________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
147 विशेषा० हि-निषादिसहकारिकारणसद्भावे युज्यते, अन्यथा सर्वदैव तद्भावाऽभावप्रसङ्गात् । न चैकान्तनित्यस्य तावत्सहकार्यपेक्षा युज्यते । तथाहि- अपेक्ष्यमाणेन सहकारिणा तस्य कश्चिदतिशयः क्रियते, नवा इति वक्तव्यम् । यदि क्रियते, स किमर्थान्तरभूतः, अनर्थान्तरभूतो वा ? इति वाच्यम् । यद्याद्यः पक्षा, तर्हि तस्य किमायातम् । तस्याऽसौ विशेषकारक इति चेत् । न, अनवस्थाप्रसङ्गात तथाहि-सोऽपि विशेषस्ततो भिन्नः, अभिन्नो वा इत्यादि तदेवाऽऽवर्तत इत्यनवस्था । अथाऽनर्थान्तरभूतं इति द्वितीयः पक्षा, स किं विद्यमानः, अविद्यमानो वा । यदि विद्यमानः, किमिति क्रियते', करणे वाऽनवस्थाप्रसङ्गः। अथाऽविद्यमानः, ननु व्याहतमेतत्ततोऽनर्थान्तरभूतः, अविद्यमानश्चेति । अविद्यमानस्य च खरविषाणस्येव कर्य करणोत्पत्तिा', करणे वा वस्तुनोऽनित्यत्वप्रसङ्गः, तदव्यातिरिक्तत्वेन तत्करणे वस्तुनोऽपि करणात् । अथ मा भूदेप दोप इति न क्रियत इत्यभ्युपगम्यते, न तर्हि स तस्य सहकारी, अतिशयाकरणात, इत्थमपि सहकारित्वेऽतिप्रसङ्गः, तथाहि- यदि कंचन विशेषमकुर्वन्नपि सहकार्याश्रीयते, तर्हि सर्वभावानामपि तत्सहकारित्वप्रसङ्गः, विशेषाकरणस्य समानत्वात्, इति कथं प्रतिनियतसहकारिकल्पना । अथवंभूत एवाऽस्य वस्तुनः खभावः, येन विशेषाकारकमपि प्रतिनियतमेव सहकारिणमपेक्ष्य कार्य जनयति । नन्वेतदपि मनोरथमात्रम्, तद्धि यदाऽभीष्टसहकारिसंनिधौ कार्य जनयति, तदा तस्य तदपेक्षालक्षणस्वभावो व्यावर्तते नवा वाच्यम् । यदि व्यावर्तते, तद्यनित्यत्वप्रसङ्गः, स्वभावनिवृत्तौ स्वभाववतोऽपि तदव्यातिरेकेण तद्वदेव निवृत्तेः । अथ न व्यावर्तते, तर्हि कार्याजननप्रसङ्गः, तत्स्वभावानिवृत्तेः, पूर्ववदिति । य एव हि तस्य कार्याजननावस्थायां स्वभावः, स एव जननावस्थायामपि, इति कथं जनयेत् । जनने वा सर्वदा जननप्रसङ्गः, तत्स्वभावस्य सर्वदाऽवस्थितत्वादिति । सहकारिकारणान्यपि नित्यत्वात् सर्वदैव संभूयोपकुऊरन् , विपर्ययो वा, नित्यस्यैकस्वभावत्वात् । ततश्च कार्यस्य सर्वदैव भावः, अभावो वा स्यादिति ।
. अथैकान्तानित्यं क्षणस्थितिधर्मकं वस्त्वभ्युपगम्यते । एतदप्ययुक्तम्, यतःक्षणस्थितिधर्मकं क्षणभावस्वभावमभिधीयते, ततोऽर्थादेवाऽस्य द्वितीयादिक्षणे सभाव इत्यकामेनापि प्रतिपत्तव्यम्, तयोश्च भावा-ऽभावयोः परस्परमन्यत्वम् , अनन्यत्वं वेति वक्तव्यम् । पद्यन्यत्वम् , तत् किं सर्वथा, उत कथश्चित् । यदि सर्वथा, तर्हि द्वि यादिक्षणेष्वपि भावप्रसङ्गः, प्रथमक्षणभावस्य द्वितीयादिक्षणाभावभिन्नत्वान्यथानुपपत्तेः न ह्येकान्तभिन्नादभावाद् भावस्य निधियुज्यते, पटापावादपि घटभावनिवृत्तिप्रसङ्गात् । अथ कथञ्चित् । तदयुक्तं, अनेकान्तवादाभ्युपगमप्रसङ्गात् । अथाऽनन्यत्वम् । तदपि सर्वथोत कयश्चित् । यदि सर्वथा, तर्हि प्रथमक्षणभाव एव द्वितीयादि
१ . छ. 'थं नि'२ .छ. 'रिकारण'। क्षणाभावस्ततो द्वितीयादिक्षणेष्वपि वस्तुनो भावप्रसङ्गः, द्वितीयादिक्षणाभावस्य वा निरूपाख्यत्वात्तस्यैव च प्रथमक्षणभावरूपत्वात्प्रथमक्षणभाव एवाऽभावः स्यात् । कथञ्चित्पक्षे तूक्त एव दोषः । अथ द्वितीयक्षणाभावस्याभावरूपत्वादेव न प्रथमक्षणभावेनाऽन्या-ऽनन्यत्वकल्पना युक्तिमती । स्यादेतत्, यदि भावोऽभावाद् भेदाभेदौ विहाय वर्तेत, तच्च नास्ति, गत्यन्तराभावात् । अथ द्वितीयक्षणाभावः परिकल्पितत्वादेव न विकल्पकल्पनाविषयः हन्त ! यद्येवम् , तर्हि तस्य परिकल्पितत्वादसवाद् द्वितीयादिक्षणे वपि भावप्रसङ्गः, इति कुतः क्षणस्थितिधर्मकत्वम् । अथ प्रथमक्षणव्यतिरिक्तो द्वितीयादिक्षणाभावः परिकल्पितः, तदव्यतिरिक्तस्त्वसावस्त्येव तर्हि प्रथमक्षणभाव एवं द्वितीयादिक्षणाभावः, तत्र च प्रागुक्त एव दोष इति । अथ तदुत्तरकालभाविपदार्थान्तरभाव एव विवक्षितस्य द्वितीयादिक्षणाभावः यद्येवम् , अत्र सुतरामन्या-ऽनन्यत्वकल्पना, तत्र चोक्तो दोषः। अथ क्षणस्थितिधर्मकं वस्त्वेव द्वितीयादिक्षणाभावः । तदयुक्तम् , तस्यैवाऽयोगात; तथाहि-क्षणस्थितिधर्मकं क्षणभावस्वभावमभिधीयत इत्यादि तदेवाऽनुवर्तत इति । अथोच्येत-द्वितीयादिक्षणाभावे प्रथमक्षणभावस्याऽभावात् , भावे वा द्वितीयादिक्षणाभावानुपपत्तेः प्रतियोग्यभावादेव नाऽन्या-ऽनन्यत्वकल्पनायाः संभवः, तथाहिद्वितीयादिक्षणे तदेव न भवति । नन्वेवम् , तर्हि तस्यैवाऽभावीभूतत्वाद् भाववत् तदभावस्याऽपि तद्धर्मत्वम् , अतस्तद्धर्मत्वे सर्वदैव भावापत्ते ततश्च स्वहेतुभ्य एव तद्भावा-ऽभावधर्मकं समुत्पद्यत इति प्रतिपत्तव्यम् । न चाक्रमवतः कारणात् क्रमवद्धर्माध्यासितकार्योत्पत्तियुज्यते । ततश्च यदैव भावस्तदैवाऽभावः स्यात्, इति कुतः क्षणस्थितिधर्मकत्वम् । तद्भावे वा प्रथमक्षणवदुत्तरक्षणेष्वपि भावा-ऽभावयोः सहावस्थानेऽविरोधात सर्वदैव वस्तुनो भावापत्तिः । न च निरंशतत्स्वभावेभ्यः स्वहेतुभ्य एव तद् वस्तु क्षणस्थितिधर्मकमेवोत्पद्यते, इति तद्धेतुभिरेवाऽत्रोत्तरं वक्तव्यम्, इत्युच्यमानं विद्वज्जनमनांसि रञ्जयति एवं हि स्वभावान्तरकल्पनाया अपि कर्तुं शक्यत्वात् । स्यादेतत् , शक्या स्वभावान्तरकल्पना, अक्षणिकेऽर्थक्रियाऽसंभवात् । तदयुक्तम् , क्षणिके एवाऽर्थक्रियाऽयोगात्, तथाहि-क्षणिकः पदार्थोऽनुत्पन्नोऽर्थक्रियां करोति, उत्पद्यमानः, उत्पन्ना, निवर्तमानः, निवृत्तो वा ? इति विकल्पाः। न तावदनुत्पन्नः, तस्यैवाऽसत्वात् । नाऽप्युत्पद्यमानः, उत्पद्यमानावस्थायां क्षणभङ्गभाववादिभिरनभ्युपगमात अभ्युपगमे या कोऽप्यंश उत्पन्ना, कोऽप्यनुत्पन्न इति सांशवस्त्वभ्युपगमः स्यात् , तथा चाऽस्मत्पक्षसिद्धिः, द्रव्य-पर्यायोभयरूपवस्तुसिद्धेः। अंशाभ्युपगमे वंशवानवयवी सिद्ध्यति, स च द्रव्यम् , अंशाश्च पर्याया इति द्रव्य-पर्यायोभयरूपवस्तुसिद्धिः। नाऽप्युत्पन्नः तस्य सर्वात्मनोत्पन्नत्वेन सहकारिभिरनाधेयातिशयत्वात् , अतिशयाधाने वा भित्रकारंणप्रभवातिशयस्य ततो भेदप्रसङ्गात् । इदमेव सहकारिणामतिशयजनकत्वं यदुत-तैः सह संभूय विशिष्टामर्थक्रियामसौ करोतीति चेत । नन्वेतदप्यात्मचित्तसमाधानमात्रम, यदि हि विशिष्टार्थक्रियाकरणे सहकारिणां संयोगमात्रमेवाऽयमपेक्षते, न वपरमतिशयम् । तबसहकारिवाभिमतैरप्यनेकैः सहाऽस्य संयोगमात्र विद्यते, किमिति विवक्षितसहकारिसंयोगमपे
For Private and Personal Use Only