________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
188
विशेषा० द्विविधो पायावधिः फडकावधिः, असंबद्धवलयाकारक्षेत्रप्रकाशकावधिश्वेत्यर्थः, तद्वान् साध्वादिरवध्युपलब्धक्षेत्रस्यान्तःस्थितोऽपि में सर्वतः पश्यति, अन्तरालाऽदर्शनात् । अतस्तद्वयवच्छेदार्थ कर्तव्य 'पश्यन्ति सर्वतः' इति । आह- नन्वयमसंततदिकावधिरवाधावाधिरेषन भवति, पाह्यावधित्वेनैव प्राक् प्रतिपादितत्वात् , तत् किमेतव्यवच्छेदपरेण 'पासति' इत्याग्रुपादानेन । सत्यम् , समयपरिभाषितषाचारधित्वमत्र नास्ति, लोकरूढं त्वधिप्रकाशितक्षेत्रमध्यवर्तित्वमात्रमत्रापि विद्यते, इत्येतव्यवच्छेदार्थ 'पासंति' इत्यादि स्थितम् । इत्यसै विस्तरेणेति ॥७६८॥
अथ द्वितीयव्याख्यान, तत्र प्रर्य चाह
'निययावहिणो अभितर त्ति वा संसयावणोयत्थं । तो सव्वओऽभिहाणं होउ किमभितरग्गहणं १ ॥७६९)
'वा' इत्यथवार्थः, स च व्याख्यानान्तरसूचकः । तत्र. नारकादयोऽवधेरवाडा अभ्यन्तरा भवन्तीति कोऽर्थः ?, इत्याह-नियतावधयो नियमेनैषामवधिर्भवत्येवेति । तर्हि 'पासंति' इत्यादि किमर्थम् , इत्याह- 'संसयावणोयत्यं ति 'किमेते देशतः पश्यन्ति, आहो. स्वित् सर्वतः' इत्येवंभूतसंशयापनोदार्थ 'पश्यन्ति सर्वतः खलु' इति वाक्यशेषः। यद्येवम् , ततः संशयापनोदाथ सर्वतोऽभिधानमेवाऽस्तु, किमभ्यन्तरग्रहणेन ' इति ॥ ७६९ ॥
अत्रोत्तरमाह
अभिंतर त्ति तेणं निययावहिणोऽवसेसया भइया। भवपञ्चायाइवयसा सिद्धे कालस्स नियमोऽयं ॥७७०॥
यदि सर्वतोग्रहणेन नारकादीनां देशदर्शनं निराकृत्य संशयो निरस्त इति ब्रूषे, तेन तर्हि भोः प्रेरक ! 'अभ्यन्तरा अबाबा' इत्यनेन नियतावधयो नियमेनाऽवधिमन्तो नारफ-देव-तीर्थकराः, अवशेषास्तु तिर्यग-मनुष्या भजनीयाः- अवधियुक्तास्तद्रहिता वा भवन्तीति प्रतिपादितं द्रष्टव्यम् । सर्वग्रहणेन हि सर्वदेशदर्शनविषय एव संदेहो निवर्त्यते, नियतावधित्वं पुनरमीषां न लभ्यते । असस्तत्मतिपादनार्थम् , अवधेरबाह्या भवन्ति' इत्येतद् वचनमिति भावः । तत्रैतत् स्यात् “भवप्रत्ययो नारक देवानाम्" इत्यादिवचनात् , यथा तीहिं नाणेहिं समग्गा तित्थयरा जाव होति गिहवासे” इत्यादिवचनाच्च सिद्धमेव नारक-देव-तीर्थकराणां नियतावधित्वम् । तत्कि
नियतावधयोऽभ्यन्तरा इति वा संशयापनोदार्थम् । ततः सर्वतोऽभिधानं भवतु किमभ्यन्तरग्रहणम् । ॥ ७६९ ॥ २ अभ्यन्तरा इति तेन नियतावधयोऽवशेषका भाज्याः । भवनस्पयादिवचसा सिद्धे कालस्य नियमोऽयम् ॥७७०॥
३ तत्त्वार्थसूत्रे १,२२ । ७. श्रीभिर्जानैः समप्रास्तीर्थकरा यावद् भवन्ति गृहवासे। मनेन ?, इत्याशङ्कयाह- भवप्रत्ययादिवचसा सिद्धेऽमीषा नियतावधित्वे 'ओहिस्सबाहिरा होति' इति कालस्य नियमोऽयं विधीयते । इदमुक्तं भवति- भवप्रत्ययादिवचनात् सिध्यति नियमेन नारकादीनामवधिमस्वम्, परं न ज्ञायते- 'किमाभवक्षयममीषामवधिर्भवति, आहोस्वित् कियन्तमपि कालं भूत्वाऽसौ प्रतिपततीति । ततश्च 'ओहिस्स बाहिरा होति' इत्यनेन कालनियमः क्रियते- सर्वदा सर्वकालसमीषामवाधिर्भवति, न त्वन्तरालेऽपि मतिपततीति । आह-ययेवम् , तीर्थकृतां सर्वकालावस्थायित्वमवधेविरुध्यते, केवलोत्पत्ती तदभावात् । न, तेषां केवलोत्पत्तावपि वस्तुतस्तत्परिच्छेदस्याऽप्यनष्टत्वात् , सुतरां केवलज्ञानेन संपूर्णानन्तधर्मात्मकवस्तुपरिच्छिते, छद्मस्थकालस्य वा विवक्षितत्वाददोषः । इत्यलं विस्तरेणेति ॥ ७७० ॥
"सेसा देसेण पासंति' इत्येतद् व्याचिख्यासुराह
सेस चिय देसेणं न उ देसेणेव सेसया किंतु । देसेण सव्वओ वि य पेच्छति नरा तिरिक्खा य ॥७७१॥ गतार्थैव ।। इति गाथापश्चकार्थः ॥ ७७१ ॥
॥ गतं देशद्वारम् ॥ अथ क्षेत्रद्वारमभिधित्सुराह
संखेजमसंखेजो पुरिसमबाहाए खेत्ततो ओही। संबद्धमसंबद्धो लोगमलोगे य संबद्धो ॥ ७७२ ॥ 'खेत्तओ ओही संबद्धमसंबद्धो त्ति' इह क्षेत्रतोऽवधिरवधिमति जीवे प्रदीपे प्रभापटलमिव संबद्धो लग्नो भवति- जीवावष्टब्धक्षेत्रादारभ्य निरन्तरं द्रष्टव्यं वस्तु प्रकाशयतीत्यर्थः । कश्चित् पुनरतिप्रकृष्टतमोव्याकुलान्तरालवर्तिप्रदेशमुल्लङ्घ्य दूरस्थितभित्त्यादिप्रतिफलितप्रदीपप्रमेव जीवेऽसंबद्धो भवति । कया हेतुभूतोऽसंबद्धः, इत्याह- मकारस्याऽलाक्षणिकत्वात् 'पुरुषाबाधया' इतिपूर्णः सुख-दुःखानामिति पुरुषः, पुरि शरीरे शयनान् वा पुरुषो जीवः, अबाधनमवाधान्तरालमित्यर्थः, पुरुषादबाधा पुरुषाबाधा तया हेतुभूतयासंबद्ध इति हेत्वर्थे तृतीया । .
स च संबद्धोऽसंबद्धश्चाऽवधिः क्षेत्रतः कियान् भवति ?, इत्याह- संख्ययोऽसंख्येयश्च- योजनापेक्षया संख्येयानि, असंख्ये१ गाथा ७६६ । २ शेषा एव देशेन न तु देशेनैव शेषकाः किन्तु । देशेन सर्वतोऽपि च प्रेक्षन्ते नरास्तिर्यञ्चश्च ॥ ७७१ (यास.)
३ संख्येयोऽसंख्येयः पुरुषाऽबाधया क्षेत्रतोऽवधिः । संबद्धा-संबद्धो लोकेऽलोके च संबद्धः ॥ ७७२॥
For Private and Personal Use Only