________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
149 विशेषा०
उवओग-सर-पयत्ता थाणविसेसा य होति पण्णवए । गइ-वाण-भय-संघाय-वण्ण-सदाइभावेसु ॥ ५४७ ॥
उपयोग आन्तरः श्रुतपरिणामः, स्वरो ध्वनिः, प्रयत्नस्ताखादिव्यापारविषयो यत्रः, स्थानविशेषा आसनविशेषाः, प्रज्ञापके गुरौ व्याख्यानादि कुर्वति सत्येते मावा धर्मा भवन्ति । एते चाऽनित्यत्वात् सादि-सपर्यवसिताः। ततश्चैतानाश्रित्य वक्तुरनन्यत्वाच्छूतमपि सादि-सपर्यवसितं भवति । प्रज्ञापनीयार्थगतान् भावानाह- 'गईत्यादि' गतिरण्वादीनां गमनपरिणामः, स्थानं तेषामेव स्थितिपरिणामः, भेदस्तेषामेवाऽन्यसंयुक्तानां विघटनम् , संघातस्त्वन्यैः सह संयोगः, वर्णः कृष्णादिः, शब्दो मैन्द्र-मधुरादिः,आदिशब्दाद् रस-गन्ध-स्पर्शसंस्थानादिपरिग्रहः । एते गति-स्थित्यादयो भावाः पर्यायधर्मा भावेषु प्रज्ञापनीयेषु परमाण्वादिषु भवन्ति । ततोऽनित्यत्वादमी सादिसपर्यवसिताः । एते च श्रुतस्य ग्राह्याः, ग्राहकं च ग्राह्यनिबन्धनं भवति, अतः श्रुतमपि सादि-सपर्यवसितमिति भावः। तदेवं द्रव्य-क्षेत्रकाल-भावानाश्रित्य सादि-सर्पयवसितत्वलक्षणो दर्शितः प्रथमभङ्गः ॥५४७ ॥
अथैतानेवाऽऽश्रित्य पूर्वमभव्यश्रुतदर्शितमपि पुनरेतेष्वपि क्रमायातेषु संभवदर्शनार्थमनाद्यपर्यवसितत्वलक्षणं चतुर्थभङ्गमुपदर्श
दैव्वे नाणापुरिसे खेत्ते विदेहाई कालो जो तेसु । खय-उवसमभावम्मि य सुयनाणं वट्टए सययं ॥५४८॥
द्रव्ये द्रव्यविषये नानापुरुषान् नारक-तिर्यड्-मनुष्य-देवगतान् नानासम्यग्दृष्टिजीवानाश्रित्य श्रुतज्ञान सम्यकश्रुतं सततं वर्ततेअभत, भवति, भविष्यति च, न तु कदाचिद् व्यवच्छिद्यते । ततस्तानाश्रित्येदमनादि, अपर्यवसितं च स्यादिति भावः । क्षेत्रे पुन पञ्च महाविदेहलक्षणान् विदेहानङ्गीकृत्य, काले तु यस्तेष्वेव विदेहेषु कालोऽनवसर्पिण्युत्सर्पिणीरूपस्तमाश्रित्य । भावे तु क्षायोपशमिके श्रुतज्ञानं सततं सर्वदैव वर्तते; अतोऽनादि अपर्यवसितम् । सामान्येन हि महाविदेहेत्सर्पिण्यवसर्पिण्यभावरूपनिजकालविशिष्टेषु द्वादशाअश्रुतं कदापि न व्यवच्छिद्यते, तीर्थकर-गणधरादीनां तेषु सर्वदैव भावात् ।। इति गाथाद्वादशकार्थः॥ ५४८॥
॥ तदेवं समतिपक्ष सादि-सर्पयवसितं श्रुतं समाप्तम् ।।
यन्नाह
१ उपयोग-स्वर-प्रयताः स्थानविशेषाश्च भवन्ति प्रज्ञापके । गति-स्थान-भेद-संघात-वर्ण-शब्दादिभावेषु ॥ ५४७ ॥ २ घ. छ. 'मधुर-मन्द्रादिः ।
द्रव्ये नानापुरुषान् क्षेत्रे विदेहान् कालो यस्तेषु । क्षयोपशमभावे च श्रुतज्ञानं वर्तते सततम् ॥ ५४८॥
३८
अथ षष्ठं :सप्रतिपक्ष गमिकश्रुतद्वारमाह
भंगगणियाई गमियं जं सरिसगमं च कारणवसेण ।गाहाइ अगमियं खलु कालियसुयं दिठिवाए वा ॥५४९॥
गमा भङ्गका गणितादिविशेषाश्च तद्बहुलं तत्संकुलं गमिकम् । अथवा, गमाः सदृशपाठास्ते च कारणवशेन यत्र बहवो भवन्ति तद् गमिकं, तञ्चैवंविधं मायः 'दृष्टिवादे' इत्येवं पर्यन्ते दृष्टिवादपदमत्र संवध्यते । यत्र प्रायो गाथा-श्लोक-चेष्टकायसदृशपाठात्मकं तदगमिकं, तचैवविधं प्रायः कालिकश्रुतम् ॥ इति गाथार्थः ॥ ५४९ ॥
॥ इति समतिपक्षं गमिकद्वारम् ।। अथ सप्तमं सपतिपक्षमङ्गमाविष्टद्वारमाह- . : गैणहर-थेरकयं वा आएसा मुक्कवागरणओ वा । धुव-चलविसेसओ वा अंगा-गंगेसु नाणत्वं ॥ ५५० ॥
x अङ्गा-ऽनङ्गमविष्टश्रुतयोरिदं नानात्वमेतद् भेदकारणम् । किम् ?, इत्याह- गणधरा गौतमस्खाम्यादयः, तत्कृतं श्रुतं द्वादशाङ्गरूपमङ्गमविष्टमुच्यते । स्थविरास्तु भद्रबाहुखाम्यादयस्तत्कृतं श्रुतमावश्यकनियुक्त्यादिकमनङ्गमविष्टमबाह्यमुच्यते। अथवा, वारत्रयं गणघरपृष्टस्य तीर्थकरस्य संबन्धी य आदेशः प्रतिवचनमुत्पाद-व्यय-धौव्यवाचकं पदत्रयमित्यर्थः, तस्माद् यद् निष्पनं तदाप्रविष्ट द्वादशाकमेव, मुत्कं मुस्कलममश्नपूर्वकं च यद् व्याकरणमर्थप्रतिपादनं, तस्मादै निष्पर्नेमङ्गबाथमभिधीयते, तचावश्यकादिकम् । वाशब्दो-काऽनङ्गमविष्टत्वे पूर्वोक्तभेदकारणादन्यत्वसूचकः । तृतीय भेदकारणमाह- 'धुव-चलविसेसओ व ति' ध्रुवं सर्वतीर्थकरतीर्थेषु नियतं निश्चयमावि श्रुतमङ्गभविष्टमुच्यते द्वादशाङ्गमिति । यत् पुनश्चलमानयतमनिश्चयभावि तत् तन्दुलवैकालिकमकीर्णादि श्रुतमङ्गबाह्यम् । वाशब्दोवापि भेदकारणान्तरत्वसूचकः । इदमुक्तं भवति- गणधरकृतं, पदत्रयलक्षणतीर्थकरादेशनिष्पन्न, ध्रुवं च यच्छूतं तदङ्गाविष्टमुच्यते, तच द्वादशाङ्गीरूपमेव । यत्पुनः स्थविरकृतं, मुत्कलार्थाभिधान, चलं च तदावश्यकमकीर्णादि श्रुतमङ्गबाथमिति ॥ ५५० ॥
आह-ननु 'पूर्व पूर्वाण्येवोपनिबध्नाति गणधरः' इत्यागमे श्रूयते, "पूर्वकरणादेव चैतानि पूर्वाण्यभिधीयन्ते । तेषु च १ भा-गणितादि गमिकं वत्सदृशगमं च कारणवशेन । गाथाद्यमिकं खलु कालिकश्रुतं दृष्टिवादे वा ॥ ५४९॥+पर्यन्तात्-. १ गणधर-स्थविरकृतं वाऽऽदेशाद् मुत्कव्याकरणतो वा । धुव-चलविशेषतो वाजा-ऽनङ्गयोनानात्वम् ॥ ५५०॥ गं. ७०००19 पूर्व१५.छ. 'द् यद् नि'। ४ घ.छ. ' तदर। ५ क. स. ग. 'प्रथम ।
For Private and Personal Use Only