Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 183
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 176 Acharya Shri Kailassagarsuri Gyanmandir विशेषा ० तदेवमधो वैमानिकावधेः क्षेत्रप्रमाणं प्रतिपाद्य तिर्यगूर्ध्व च तत्प्रतिपादयन्नाह- ऐएसिमसंखिज्जा तिरियं दीवा य सागरा चैव । बहुययरं उवरिमगा उड्ढं च सकप्पथभाई ॥ ६९८ ॥ एतेषां शक्रादीनामसंख्येयास्तिर्यग् द्वीपाश्च जम्बूद्वीपादयः, समुद्राव लवणसागरादयः 'क्षेत्रतोऽवधिपरिच्छेद्यतयाऽवसेयाः' इति वाक्यशेषः । तदेव द्वीप - समुद्रासंख्येयकं बहुतरकं पश्यन्ति, उपरिमा एवोपरिमका उपर्युपरिवर्तिदेवलोकनिवासिनो देवा इत्यर्थः । तथा, ऊर्ध्वं स्वकल्पस्तूपादेव यावत् क्षेत्रं ते पश्यन्ति, न परतः आदिशब्दाद् ध्वजादिपरिग्रह इति ॥ ६९८ ॥ तदेवं वैमानिकानामवधिक्षेत्रमानमभिधायेदानीं सामान्यतस्तद्वदेवानां प्रतिपादयन्नाह सेखेज्जजोयणा खलु देवाणं अद्धसागरे ऊणे । तेण परमसंखेज्जा जहण्णयं पण्णवीसं तु ॥ ६९९ ॥ देवानामसागरोपमे न्यूने आयुषि सति संख्येयानि योजनान्यवधिपरिच्छेद्यं क्षेत्रमवसेयम् । ततः परं संपूर्णार्धसागरोपमादिके आयुषि सति पुनरसंख्येयानि योजनान्यवधिक्षेत्रमवगन्तव्यम् । उक्तमुत्कृष्टमवधिक्षेत्रम् । अथ जघन्यमाह - 'जहण्णमित्यादि' दशवर्षसहस्रस्थितीनां भवनपति व्यन्तराणां जघन्यमवधिक्षेत्रं पञ्चविंशतियोजनानि, ज्योतिष्क- वैमानिकानां तु जघन्यं भाष्यकार एव वक्ष्यति ॥ इति नियुक्तिगाथापञ्चकार्थः ॥ ६९९ ॥ अथानन्तरगाथाभाष्यम् 'वैमाणियवज्जाणं सामण्णमिण तहावि उ विसेसो । उड्ढमहे तिरियम्मि य संठाणवसेण विष्णेओ ॥ ७००॥ इदं च "संखेज्जजोयणा खलु' इत्यादिकमवधिक्षेत्रप्रमाणं वैमानिकवर्णानां भवनपत्यादिदेवानां सामान्यमविशेषेण द्रष्टव्यम् ; तथापि तूर्ध्वम् अधः, तिर्यक् च तेषां देवानां कयाचिद् दिशा हीना ऽधिकावर्धिलक्षणो यो विशेषः स इहैव 'तेपागारे पल्लग - पडहग-' इत्यादिवक्ष्यमाणावधिक्षेत्रसंस्थानवशेन विज्ञेय इति ।। ७०० ॥ अथ यदुक्तम्- 'हणयं पण्णवीसं तु' तद् विवृण्वन् अनुक्तं च ज्योतिष्क- वैमानिकानां जघन्यमवधिक्षेत्रमभिधित्सुराह १ एतेषामसंख्येयास्तिर्यग् द्वीपांश्च सागराश्चैव । बहुकतरमुपरिमका ऊर्ध्वं च वकल्पस्तूपादीन् ॥ ६९८ ॥ + क्षेत्रल० - २ संख्येययोजनानि खलु देवानामर्धसागर जने । तेन परमसंख्येयानि जघन्यकं पञ्चविंशतिस्तु ॥ ६९९ ॥ ३ वैमानिकवर्णानां सामान्यमिदं तथापि तु विशेषः । ऊर्ध्वमधस्तिर्यक् च संस्थानवशेन विशेयः ॥ ७०० ॥ ४ गाथा ६९९ । ५ गाथा ७०६ । 'पणवीसजोयणाई दसवाससहस्सिया ठिई जेर्सि । दुविहो वि जोइसाणं संखेज्ज ठिईविसेसेणं ॥ ७०१ ॥ माणियाणमंगलभागमसंखं जहण्णओ होइ । उववाए परभविओ तब्भवजो होइ तो पच्छा ॥ ७०२ ॥ पञ्चविंशतिर्योजनानि यज्जघन्यमवधिक्षेत्रमुक्तं तद् येषां देवानां दशवर्षसहस्रप्रमाणा स्थितिस्तेषामेत्र विज्ञेयम् । ते च भवनपतिव्यन्तरविशेषा एव । ज्योतिष्काणां पुनर्जघन्य उत्कृष्टश्च द्विविधोऽप्यवधिः स्थितिविशेषेण क्षेत्रतः संख्येयान्येव योजनानि विज्ञेयः । इदमुक्तं भवति - ज्योतिष्काणां जघन्यतोऽपि पल्योपमाष्टभागस्थितिर्न तु दश वर्षसहस्राणि उत्कृष्टतस्तु वर्षलक्षाधिकं पल्योपमम् ; अतो बहायुकत्वेन महर्द्धिकत्वादुत्कृष्टवज्जघन्योऽप्यवधिस्तेषां संख्येयान्येव योजनानि भवति, केवलं जघन्यक्षेत्रादुत्कृष्टं बृहत्प्रमाणं द्रष्टव्यम् । संखेज्जजोयणा खलु देवाणं' इत्यादिनैवाऽमीषामुत्कृष्टमवधिक्षेत्र मुक्तम्, केवलं जघन्यंभणनप्रस्तावात् पुनरपि तदुक्तमित्यदोषः । वैमानिकानां तु जघन्योऽवधिः क्षेत्रतोऽङ्गुलासंख्येयमानो भवति, अयं चोत्पादाद्यसमय एव पारभविको विज्ञेयः, ततः पश्चात् ताद्भविकः ॥ इति गाथात्रयार्थः ॥ ७०१ ।। ७०२ ॥ अथाऽयमेवावधिर्येषामुत्कृष्टादिभेदभिन्नो भवति, तानुपदर्शयन्नाह - उकोसो मणुए मणुस्स - तेरिच्छिएसु य जहण्णो । उक्कोस लोगमेत्तो पडिवाइ परं अपडिवाई ॥ ७०३॥ इह द्रव्यतः, क्षेत्रतः, कालतो भावतोत्कृष्टोऽवधिर्मनुष्येष्वेव न देवादिषु । तथा मनुष्याश्च तिर्यश्चश्च तेष्वेव जघन्यः, न तु सुर-नारकेषु । तत्र चोत्कृष्टोऽवधिर्द्विविधः - लोकगतः, अलोकगतश्च । तत्र योऽसौ समस्तलोकमात्रदर्शी उत्कृष्टः, मात्रशब्दोऽलोकbयवच्छेदार्थः, स प्रतिपतनशीलः प्रतिपाती, अप्रतिपाती च भवति । ततः परं येनैकोऽप्याकाशप्रदेशो दृष्टः सोऽमतिपात्येव भवति । क्षेत्र परिणामद्वारेऽपि प्रस्तुते प्रसङ्गतो विनेयानुग्रहार्थं प्रतिपात्य प्रतिपातिस्वरूपाभिधानमित्यदोषः ।। इति नियुक्तिगाथार्थः ॥ ७०३॥ ॥ उक्तं क्षेत्रपरिमाणद्वारम् ॥ x भागमानो न १ पञ्चविंशतिर्योजनानि दशवर्षसहस्रिका स्थितिर्येषाम् । द्विविधोऽपि ज्योतिष्काणां संख्येयानि स्थितिविशेषेण ॥ ७०१ ॥ वैमानिकानामङ्गुलभागमसंख्यं जघन्यतो भवति । उपपाते पारभविकस्तद्भवजो भवति ततः पश्चात् ॥ ७०२ ॥ ३ उत्कृष्टो मनुजेषु मनुष्य-तियक्षु च जघन्यः । उत्कृष्टो लोकमात्रः प्रतिपाती परमप्रतिपाती ॥ ७०१ ॥ येनालोकस्येको -1 २ गाथा ६९९ · For Private and Personal Use Only

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339