________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
174 , विशेषा. पश्यति । कियन्तम् ?, इत्याह- समा उत्सर्पिण्य-वसर्पिणी: 'असंख्येया' इति लिङ्गव्यत्ययेनाऽत्रापि संबध्यते । द्रव्यं तु सर्व रूपं पश्यति । भावं तु तेषामेव रूपिद्रव्याणां पर्यायान् वक्ष्यमाणसंख्यान जानाति ॥ ६८६॥ ___ अथ प्रेरका माह
खेत्तोवमाणमुत्तं जमगणिजीवेहिं किं पुणो भणियं । तं चिय संखाइयाई लोगमित्ताइं निहिं ॥३८७॥
आह- ननु यदग्निजीवैः क्षेत्रोपमान क्षेत्रोपमित तत् नियुक्तिकृता 'सव्यबहुअगणिजीवा निरंतर जत्तिय भरिजसु' इत्यादि गाथायां मागेवोक्तं प्रतिपादितम् , किमर्थं पुनरप्यत्र "खेत्तोवमियं अगणिजीवा' इत्यनेन गाथावयवेन भणितम् । अत्रोत्तरमाह- 'त चियेत्यादि' तदेव मागुक्तमग्निजीवैः क्षेत्रोपमानं क्षेत्रोपमितमिह 'परमोहि असंखेज्जा' इत्यादिवचनादलोके लोकमात्राणि संख्यातीतानि खण्टानि भवन्ति, इति नियतमानतया निर्दिष्टं, न पुनरपूर्वतयेति भावः । इह 'सूत्रगय लहइ सव्वं' इत्येतद् भाष्यकृता 'देव्यं सय रूब पासई' इति वचनादवधेव्यतो विषयपतिपादनपरं व्याख्यातम् ॥ ६८७ ॥
.. अथ 'एंगपएसोगाढ' इत्यादिनैव द्रव्यतोऽवधिविषयस्योक्तत्वात् क्षेत्र-कालयोरेव विशेषणत्वलक्षणेन प्रकारान्तरेण व्याख्यातुमाह
अहवा दव्वं भणियं इह रूवगयं ति खेत्त-कालदुगं । रूवाणुगयं पेच्छइ न य तं चिय तं जओऽमुत्तं ॥६८८॥
अथवा 'एंगपएसोगाढं परमोही लहइ कम्मगसरीर' इत्यादिनैवाऽवधिविषयभूतं द्रव्यं भणितम् , अतो 'रूपगतं लभते सर्वे इत्येतदवधेव्यतो विषयाभिधायकतया न व्याख्यायते । तर्हि कथमिदं नीयते ? इत्याह- 'इहेत्यादि' इह यदसंख्येयलोकखण्डासंख्यातोत्सर्पिण्य-ऽवसर्पिणीलक्षणं क्षेत्र-कालद्वयमवधिविपयत्वेनोक्तम् , तद् 'रूपगतं' इति रूपगतं लभते सर्वम् । कोऽर्थः १, इत्याह- रूपानुगतं तत्स्थरूपिद्रव्याणां दर्शनाद् रूपिद्रव्यसंबद्धमेव प्रेक्षते, न पुनस्तदेव क्षेत्र-कालद्वयं केवलं पश्यति, यतस्तदमूर्तम् , मूर्तविषयश्चावधिरिति ॥ ६८८॥
अथ विनेयानुग्रहार्थं प्रासङ्गिक किश्चिदभिधित्सुर्वक्ष्यमाणं च संबन्धयितुमाह१ क. ग. 'संख्येया'। २ क्षेत्रोपमानमुक्तं यदग्निजीवैः किं पुनर्भणितम् । तदेव संख्यातीतानि लोकमात्राणि निर्दिष्टम् ॥ ६८७ ॥ ३ गाथा ५९८।। ४ गाथा ६८५। ५ गाथा ६८६ । ६ गाथा ६७५ । ७ अथवा द्रव्यं भणितमिह रूपगतमिति क्षेत्र-कालद्विकम् । रूपानुगत प्रेक्षते न च तदेव तद् यतोऽमूर्तम् ॥६८८)
.. 'परमोहिन्नाणविओ केवलमंतोमुहुत्तमित्तेण । मणुयक्खओवसमिओ भणिओ, तिरियाण वोच्छामि॥६८९॥
परमावधिज्ञानेन वेत्तीति परमावधिज्ञानवित् तस्य परमावधिज्ञानविदः परमावधौ समुत्पन्ने सति किलान्तर्मुहूर्तेनावश्यमेव केवलज्ञानमुत्पद्यते । केवल ज्ञानसूर्यस्य [दयपदवीमासादयतः प्रथमप्रभास्फोटकल्पं परमावधिज्ञानम् , अतस्तदनन्तरमवश्यं भवत्येव केवलज्ञानभास्करोदय इति । तदेवं भणितो मनुष्यसंवन्धी क्षायोपशमिकोऽवधिः । इदानी तिरवाममुं वक्ष्यामि ॥ इति गाथाचतु ध्यार्थः ॥ ६८९ ॥
यथाप्रतिज्ञातमेवाह
आहार-तेयलंभो उक्कोसेणं तिरिक्खजोणीसु । गाउय जहण्णमोही नरएसु य जोयणुक्कोसो ॥६९० ॥
आहारक-तैजसयोरुपलक्षणत्वाद् यान्यौदारिक-वैक्रिया-ऽऽहारक-तैजसद्व्याणि, यानि च तदन्तरालेषु तदयोग्यानि द्रन्याणि तेषां लाभः परिच्छेद उत्कृष्टतस्तिर्यग्योनिषु मत्स्यादिषु भवति । एतद्र्व्यानुसारेण क्षेत्र-काल-भावाः स्वयमभ्यूह्या इति । तदेवं यदुक्तम्'काई भवपच्चइया खओवसमियाओ काओ वि' तत्र क्षायोपशमिककृतयोऽभिहिताः। अथ भवप्रत्ययास्ताः प्रतिपाद्याः, ताश्च सुर-नार काणां भवन्ति, तत्राल्पवक्तव्यत्वात् प्रथमं नारकाणामाह- 'गाउएत्यादि' नरकेषु पुनर्नारकाणामुत्कृष्टोऽवधिः क्षेत्रतो योजन पश्यति, जघन्यस्तु गव्यूतम् । तत्र योजनप्रमाणो रत्नप्रभायां, गव्यूतमानस्तु सप्तमपृथिव्यां द्रष्टव्यः ॥ इति नियुक्तिगाथार्पः ॥ ६९०॥
अत्र भाष्यम्
ओरालिय-बेउविय-आहारग-तेयगाइं तिरिएसु । उक्कोसेणं पेच्छइ जाइं च तदंतरालेसु ॥ ६९१ ॥ भणिओ खओवसमिओ भवपच्चइओस चरिमपुढवीए । गाउयमुक्कोसेणं पढमाए जोयणं होइ ॥ ६९२ ॥
, परमावधिज्ञानविदा केवलमन्तर्मुहूर्तमानेण । मनुजक्षायोपशमिको भणितः, तिरश्वो वक्ष्यामि ॥ ६८९ ॥ २ आहार-सजसालम्भ उत्कर्षेण तिर्यग्योनिपु । गम्यतं जघन्यमवधिर्नरकेषु च योजनमुस्कृष्टम् ॥ ६९० ॥ ३ गाथा ५६८ । ४ औदारिक-वैक्रिया-हारक-सैजसानि तिर्यक्षु । उत्कर्षेण प्रेक्षते यानि च तदन्तरालेषु ॥ १९॥ भणितः क्षायोपशमिको भवप्रत्ययितःस चरमपृथिव्याम् । गन्यूतमुत्कर्षेण प्रथमायां योजनं भवति ॥ ६९२ ॥
For Private and Personal Use Only