________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
146 विशेषा. विकल्पना- मिथ्यात्वगमनादिभिः कारणैः कस्यचित् प्रतिपतति श्रुतम् , कस्यचिद् नेति ॥ ५३९ ॥
तान्येव मिथ्यात्वगमनादीनि श्रुतप्रतिपातकारणानि सामान्येनाह
'मिच्छ-भवंतर-केवल-गेलन-पमायमाइणा नासो । आह किमत्थं नासइ किं जीवाओ तयं भिण्णं ?॥४०॥
इइभवेऽपि तिष्ठतः कस्यचिद् मिथ्यात्वगमनेन श्रुतस्य नाशो भवति, कस्यचिद् भवान्तरगमनेन । एतच्च 'चौदसपुब्बी मणुओ' इत्यादिना दर्शितमेव । न चेह पुनर्भणने पौनरुक्त्यमाशङ्कनीयम्, सामान्येन श्रुतप्रतिपातकारणभणनमक्रमायातत्वेन पुनरत्र भणनात् । केवलज्ञानोत्पत्तौ च कस्यचिदिहभवेऽपि श्रुतं नश्यति, "नहम्मि उछाउमथिए नाणे" इति वचनात् । अपरस्य तु ग्लानावस्थायां, अन्यस्य पुनः प्रमादादिनेहभवेऽपि तस्य नाशो भवति । ततो लाभकाले तस्य सादित्वम्, प्रतिपाते तु सान्तत्वमिति । अत्र परः पाहकिमर्थ श्रुतं लब्धं सद् नश्यति, किं जीवाद भिवं व्यतिरिक्तं वर्तते ?- जीवे तिष्ठत्यपि श्रुतस्य भित्रस्यैव नाशो युज्यते नाभिनस्येति भावः॥ ५४॥ ___भिन्नमेव तत् तस्मादिति चेत् । अत्र दूषणमाह
जैइ भिन्नं तब्भावे वि तो तओ तस्सब्भावरहिउ त्ति । अण्णाणि च्चिय निच्चं अंध व समं पईवेण ॥५४१॥ यदि जीवाद् भिन्नं श्रुतमभ्युपगम्यते, 'तोत्ति ततस्तद्भावेऽपि श्रुतसद्भावेऽपि तकोऽसौ जीवोऽज्ञान्येव नित्यं स्यात् । कुतः, इत्याहतत्स्वभावरहित इति कृत्वा । श्रुतं हि जीवाद् भिन्नमिष्टम् , ततो जीवः श्रुतस्वभावरहितत्वादज्ञान्येव स्यात्-श्रुतप्रकाश्यमर्थ न पश्यदित्यर्थः। यथाऽन्धश्चक्षुर्विकल आत्मव्यतिरिक्तन हस्तगतेनाऽपि प्रदीपेन तत्पकाश्यमर्थ न पश्यतीति ॥ ५४१ ।। . अत्र मूरिरुत्तरमाह
तं ता नियमा जीवो जीवो न तदेव केवलं जम्हा । तं च तदण्णाणं वा केवलनाणं व सो होजा ॥५४२॥
१ मिथ्या-भवान्तर-केवल-लान-प्रमादादिना नाशः । आह किमर्थं नश्यति किं जीवात् तद् भिन्नम् । ॥५४॥ २ गाथा ५३९ । मष्टे तु च्छानस्थिके ज्ञाने। ५ यदि भिन्नं सद्भावेऽपि ततः सकस्तत्स्वभावरहित इति । अज्ञान एव नित्यमन्ध इव समं प्रदीपेन ॥ ५४१॥
५ तत् तावद् नियमाजीवो जीवो न तदेव केवलं यस्मात् । तच्च तवज्ञानं वा केवलज्ञानं वा स भवेत् ॥ ५४२ ॥ तत तावत श्रुतज्ञानं नियमाज्जीवो जीवस्खभावमेव भवति, नाजीवस्वभावम् । जीवः पुनस्तदेव केवलं न भवति । कुतः १, इत्याह- यस्मादसौ तद्वा श्रुतज्ञानं स्यात् , तदज्ञानं वा श्रुताज्ञानं, केवलज्ञानं वा स भवेत् । वाशब्दाद् मतिज्ञानम् , अवधिज्ञानं, मनःपर्यायज्ञानं, मत्यज्ञानं, विभङ्गो वाऽसौ भवेज्जीव इति ॥ ५४२ ॥
'तं ता नियमा जीवो' इति यदुक्तं, तदुपजीव्य परः माह. 'तं जइ जीवो नासे तण्णासो होउ सव्वसो नत्थि । जं सो उप्पाय-व्वय-धुवधम्माणंतपज्जाओ॥ ५४३ ॥
तच्छ्रुतं यदि जीवो जीवस्वभावभूतं तत् , तदा जीवात् तदव्यतिरिक्तमिति सामार्थ्यादेव भवद्भिरभ्युपगतम् , युक्तं चैतत् ; एवं हि सति युज्यते-जीवस्य तत्कृतवस्त्ववबोधो ज्ञानित्वं केवलं नाशे प्रतिपाते तस्य 'श्रुतस्य' इति प्रक्रमाल्लभ्यते, तस्य जीवस्य नाशस्तनाशो भवत्वस्तु । यतो हि यदव्यतिरिक्तं तस्य विनाशे तद् विनश्यत्येव, यथा घटस्वरूपविनाशे घटवस्त्विति । अत्र मूरिरुत्तरमाह'भवतु' इतीहापि योज्यते, अस्तु श्रुतस्य नाशे जीवस्य तत्पर्यायविशिष्टतामात्रान्वितस्य नाशः, किन्तु सर्वशः सर्वात्मना पर्यायान्तरविशिष्टस्यापि तस्य नाशो नास्ति । यद् यस्मादसौ जीव उत्पाद-व्यय-ध्रौव्यधर्मा, अनन्तपर्यायश्च वर्तते । ततो यदैवाऽसौ श्रुतपर्यायेण विनश्यति, तदैव श्रुताज्ञानानादिपर्यायेणोत्पद्यते । सचेतनत्वा-ऽभूर्तत्व-सत्त्व-प्रमेयत्वादिभिरनुगतैरन्यव्यावृत्तैश्वानन्तैः पर्यायैविशिष्टोऽसौ सर्वावस्थास्ववतिष्ठते । अतः कथं श्रुतपर्यायमात्रविनाशे तस्य सर्वथा विनाशः स्याद'। यदि हि तस्याऽयमेवैका पर्यायो भवेत् तदा तद्विनाशे तस्य सर्वनाशः स्यात् । एतच्च नास्ति, श्रुतपर्यायमात्रेण विनष्टस्यापि तस्य श्रुताझानादिपर्यायेणोत्पादात् । यथोक्तैश्चानन्तपर्यायैर्विशिष्टस्य सर्वदैवाऽवस्थानादिति ॥ ५५३॥
न चात्मैव केवल उत्पाद-व्यय-ध्रौव्यधर्मा, किन्तु सर्वमपि वस्त्वीदृशमेव, हाते दर्शयति--
सव्वं चिय पइसमयं उप्पज्जइ नासए य निच्चं च । एवं चेव य सुह-दुक्ख-बंध-मोक्खाइसब्भावो ॥५४४॥
सर्वमेव हि स्तम्भ-कुम्भ-भवनादिवस्तु प्रतिसमयं पुराणादिपर्यायेणोत्पद्यते, नवादिपर्यायेण तु विनश्यति, द्रव्यतया पुनर्नित्यं च ध्रुवं सर्वदैवाऽवतिष्ठते । एवमेव च सुख-दुःख-बन्ध-मोक्षादिसद्भावो घटते, नान्यथा) सुखादिसद्भावो हि सक्-चन्दना-जना
, सद् यदि जीदो माशे समाशो भवतु सर्वशो मास्ति । यत् स उत्पाद-व्यय-धौव्यधर्मा-ऽनन्तपर्यायः ॥ ५४॥ २ सर्वमेव प्रतिसमयमुत्पद्यते नश्यति च नित्यं च । एवमेव च सुख-दुःख-बन्ध-मोक्षाविसमावः ॥ ५४४ ॥नबादिपाय
MOHAMMITRAलवादिपर्यायेणोसयते पुराणादिक
For Private and Personal Use Only