________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
189 विशेषा० यानि वा योजनानि प्रत्येकं भवतीत्यर्थः । कया सह १, इत्याह- 'पुरुषावाधया' इत्येवं सहायंतृतीयया पुरुषाबाधापदमत्रापि योज्यते न केवलमवधिः संख्येयानि, असंख्येयानि वा योजनानि भवति, किं तर्हि १, पुरुषायन्तरालरूपा बाधा साऽप्येतावन्माना भवतीत्यर्थः । इदं चान्तरमसंबद्ध एवाऽवधौ भवति, न तु संबढे, तत्र संबद्धत्वेनैव तदसंभवात् । इह चासंबद्धेऽवधावन्तरे च चतुर्भलिका'संख्येयमन्तरं संख्येयोऽवधिः, संख्येयमन्तरमसंख्येयोऽवधिः, 'असंख्येयमन्तरं संख्येयोऽवधिः, 'असंख्येयमन्तरमसंख्येयोऽवधि, इत्येवं चत्वारोऽपि भङ्गकाः संभवन्ति । संबद्धे त्ववधौ विकल्पाभावः, तदुत्थानहेतोरन्तरलक्षणस्य द्वितीयपदस्य तत्राभावादिति ।
· अयं चावधिोकेऽलोके च संबद्धोऽपि भवति, इत्याह- 'लोगमलोगे य संबद्धो त्ति' इह लोकशब्देन लोकान्तो पृथते । अत्रापि च मङ्गचतुष्टयम्-तत्र यो लोकममाणावधिः स पुरुषे संबद्धो भवति, लोकान्ते च यस्तु लोकदेशवर्ती अभ्यन्तरावधिः स पुरुष संबद्धो न लोकान्ते लोकान्तेऽसंबद्धो न पुरुष इति शून्योऽयं भगः, यो हि लोकान्ते संबद्धः स पुरुषे नियमात् संबद्ध एव भवति, न स्वसंबद्ध इत्येतद्भङ्गकासंभवः न लोकान्ते नापि पुरुष संबद्धो बायावधिः। यस्त्वलोके संबद्धः स पुरुष संबद्ध एव भवतीति तत्र परकाभावः ॥ इति नियुक्तिगाथार्थः ।। ७७२ ॥
अथ भाष्यम्. . 'ओही पुरिसे कोई संबद्धो जह पभा व दीवम्मि । दूरंधयारदीवयदरिसणमिव कोइ विच्छिण्णो ॥७७३॥
'संखिज्जमसेंखिजं देहाओ खित्तमंतरं काउं । संखेज्जा-ऽसंखेजं पेच्छइ तदंतरमबाहा ॥ ७७४ ॥
संबद्धा-संबद्धो नर-लोयंतेसु होइ चउभंगो । संबद्धो उ अलोए नियमा पुरिसे वि संबद्धो ॥ ७७५ ॥
तिस्रोऽपि गतार्थाः, नवरं दूरान्धकारे भित्यादिमतिफलितदीपकस्य दर्शनं तदिव विच्छिन्नः । तदंतरमबाह त्ति' तयोर्देहा-ऽवधिप्रकाश्यक्षेत्रयोरन्तरं तदबाघोच्यत इति ।। ७७३ ।। ७७४ ॥ ७७५॥
॥ अवसित क्षेत्रद्वारम् ॥ क.ग.'वधेः सं। १ क.ग.'वन्ति किं'।। अवधिः पुरुषे कश्चित् संबद्धो यथा प्रभेव दीपे । दूराग्यकारदीपकदर्शनमिव कश्चिद विच्छिनः ॥ ७ ॥
संख्येयमसंख्येयं देहात क्षेत्रमन्तरं कृत्वा । संख्येया-5संख्येय प्रेक्षते सदन्तरमबाधा ॥ ४॥
संबद्धाऽसंबद्धो नर-लोकान्तयोर्भवति चतुर्भः। संबद्धस्वलोके नियमात् पुरुषेऽपि संवद्धः १७७५॥ ४ प.छ. 'सोज। गतिद्वारं विभणिषुराह
गैइ-नेरइयाईया हेट्ठा जह वणिया तहेव इहं । इड्ढी एसा वणिज्जइ त्ति तो सेसियाओ वि ॥७७६॥
गतिर्नरकगत्यादिका, आदिशब्दादपरोऽपीन्द्रियादिद्वारकलापः प्राक्क्षतिपादितस्वरूपोऽत्र परिगृह्यते । ततश्च नारकादिगत्यादिद्वाराणि यथाऽधस्तात पूर्व मतिज्ञानप्ररूपणाप्रस्तावे 'गंइ-इंदिए य काए जोए वेए कसाय-लेसासु, सम्पत्त-नाण-' इत्यादिना, तया 'संतपयपरूवणण दवपमाणं च' इत्यादिना च प्रतिपादितानि तथेहाप्यवधिषरूपणायां वक्तव्यानि, यस्तु विशेषस्तं भाष्यकारः स्वयमेव वक्ष्यति । षा चावधिज्ञानलक्षणा ऋद्धिः सिद्धान्ते वय॑ते, इत्यतोऽनेन संबन्धेन शेषा अप्यामोषध्यादिका ऋद्धयोऽत्र वर्ण्यन्ते ॥ इति नियुक्तिगाथार्थः ॥ ७७६ ।।
अथ गत्यादिद्वारेषु चिन्त्यमानस्याऽवधिज्ञानस्य मतिज्ञानाद् यो विशेषस्तं भाष्यकारः माह.. जे पडिवज्जंति मई तेऽवहिनाणं पि समहिआ अण्णे । वेय-कसायाईया मणपजवनाणिणो चेव ॥७७७॥
सम्मा सुर-नेरइयाऽणाहारा जे य होंतिपज्जत्ता । ते च्चिय पुव्वपवण्णा वियलाऽसण्णी य मोत्तूणं ॥७७८॥
ये मतिज्ञानस्य प्रतिपत्तारः प्रागुक्ताः, इहावधिज्ञानस्याऽपि प्रतिपत्तारस्त एव द्रष्टव्याः, केवलमत्राधिका अन्येऽपि फेचिद तेऽवगन्तव्याः तद्यथा- 'वेय-कसायाईय तिं वेदातीताः कषायातीताश्च-अवेदका अकषायिणश्चेत्यर्थः, इत्येते मतिज्ञानस्य पूर्वप्रतिपन्ना एवोक्ताः, इह त्ववधेरमी प्रतिपत्तारोऽपि भवन्ति; यतः श्रेणिद्वये वर्तमानानामवेदकानामकपायाणां च केषांचिदवधिज्ञानमुत्पद्यते, येषां चानुत्पन्नावधिज्ञानानां मति-श्रुतचारित्रवतां प्रथममेव मनःपर्यायज्ञानमुत्पद्यते, ते मनःपर्यायज्ञानिनोऽपि केचित् पश्चादवधिज्ञानस्य प्रतिपत्तारो भवन्ति । अपरं च, अनाहारका अपर्याप्तकाश्च मतिज्ञानस्य पूर्वप्रतिपन्ना एवोक्ता न तु प्रतिपद्यमानकाः, इह तु येऽपतिपतितसम्यक्त्वास्तिर्य-मनुष्येभ्यो देव-नारका जायन्ते तेऽवधिज्ञानस्य प्रतिपद्यमानका अपि पाप्यन्त इत्याह-सम्मा सुर-नेरइयाऽणाहारा जे य होंतिपज्जत ति' । ननूक्तः प्रतिपद्यमानकेषु विशेषः, पूर्वप्रतिपनेषु तु का वार्ता ?,
गति-नैरयिकादिका अधस्ताद् यथा वर्णितास्तपैवेह । ऋद्धिरेषा वर्ण्यत इति ततः शेषिका अपि ॥ ७७६ ॥ २ गाथा ४०९। ३ गाथा ४०६। ४ ये प्रतिपद्यन्ते मतिं तेऽवधिज्ञानमपि समधिका अन्ये । वेद-कपायातीता मनःपर्यवज्ञानिनव ॥ ७७७/॥ .. सम्यक्त्विनः सुर-नैरयिका अनाहारा ये च भवन्त्यपर्याप्ताः । त एवं पूर्वप्रपचा विकला-संज्ञिनच मुक्त्वा ॥ ७७४॥
For Private and Personal Use Only