________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
148
विशेषा० क्षते । तस्मात् तेभ्यस्तस्याऽतिशयाधान वक्तव्यम् , तच्च क्षणिकत्वे नोत्पद्यते । अथ निवर्तमानः करोति । तदप्ययुक्तम् , निवर्तमानावस्थाऽनभ्युपगमात् , अभ्युपगमे वा वस्तूनां सांशतामसङ्गात् । निवृत्तोऽपि न करोति, अविद्यमानत्वादेव । तस्मात् क्षणस्थितिधर्मकमपि वस्तु न कथमप्युपपद्यते । इति द्रव्य-पर्यायोभयरूपं नित्या-नित्यमेव वस्त्वभ्युपगन्तव्यम् , तस्यैव प्रत्यक्षादिप्रमाणसिद्धत्वात् , तथाहि-मृत्पिण्ड-शिवक-स्थास-घट-कपालादिष्वविशेषेण सर्वत्र मृदन्वयः संवेद्यते, प्रतिभेदं चान्योन्यध्यावृत्तिः, यथामतिभासं हि मृत्पिण्डसंवेदन, न तथाप्रतिभासमेव शिवकादिषु, सर्वत्राऽऽकारभेदानुभवात् । न च यथामतिभासभेदं तत्संवेदनं विजातीयेष्वुदक-दहनपवनादिषु, तथाप्रतिभासभेदमेव शिवकादिषु, सर्वत्र मृदन्वयस्य संवेदनात् । न चास्य सर्वजनसंवेद्यस्यापि संवेदनस्यापहवः कर्तु युज्यते, अतिप्रसङ्गात् । न चेदं संवेदनं भ्रान्तमिति शक्यते वक्तुम्, देश-काल-नरावस्थान्तरेष्वित्थमेव प्रवृत्तेः । न चार्थप्रभवमविसंवादि संवेदनं विहाय जातिविकल्पेभ्यः पदार्थव्यवस्था युज्यते, प्रतीतिबाधितत्वेन तेषामेवाऽनादेयत्वात् । न चैकान्तनित्येषु वस्तुषु ययोक्तसंवेदनभावो युज्यते, व्यावृत्ताकारनिवन्धनस्य धर्मभेदस्य तेष्वभावात् । उक्तं च
" भावेष्वेकान्तनित्येषु नान्वय-व्यतिरेकवत् । संवेदनं भवेद् धर्मभेदाभावादिह स्फुटम् ॥ १॥"" . धर्मभेदाभ्युपगमे चैकान्तनित्यत्वहानिप्रसङ्गात् । एकान्त विनश्रेष्वपि भावेषु नाधिकृतसंवेदनसंभवो घटते, अनुवृत्ताकारनिबन्धनद्रव्यान्वयस्याऽभावात् । उक्तं च
" एकान्ताऽनित्यभावेषु नान्वय-व्यतिरेकवत् । संवेदनं भवेद् द्रव्यस्याऽन्वयाभावतो ध्रुवम् ॥१॥" न चाऽस्य संवेदनस्य बाधभत्ययो युज्यते, कदाचिदप्यनुपलब्धेः । तमादन्वयाऽविनाभूतो व्यतिरेका, व्यतिरेकाविनाभूतशान्वय इति । उक्तं च
"नाऽन्वयः स हि भेदत्वाद् न भेदोऽन्वयधृत्तितः । मृद्रव्यभेदसंसर्गवृत्तिजात्यन्तरं घटः ॥ १॥" .. इत्यलं विस्तरेण । अत्र बहु वक्तव्यम् , तत्तु नोच्यते, ग्रन्थगहनताभयात् , अन्यत्रोक्तत्वाञ्चेति । अत्र च ग्रन्थे, ग्रन्थान्तरेषु , चाऽयं वादो बहुषु स्थानेषु भणिष्यते । एकत्र च स्थाने लिखितः स्थानान्तरे सुखेनैवाऽतिदिश्यते, इत्यालोच्य किश्चित् सविस्तरमिदं वादस्थानकं लिखितम् । इति न पराभजनीयम् , अरुचिर्वा विधेया, बहूपयोगित्वादस्येति ॥ ५४४ ॥
१.छ, 'मप्रभवो'। घ.छ. 'न्तन' । ३.क.ग. रेषु भा'।४. छ. 'कः प्र'। ५५. छ, 'रेबाप .छ. ' स्था'।. इह श्रुतस्य साधादिमरूपणायां चतुर्भङ्गी संभवति, तद्यथा- सादि सपर्यवसितमित्येको भाः, सादि अपयेवसितमिति द्वितीपा, अनादि सपर्यवसितामिति तृतीया, अनादि अपर्यवसितमिति चतुर्थः । तत्र द्रव्यत एक पुरुषद्रव्यमङ्गीकृत्य निरूपितः प्रथमो भगा। द्वितीयस्तु भरूपणामात्र, कचिदप्यसंभवात् । अतो भल्या-ऽभव्यौ समाश्रित्य तृतीय-चतुर्थभाकावाहम अहवा सुत्तं निव्वाणभाविणोऽणाइयं सपजंतं । जीवत्तं पिव निययं सेसाणमणाइ-पजंतं ॥ ५४५ ॥
इह सम्यग्-मिथ्याभावेनाऽविशेषितं श्रुतसामान्यमात्रं गृह्यते । अथवाशब्दो भङ्गका तरसूचकः । निर्वाणे भविष्यतीति निर्वाणभावी भव्यस्तस्यैतच्छुतमात्रं भव्यत्ववदनादिकालादारभ्य भावादनादि, केवलोत्पत्तौ पुनरवश्यं न भविष्यतीति सपर्यन्तम् । शेषाणामनिर्वाणभाविनामभन्यानां जीवत्ववदभव्यत्ववद् वा नियतं निश्चितमनादि-अपर्यन्तम् , अभव्यस्य संसारे कदाचिदपि भूतमात्राऽव्यवच्छेदादिति । इह द्रव्यत एक जीवद्रव्यमाश्रित्य निरूपितः पाक सादिसपर्यवसितत्वलक्षणः श्रुतस्य प्रथमभन नानाजीवद्रव्याणि त्वाश्रित्य तस्यैव चतुर्थभाः पुरस्ताद् भणिष्यते ॥ ५४५ ॥
अथ क्षेत्र-काल-भावैः प्रथम भङ्गमेव तस्य दर्शयनाह
*खेते भरहे-रवया काले उ समाउ दोण्णि तत्थेव । भावे पुण पण्णवगं पण्णवाणिजे व आसज्ज ॥ ५४६॥
भाग् यदुक्तम्- 'देव्वाम्म एगपुरिस पडुच्च साई सनिहणं च ' इति, तदिह प्रकृतं स्मर्यते । ततश्च क्षेत्र चिन्त्यमाने भरतै-रावतक्षेत्राण्याश्रित्य सम्यक्श्रुतं सादि सनिधनं च भवति । एतेषु हि क्षेत्रेषु प्रथमतीर्थकरकाले तद् भवतीति सादित्वं, चरमतीर्थकृतीर्थान्ते त्ववश्य व्यवच्छिद्यत इति सपर्यवसितत्वमिति । काले त्वधिक्रियमाणे वे समे उत्सर्पिण्य-वसर्पिण्यौ समाश्रित्य तत्रैव तेष्वेव भरतै-रावतेष्वेतत् सादि सपर्यवसितं भवति, योरपि समयोस्तृतीयारके प्रथम भावात् सादित्वम् उत्सर्पिण्यां चतुर्थस्यादौ, अवसर्पिण्या तु पञ्चमस्यान्ते. ऽवश्यं व्यवच्छेदात् सपर्यवसितत्वम् । भावे पुनर्विचार्यमाणे प्रज्ञापकं गुरुं श्रुतप्रज्ञापनीयांश्चार्थानासायेदं सादि सपर्यवसितं स्यादिति।।५४६। ... कथं पुनः प्रज्ञापकं, मज्ञापनीयांधार्थानाश्रित्येदं साधादिरूपम् १, इत्याह- ..
१५.. को भेदः सा'। अथवा सूत्र निर्वाणभाविनोऽनादिकं सपर्यन्तम् । जीवस्वामिव नियतं शेषाणामनादि-पर्यन्तम् ॥ ५५॥ प.छ. 'थमम' । क्षेत्रे भरतै-रावते काले तु समे । तचैव । भावे पुनः प्रज्ञापकं प्रज्ञापनीयान् वाऽऽसाथ ॥ ५४६ ५ गाथा ५३८ ।
For Private and Personal Use Only