज्ञानस्य पूर्वप्रतिपन्ना उक्ता अवधिज्ञानस्याऽपि त एव द्रष्टव्याः। किं सर्वथा ?, न, इत्याई'वियलेत्यादि' विकलेन्द्रियान् असंक्षिपश्चेन्द्रियांश्च मुक्त्वेत्यर्थः । एते हि सास्वादनसम्यग्दृष्टयो मतिज्ञानस्य पूर्वप्रतिपमा उक्ताः, अवधेस्तु न प्रतिपयमानका नापि पूर्वप्रतिपन्ना भवन्तीति भावः ॥ इति गायाद्वयार्थः ॥ ७७७ ॥ ७७८ ॥
॥ अवसितं गत्यादिद्वारम् ॥ अथ शेषवर्णयितुमाह
आमोसहि विप्पोसहि खेलोसहि जेल्लमोसहि चेव । संभिन्नसोय उजुमइ सव्वोसहि चेव बोधन्वो ॥७७९॥
चारण आसीविसा केवली य मणनाणिणो य पुव्वधरा । अरहंत-चक्कवट्टी बलदेवा वासुदेवा य ॥७८०॥ - ताऽऽमर्षणमामर्षः संस्पर्शनमित्यर्थः, स एवौषधिर्यस्याऽसावामडैषधिः, करादिसंस्पर्शमात्रादेव व्याध्यपनयनसमर्थो लब्धिलब्धिमतोरभेदोपचारात् साधुरेवाऽऽमर्पोषधिरित्यर्थः । 'विप्पोसहि त्ति' मूत्र-पुरीषयोरवयवो विमुडुच्यते । अन्ये त्वाहुः- विड् उच्चारः, प्रेति प्रत्रवणम | खेलः श्लेष्मा, जल्लो मलः, औषधिशब्देन समासकरणादिकं तथैव, सुगन्धाश्चैते विडादयस्तल्लब्धिमतां द्रष्टव्याः । चात्मानं परं वा रोगापनयनबुड्या विडादिभिः स्पृशतः साधोस्तद्रोगापगमो द्रष्टव्यः, प्रागुक्ताऽऽमर्षलब्धिरपि शरीरैकदेशे सर्वस्मिन् वा शरीरे समुत्पद्यते, तेन चात्मानं परं वा व्याध्यपगमबुद्ध्या परामशतस्तदपगमो द्रष्टव्यः। 'संभिन्नसोयत्ति यः सर्वतः सर्वैरपि शरीरटेज शृणोति स संभिन्नश्रोताः। अथवा, श्रोतांसीन्द्रियाणि संमिन्नान्येकैकशः सर्वविषयैर्यस्य स तथा, एकतरेणापीन्द्रियेण समस्तापरेन्द्रियगम्यान् विषयान् यो मुणत्यवगच्छति स संभिन्न श्रोता इत्यर्थः । अथवा, श्रोतांसीन्द्रियाणि सभिन्नानि परस्परत एकरूपतामापन्नानि यस्य स तथा, श्रोत्रं चक्षुःकार्यकारित्वाच्चक्षुरूपतामापन्नम् , चक्षुरपि श्रोत्रकार्यकारित्वात् तत्तद्रूपतामापन्नम् , इत्येवं संभिन्नानि श्रोतांसि सर्वाण्यपि परस्परणेन्द्रियाणि यस्यासौ संभिन्नश्रोता इति भावः, इत्यत्रापि स एवार्थः । अथवा, द्वादशयोजनस्य चक्रवर्तिकटकस्य. युगपद् वाणस्य, तत्तूर्यसंघातस्य वा युगपदास्फाल्यमानस्य संभिन्नॉल्लक्षणतो विधानतश्च परस्परतो विभिन्नान् जननिवहसमुत्थान श-भेरी-माणक-ढक्कादितूर्यसमुत्थान् वा युगपदेव सुबहून् शब्दान् यः शृणोति स संभिन्नश्रोताः । एवं च संभिन्नश्रोतृत्वलब्धिरपि
, भामयौंषधिर्विमुडौषधिः श्लेष्मौषधिर्मलौषधिश्चैव । संभिन्नश्रोता ऋजुमतिः सर्वोषधिश्चैव बोखड्यः ॥ ७७९ ॥
२ चारणा माशीविषा केवलिनश्च मनोज्ञानिनश्च पूर्वधराः । अहं-चक्रवर्तिनो बलवेवा वासुदेवाय ॥...॥ ऋदिरेवेति । 'उजुमइ त्ति' ऋज्वी पायो घटादिसामान्यमात्रग्राहिणी मतिः ऋजुमतिः, विपुलमत्यपेक्षया किश्चिदविशुद्धतरं मनापर्यायज्ञानमेव । 'सव्वोसहि त्ति' सर्व एव विड्-मूत्र-केश-नखादयोऽवयवाः सुरभयो व्याध्यपनयनसमर्थत्वादौषधयो यस्य स सर्वोपषिः, अथवा, सर्वा आमर्पोषध्यादिका औषधयो यस्यैकस्यापि साधोः स तथा । एवमेते ऋद्धिविशेषा बोद्धव्याः।
तथा 'चारण त्ति' अतिशयवद्गमना-ऽऽगमनरूपाचारणाच्चारणाः सातिशयगमना-ऽऽगमनलब्धिसंपन्नाः साधुविशेषा एव । तेच द्विविधा:- विद्याचारणाः, जङ्घाचारणाश्च । तत्र विद्या विवक्षितः कोऽप्यागमस्तत्मधानश्चारणो विद्याचारणः । अस्य च यथाविधि सातिशयषष्ठलक्षणेन तपसा सर्वदैव तपस्यतो विद्याचरणलब्धिरुत्पद्यते, तया चासावित एकेनोत्पातेन मानुषोत्तरपर्वतं गच्छति, चैत्यानि च तत्र वन्दते । ततो द्वितीयेनोत्पातेन नन्दीश्वरनामानमष्टमद्वीपं गत्वा चैत्यानि वन्दते । तत एकेनोत्पातेन प्रतिनिवृत्त्य यतः स्थानाद् गतः पुनस्तत्रागच्छतीति । एष तावत् तस्य तियेंग्गतिविषयः। ऊर्ध्व स्वित एकेनोत्पातेन नन्दनवनं गत्वा तत्र चैत्यानि वन्दते, ततो द्वितीयेनोत्पातेन मेरुशिखरस्थं पण्डकवनं गत्वा चैत्यानि वन्दते । ततश्चैकेनोत्पातेन प्रतिनिवृत्य यतः स्थानाद गतः पुनस्तत्राऽऽगच्छतीति ।
लूतातन्तुनिवर्तितपुटकतन्तून् रविकरान् वा निश्रां कृत्वा जङ्घाभ्यामाकाशेन चरतीति जङ्घाचारणः । अस्य च यथाविधि सातिशयाऽष्टमलक्षणेन विकृष्टतपसा सर्वदैव तपस्यतो जङ्घाचारणलब्धिरुत्पद्यते । तया चासावित एकनोत्पातेन त्रयोदशं रुचकवरद्वीप गत्वा तत्र चैत्यानि वन्दते । ततो निवर्तमानो द्वितीयेनोत्पातेन नन्दीश्वरमागत्य तत्र चैत्यानि वन्दते । ततस्तृतीयेनोत्पातेन यतः स्थानाद् गतस्तत्रागच्छतीति । एषोऽस्य तिर्यग्गतिविषयः । ऊर्ध्व वित एकेनोत्पातेन पण्डकवनं गत्वा चैत्यानि वन्दते । ततो निवर्तमानो द्वितीयेनोत्पातेन नन्दनवने चैत्यानि वन्दित्वा तृतीयोत्पातेन यतः स्थानाद गतस्तत्राऽऽगच्छतीति ।
'आसीविस त्ति' आश्यो दंष्ट्रास्तासु विषं येषां ते आशीविषाः, ते च द्विविधा:-जातितः, कर्मतश्च। तत्र जातितो दृश्चिक-मण्डूकसर्प-मनुष्यजातयः, क्रमेण बहु-बहुतर-बहुतमविषाः- वृश्चिकविषं धुत्कृष्टतोऽर्धभरतक्षेत्रमाणं शरीरं व्यामोतीति, मण्डूकविषं तु भतरक्षेत्र प्रमाणम् , भुजङ्गमविषं तु जम्बूद्वीपप्रमाणम् , मनुष्यविषं तु समयक्षेत्रमाणं वपुर्व्यामोति । कर्मतस्तु पञ्चेन्द्रियतिर्यश्चः,मनुष्याः, देवाचाऽऽ सहस्रारादिति । एते हि तपश्चरणानुष्ठानतोऽन्यतो वा गुणत आशीविषवृश्चिक-भुजङ्गादिसाध्यकर्मक्रियां कुर्वन्ति-शापादिना परं व्यापादगन्तीत्यर्थः । देवाश्चाऽपर्याप्तावस्थायां तच्छक्तिमन्तो द्रष्टव्याः; ते हि पूर्व मनुष्यभवे समुपार्जिताशीविषलब्धयः सहस्रारान्तदेवेष्वभिनवोत्पन्ना आपर्याप्तावस्थायां प्राग्भविकाऽऽशीविषलब्धिमन्तो मन्तव्याः, ततः परं तल्लब्धिनिवृत्तेः। पर्याप्ता अपि देवाः शापादिना परं विनाशयन्ति, किन्तु लब्धिव्यपदेशस्तदान प्रवर्तत इति ।
For Private and Personal Use Only