________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
176
Acharya Shri Kailassagarsuri Gyanmandir
विशेषा ०
तदेवमधो वैमानिकावधेः क्षेत्रप्रमाणं प्रतिपाद्य तिर्यगूर्ध्व च तत्प्रतिपादयन्नाह-
ऐएसिमसंखिज्जा तिरियं दीवा य सागरा चैव । बहुययरं उवरिमगा उड्ढं च सकप्पथभाई ॥ ६९८ ॥
एतेषां शक्रादीनामसंख्येयास्तिर्यग् द्वीपाश्च जम्बूद्वीपादयः, समुद्राव लवणसागरादयः 'क्षेत्रतोऽवधिपरिच्छेद्यतयाऽवसेयाः' इति वाक्यशेषः । तदेव द्वीप - समुद्रासंख्येयकं बहुतरकं पश्यन्ति, उपरिमा एवोपरिमका उपर्युपरिवर्तिदेवलोकनिवासिनो देवा इत्यर्थः । तथा, ऊर्ध्वं स्वकल्पस्तूपादेव यावत् क्षेत्रं ते पश्यन्ति, न परतः आदिशब्दाद् ध्वजादिपरिग्रह इति ॥ ६९८ ॥
तदेवं वैमानिकानामवधिक्षेत्रमानमभिधायेदानीं सामान्यतस्तद्वदेवानां प्रतिपादयन्नाह
सेखेज्जजोयणा खलु देवाणं अद्धसागरे ऊणे । तेण परमसंखेज्जा जहण्णयं पण्णवीसं तु ॥ ६९९ ॥
देवानामसागरोपमे न्यूने आयुषि सति संख्येयानि योजनान्यवधिपरिच्छेद्यं क्षेत्रमवसेयम् । ततः परं संपूर्णार्धसागरोपमादिके आयुषि सति पुनरसंख्येयानि योजनान्यवधिक्षेत्रमवगन्तव्यम् । उक्तमुत्कृष्टमवधिक्षेत्रम् । अथ जघन्यमाह - 'जहण्णमित्यादि' दशवर्षसहस्रस्थितीनां भवनपति व्यन्तराणां जघन्यमवधिक्षेत्रं पञ्चविंशतियोजनानि, ज्योतिष्क- वैमानिकानां तु जघन्यं भाष्यकार एव वक्ष्यति ॥ इति नियुक्तिगाथापञ्चकार्थः ॥ ६९९ ॥
अथानन्तरगाथाभाष्यम्
'वैमाणियवज्जाणं सामण्णमिण तहावि उ विसेसो । उड्ढमहे तिरियम्मि य संठाणवसेण विष्णेओ ॥ ७००॥
इदं च "संखेज्जजोयणा खलु' इत्यादिकमवधिक्षेत्रप्रमाणं वैमानिकवर्णानां भवनपत्यादिदेवानां सामान्यमविशेषेण द्रष्टव्यम् ; तथापि तूर्ध्वम् अधः, तिर्यक् च तेषां देवानां कयाचिद् दिशा हीना ऽधिकावर्धिलक्षणो यो विशेषः स इहैव 'तेपागारे पल्लग - पडहग-' इत्यादिवक्ष्यमाणावधिक्षेत्रसंस्थानवशेन विज्ञेय इति ।। ७०० ॥
अथ यदुक्तम्- 'हणयं पण्णवीसं तु' तद् विवृण्वन् अनुक्तं च ज्योतिष्क- वैमानिकानां जघन्यमवधिक्षेत्रमभिधित्सुराह
१ एतेषामसंख्येयास्तिर्यग् द्वीपांश्च सागराश्चैव । बहुकतरमुपरिमका ऊर्ध्वं च वकल्पस्तूपादीन् ॥ ६९८ ॥ + क्षेत्रल० -
२ संख्येययोजनानि खलु देवानामर्धसागर जने । तेन परमसंख्येयानि जघन्यकं पञ्चविंशतिस्तु ॥ ६९९ ॥
३ वैमानिकवर्णानां सामान्यमिदं तथापि तु विशेषः । ऊर्ध्वमधस्तिर्यक् च संस्थानवशेन विशेयः ॥ ७०० ॥ ४ गाथा ६९९ । ५ गाथा ७०६ । 'पणवीसजोयणाई दसवाससहस्सिया ठिई जेर्सि । दुविहो वि जोइसाणं संखेज्ज ठिईविसेसेणं ॥ ७०१ ॥
माणियाणमंगलभागमसंखं जहण्णओ होइ । उववाए परभविओ तब्भवजो होइ तो पच्छा ॥ ७०२ ॥
पञ्चविंशतिर्योजनानि यज्जघन्यमवधिक्षेत्रमुक्तं तद् येषां देवानां दशवर्षसहस्रप्रमाणा स्थितिस्तेषामेत्र विज्ञेयम् । ते च भवनपतिव्यन्तरविशेषा एव । ज्योतिष्काणां पुनर्जघन्य उत्कृष्टश्च द्विविधोऽप्यवधिः स्थितिविशेषेण क्षेत्रतः संख्येयान्येव योजनानि विज्ञेयः । इदमुक्तं भवति - ज्योतिष्काणां जघन्यतोऽपि पल्योपमाष्टभागस्थितिर्न तु दश वर्षसहस्राणि उत्कृष्टतस्तु वर्षलक्षाधिकं पल्योपमम् ; अतो बहायुकत्वेन महर्द्धिकत्वादुत्कृष्टवज्जघन्योऽप्यवधिस्तेषां संख्येयान्येव योजनानि भवति, केवलं जघन्यक्षेत्रादुत्कृष्टं बृहत्प्रमाणं द्रष्टव्यम् । संखेज्जजोयणा खलु देवाणं' इत्यादिनैवाऽमीषामुत्कृष्टमवधिक्षेत्र मुक्तम्, केवलं जघन्यंभणनप्रस्तावात् पुनरपि तदुक्तमित्यदोषः । वैमानिकानां तु जघन्योऽवधिः क्षेत्रतोऽङ्गुलासंख्येयमानो भवति, अयं चोत्पादाद्यसमय एव पारभविको विज्ञेयः, ततः पश्चात् ताद्भविकः ॥ इति गाथात्रयार्थः ॥ ७०१ ।। ७०२ ॥
अथाऽयमेवावधिर्येषामुत्कृष्टादिभेदभिन्नो भवति, तानुपदर्शयन्नाह -
उकोसो मणुए मणुस्स - तेरिच्छिएसु य जहण्णो । उक्कोस लोगमेत्तो पडिवाइ परं अपडिवाई ॥ ७०३॥
इह द्रव्यतः, क्षेत्रतः, कालतो भावतोत्कृष्टोऽवधिर्मनुष्येष्वेव न देवादिषु । तथा मनुष्याश्च तिर्यश्चश्च तेष्वेव जघन्यः, न तु सुर-नारकेषु । तत्र चोत्कृष्टोऽवधिर्द्विविधः - लोकगतः, अलोकगतश्च । तत्र योऽसौ समस्तलोकमात्रदर्शी उत्कृष्टः, मात्रशब्दोऽलोकbयवच्छेदार्थः, स प्रतिपतनशीलः प्रतिपाती, अप्रतिपाती च भवति । ततः परं येनैकोऽप्याकाशप्रदेशो दृष्टः सोऽमतिपात्येव भवति । क्षेत्र परिणामद्वारेऽपि प्रस्तुते प्रसङ्गतो विनेयानुग्रहार्थं प्रतिपात्य प्रतिपातिस्वरूपाभिधानमित्यदोषः ।। इति नियुक्तिगाथार्थः ॥ ७०३॥ ॥ उक्तं क्षेत्रपरिमाणद्वारम् ॥
x भागमानो न १ पञ्चविंशतिर्योजनानि दशवर्षसहस्रिका स्थितिर्येषाम् । द्विविधोऽपि ज्योतिष्काणां संख्येयानि स्थितिविशेषेण ॥ ७०१ ॥ वैमानिकानामङ्गुलभागमसंख्यं जघन्यतो भवति । उपपाते पारभविकस्तद्भवजो भवति ततः पश्चात् ॥ ७०२ ॥ ३ उत्कृष्टो मनुजेषु मनुष्य-तियक्षु च जघन्यः । उत्कृष्टो लोकमात्रः प्रतिपाती परमप्रतिपाती ॥ ७०१ ॥ येनालोकस्येको -1
२ गाथा ६९९
·
For Private and Personal Use Only