________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
175 विशेषा०
'गतार्थे एव, नवरं भणितः क्षायोपशमिकोऽवधिः । अथ भवप्रत्ययो भण्यते । 'स चरिमपुढबीए त्ति' स चरमायां सप्तमपृधिव्या पुस्कृष्टतो गव्यूतं, प्रथमायां तु योजनं भवतीति ।। ६९१ ॥ ६९२ ॥
तदेवं सामान्येन नारकजातिमधिकृत्याभिहितमुत्कृष्टमवधिक्षेत्रप्रमाणम् । अथ तदेव रत्नप्रभादिपृथिवीविभागेनाह
'चत्तारि गाउयाई, अडुढाई, तिगाउयं चेव । अड्ढाइजा, दोणि य, विवड्ढमेगं च नरएसु ॥६९३॥
इह रत्नप्रभायां नरकेषु नरकावासेषु नारकाणां चत्वारि गव्यूतान्युत्कृष्टमवधिक्षेत्रप्रमाणं भवति । शर्करामभायां त्वधं चतुर्थस्य ये तान्यर्धचतुर्थानि गव्यूतानि । वालुकाप्रभायां गव्यूतत्रयम् । पङ्कप्रभायाम तृतीयस्य येषु तान्यर्धतृतीयानि गव्यूतानि । धूमप्रभायां गव्यूते । तमायां द्वितीयस्यार्धं यत्र तद् व्यर्थं गन्यूतम् । सप्तमपृथिव्यां पुनर्नरफेषु नारकाणामेकं गव्यूतमुत्कृष्टमवधिक्षेत्रप्रमाणं भवति ॥ इति नियुक्तिगाथार्थः ॥ ६९३ ॥
सप्तस्वपि पृथिवीषु प्रत्येकमुत्कष्टादधिक्षेत्रमाणादर्धगव्यूतेऽपनीते जघन्यमवधिक्षेत्रममाणं भवति । तच्च नियुक्तिकता नोक्तम् अतो भाष्यकारः माह
अडुडगाइयाइं जहण्णय अद्धगाउयंताई । जं गाउयं ति भणियं तं पइ उक्कोसयजहण्णं ॥ ६९४ ॥ . अध्युष्टानि सार्धानि त्रीणि गव्यूतानि रत्नप्रभायां जघन्यमवधिक्षेत्रममाणम् । शर्करामभायां त्रीणि गव्यूतानि । वालुकाममा यामतृतीयानि । पङ्कप्रभायां द्वे । धूमप्रभायां सार्धम् । तमायां गव्यूतम् । सप्तमपृथिव्यामधंगव्यूतं जघन्यमवधिक्षेत्रप्रमाणम् । न च- "यणप्पभापुढवीनेरइया ण भंते ! केवइयं खेत्तं ओहिणा जानति, पासति । गोयमा ! जहणेणं अछुट्टाई गाउयाई, उक्कोसे चत्तारि । एवं जाव महातमपुढवीनेरइयाणे पुच्छा । गोयमा ! जहन्नेणं अद्धगाउयं, उक्कोसेणं गाउयं ति ।" - आह- यद्येवम् , अर्धगव्यूतं जघन्यमवधिक्षेत्रम् , तर्हि 'गाउय जहण्णमोही नरएसु य इत्येतद् व्याहन्यते, इत्याह- "ज गाउर
चत्वारि गव्यूतानि, साधत्रीणि, निगव्यूतं चैव । अर्धतृतीयानि, द्वे च, साधैकमेकं च नरकेषु ॥ ६९३ ॥ .
२ सार्धन्यादिकानि जघन्यमर्धगव्यूतान्तानि । यद् गब्यूतमिति भणितं तत् प्रत्युत्कृष्टजघन्यम् ॥ ६९४ ॥ ३ रखप्रभापृथिवीनैरयिका भगवन् ! कियस क्षेत्रमवभिना जानन्ति, पश्यन्ति ! । गौतम ! जघन्येन साधंत्रीणि गव्यूतानि, उत्कण चत्वारि । एवं यार महातमापृथिवीनैरयिकाणां पृच्छा । गौतम ! जघन्येनार्धगम्यूतम्, उत्कर्पण गव्यूतमिति । ४ गाथा ६९०। मित्यादि' यद् गव्यूतं जघन्यमुक्तं तदुत्कृष्टमध्ये यजघन्यं तत्पति तदाश्रित्योक्तमित्यदोषः । इदगुक्तं भवति- सप्तस्वपि पृथिवीषु र गव्यूतचतुष्टयादिकमुत्कृष्टमवधिक्षेत्रं, तन्मध्ये सप्तमपृथिवीनारकाणां गव्यूतलक्षणमवधिक्षेत्रं स्वस्थान उत्कृष्टमपि शेषपृथिव्युत्कृष्टापेक्षर सर्वस्तोकत्वाजघन्यमुक्तम् ॥ इति गाथार्थः॥ ६९४ ॥ . अथ देवानां भवप्रत्ययावधिमाह
सक्की-साणा पढम, दोच्चं च सणंकुमार-माहिंदा । तच्चं च बंभ-लंतग सुक्क-सहस्सार य चउत्थि ॥६९५॥ आणय-पाणयकप्पे देवा पासंति पंचमि पुढविं । तं चेव आरण-च्चुय ओहिण्णाणेण पासंति ॥ ६९६ ॥
छट्ठिं हेठिम-मज्झिमगेविजा सत्तमि च उवरिल्ला । संभिण्णलोगनालिं पासंति अणुत्तरा देवा ॥ ६९७ तत्र शश्वेशानश्च शक्रे-शानौ सौधर्मे-शानकल्पदेवेन्द्रौ, तदुपलक्षिताचेह सौधर्मे-शानकल्पनिवासिनः सामानिकादयो देवा अपि गृह्यन ते ह्यवधिना प्रथमा रत्नप्रभाभिधानां पृथिवीं 'पश्यन्ति' इति क्रियां द्वितीयगाथायां वक्ष्यति। तथा, द्वितीयां च 'पृथिवीम्' इत्यग्रतः सं ध्यते, सनत्कुमार-माहेन्द्रावपि तृतीय-चतुर्थकल्पदेवाधिपौ, अत्रापि च तदुपलक्षितास्तत्कल्पनिवासिनः सामानिकादयो देवाः परिगृह्यन ते हि द्वितीयां पृथिवीमवधिना पश्यन्ति । तथा, तृतीयां च पृथिवीं ब्रह्मलोक-लान्तकदेवेन्द्रोपलक्षितास्तत्कल्पनिवासिनो देवाः स मानिकादयः पश्यन्ति । तथा, शुक्र-सहस्रारसुरेन्द्रोपलक्षितास्तत्कल्पवासिनोऽन्येऽपि सामानिकादयो देवाचतुर्थी पृथिवीं पश्यन्तीति तथा, आनत-प्राणतयोः संवन्धिनो देवाः पश्यन्ति पञ्चमी पृथिवीम् , तामेव चाऽऽरणा-ऽच्युतदेवलोकयोः संबन्धिनो देवा विशुद्धतरांव पर्यायां चावधिज्ञानेन पश्यन्ति स्वरूपकथनमेवेदं न तु व्यवच्छेदकम् , अवधिज्ञानस्यैवेह विचारयितुं प्रस्तुतत्वाद् व्यवच्छेद्याभार दिति । लोकपुरुषग्रीवास्थाने भवानि विमानानि अवेयकाणिः तत्राऽधस्त्य-मध्यमवेयकविमानवासिनो देवा अधस्त्य-मध्यमवेय उच्यन्ते ते तमामभाभिधानां षष्ठीं पृथिवीं पश्यन्ति । तथा, सप्तमी च पृथिवीमुपरितनग्रेवेयका देवाः पश्यन्ति । तथा, संभि चतसृष्वपि दिक्षु स्वज्ञानेन व्याप्तां कन्याचोलकसंस्थानां लोकनाडीमवधिना पश्यन्त्यनुत्तरविमानवासिनो देवाः । एष क्षेत्रतो ना काणां देवानां च भवप्रत्ययावधेविषय उक्तः । एतदनुसारतो द्रव्यादयोऽप्यवसेयाः ॥६९५॥६९६॥६९७॥
, शक्र-शानी प्रथमा, द्वितीयां च सनरकुमार-माहेन्द्रौ । तृतीयां च ब्रह्म-लान्तको शुक्र-सहस्रारौ च चतुर्थीम् ॥ १९५ ॥ बानत-माणसकल्पे देवाः पश्यन्ति पञ्चमी पृथिवीम् । सामेवाऽऽरणा-उरयुताषयधिज्ञानेन पश्यतः॥१९॥ पडीमधस्त्य-मध्यमवेयकाः, सप्तमी चोपरितनाः । संभिजल्लोकमाढी पश्यन्त्यनुत्तरा देवाः ॥ ६९७ ॥ २ . 'पिच्छंति' ।।
For Private and Personal Use Only