Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 156
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 149 विशेषा० उवओग-सर-पयत्ता थाणविसेसा य होति पण्णवए । गइ-वाण-भय-संघाय-वण्ण-सदाइभावेसु ॥ ५४७ ॥ उपयोग आन्तरः श्रुतपरिणामः, स्वरो ध्वनिः, प्रयत्नस्ताखादिव्यापारविषयो यत्रः, स्थानविशेषा आसनविशेषाः, प्रज्ञापके गुरौ व्याख्यानादि कुर्वति सत्येते मावा धर्मा भवन्ति । एते चाऽनित्यत्वात् सादि-सपर्यवसिताः। ततश्चैतानाश्रित्य वक्तुरनन्यत्वाच्छूतमपि सादि-सपर्यवसितं भवति । प्रज्ञापनीयार्थगतान् भावानाह- 'गईत्यादि' गतिरण्वादीनां गमनपरिणामः, स्थानं तेषामेव स्थितिपरिणामः, भेदस्तेषामेवाऽन्यसंयुक्तानां विघटनम् , संघातस्त्वन्यैः सह संयोगः, वर्णः कृष्णादिः, शब्दो मैन्द्र-मधुरादिः,आदिशब्दाद् रस-गन्ध-स्पर्शसंस्थानादिपरिग्रहः । एते गति-स्थित्यादयो भावाः पर्यायधर्मा भावेषु प्रज्ञापनीयेषु परमाण्वादिषु भवन्ति । ततोऽनित्यत्वादमी सादिसपर्यवसिताः । एते च श्रुतस्य ग्राह्याः, ग्राहकं च ग्राह्यनिबन्धनं भवति, अतः श्रुतमपि सादि-सपर्यवसितमिति भावः। तदेवं द्रव्य-क्षेत्रकाल-भावानाश्रित्य सादि-सर्पयवसितत्वलक्षणो दर्शितः प्रथमभङ्गः ॥५४७ ॥ अथैतानेवाऽऽश्रित्य पूर्वमभव्यश्रुतदर्शितमपि पुनरेतेष्वपि क्रमायातेषु संभवदर्शनार्थमनाद्यपर्यवसितत्वलक्षणं चतुर्थभङ्गमुपदर्श दैव्वे नाणापुरिसे खेत्ते विदेहाई कालो जो तेसु । खय-उवसमभावम्मि य सुयनाणं वट्टए सययं ॥५४८॥ द्रव्ये द्रव्यविषये नानापुरुषान् नारक-तिर्यड्-मनुष्य-देवगतान् नानासम्यग्दृष्टिजीवानाश्रित्य श्रुतज्ञान सम्यकश्रुतं सततं वर्ततेअभत, भवति, भविष्यति च, न तु कदाचिद् व्यवच्छिद्यते । ततस्तानाश्रित्येदमनादि, अपर्यवसितं च स्यादिति भावः । क्षेत्रे पुन पञ्च महाविदेहलक्षणान् विदेहानङ्गीकृत्य, काले तु यस्तेष्वेव विदेहेषु कालोऽनवसर्पिण्युत्सर्पिणीरूपस्तमाश्रित्य । भावे तु क्षायोपशमिके श्रुतज्ञानं सततं सर्वदैव वर्तते; अतोऽनादि अपर्यवसितम् । सामान्येन हि महाविदेहेत्सर्पिण्यवसर्पिण्यभावरूपनिजकालविशिष्टेषु द्वादशाअश्रुतं कदापि न व्यवच्छिद्यते, तीर्थकर-गणधरादीनां तेषु सर्वदैव भावात् ।। इति गाथाद्वादशकार्थः॥ ५४८॥ ॥ तदेवं समतिपक्ष सादि-सर्पयवसितं श्रुतं समाप्तम् ।। यन्नाह १ उपयोग-स्वर-प्रयताः स्थानविशेषाश्च भवन्ति प्रज्ञापके । गति-स्थान-भेद-संघात-वर्ण-शब्दादिभावेषु ॥ ५४७ ॥ २ घ. छ. 'मधुर-मन्द्रादिः । द्रव्ये नानापुरुषान् क्षेत्रे विदेहान् कालो यस्तेषु । क्षयोपशमभावे च श्रुतज्ञानं वर्तते सततम् ॥ ५४८॥ ३८ अथ षष्ठं :सप्रतिपक्ष गमिकश्रुतद्वारमाह भंगगणियाई गमियं जं सरिसगमं च कारणवसेण ।गाहाइ अगमियं खलु कालियसुयं दिठिवाए वा ॥५४९॥ गमा भङ्गका गणितादिविशेषाश्च तद्बहुलं तत्संकुलं गमिकम् । अथवा, गमाः सदृशपाठास्ते च कारणवशेन यत्र बहवो भवन्ति तद् गमिकं, तञ्चैवंविधं मायः 'दृष्टिवादे' इत्येवं पर्यन्ते दृष्टिवादपदमत्र संवध्यते । यत्र प्रायो गाथा-श्लोक-चेष्टकायसदृशपाठात्मकं तदगमिकं, तचैवविधं प्रायः कालिकश्रुतम् ॥ इति गाथार्थः ॥ ५४९ ॥ ॥ इति समतिपक्षं गमिकद्वारम् ।। अथ सप्तमं सपतिपक्षमङ्गमाविष्टद्वारमाह- . : गैणहर-थेरकयं वा आएसा मुक्कवागरणओ वा । धुव-चलविसेसओ वा अंगा-गंगेसु नाणत्वं ॥ ५५० ॥ x अङ्गा-ऽनङ्गमविष्टश्रुतयोरिदं नानात्वमेतद् भेदकारणम् । किम् ?, इत्याह- गणधरा गौतमस्खाम्यादयः, तत्कृतं श्रुतं द्वादशाङ्गरूपमङ्गमविष्टमुच्यते । स्थविरास्तु भद्रबाहुखाम्यादयस्तत्कृतं श्रुतमावश्यकनियुक्त्यादिकमनङ्गमविष्टमबाह्यमुच्यते। अथवा, वारत्रयं गणघरपृष्टस्य तीर्थकरस्य संबन्धी य आदेशः प्रतिवचनमुत्पाद-व्यय-धौव्यवाचकं पदत्रयमित्यर्थः, तस्माद् यद् निष्पनं तदाप्रविष्ट द्वादशाकमेव, मुत्कं मुस्कलममश्नपूर्वकं च यद् व्याकरणमर्थप्रतिपादनं, तस्मादै निष्पर्नेमङ्गबाथमभिधीयते, तचावश्यकादिकम् । वाशब्दो-काऽनङ्गमविष्टत्वे पूर्वोक्तभेदकारणादन्यत्वसूचकः । तृतीय भेदकारणमाह- 'धुव-चलविसेसओ व ति' ध्रुवं सर्वतीर्थकरतीर्थेषु नियतं निश्चयमावि श्रुतमङ्गभविष्टमुच्यते द्वादशाङ्गमिति । यत् पुनश्चलमानयतमनिश्चयभावि तत् तन्दुलवैकालिकमकीर्णादि श्रुतमङ्गबाह्यम् । वाशब्दोवापि भेदकारणान्तरत्वसूचकः । इदमुक्तं भवति- गणधरकृतं, पदत्रयलक्षणतीर्थकरादेशनिष्पन्न, ध्रुवं च यच्छूतं तदङ्गाविष्टमुच्यते, तच द्वादशाङ्गीरूपमेव । यत्पुनः स्थविरकृतं, मुत्कलार्थाभिधान, चलं च तदावश्यकमकीर्णादि श्रुतमङ्गबाथमिति ॥ ५५० ॥ आह-ननु 'पूर्व पूर्वाण्येवोपनिबध्नाति गणधरः' इत्यागमे श्रूयते, "पूर्वकरणादेव चैतानि पूर्वाण्यभिधीयन्ते । तेषु च १ भा-गणितादि गमिकं वत्सदृशगमं च कारणवशेन । गाथाद्यमिकं खलु कालिकश्रुतं दृष्टिवादे वा ॥ ५४९॥+पर्यन्तात्-. १ गणधर-स्थविरकृतं वाऽऽदेशाद् मुत्कव्याकरणतो वा । धुव-चलविशेषतो वाजा-ऽनङ्गयोनानात्वम् ॥ ५५०॥ गं. ७०००19 पूर्व१५.छ. 'द् यद् नि'। ४ घ.छ. ' तदर। ५ क. स. ग. 'प्रथम । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339