________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानदर्शनयोर्वस्त्ववचोधरूपतयै
145 विशेषा. तयोरिहाऽपि कथश्चिद्भेदः । कथं पुनर्ज्ञान-दर्शनयोरन्यत्र तावद् भेद उक्तः १, इति चेत् । इत्याइ- 'नाणेत्यादि' यथाऽपायश्च धृतिश्चाऽपाय-धृती, एते वचनपर्यायग्राहकत्वेन विशेषावबोधखभावत्वाज्ञानमिष्ट, अवग्रहश्वेहा चाऽर्थपर्यायविषयत्वेन सामान्यावबोधाद् दर्शनम् । तथाऽत्रापि जीवादितत्वविषया रुचिः श्रद्धानं सम्यक्त्वं मण्यते, येन पुनस्तज्जीवादितत्त्वं रोच्यते श्रद्धीयते सन्मानम् । अयमत्राभिमायादर्शन-मोहनीयकर्मक्षयोपशमादिना या तत्त्वश्रद्धानात्मिका तस्वरुचिरुपजायते,तया तत्त्वश्रद्धानात्मक जीवादितत्त्वरोचकं विशिष्टं श्रुतं जन्यते, ततस्तत् श्रुताज्ञानव्यपदेशं परिहत्य श्रुतज्ञानसंज्ञा समासादयति । एवं च सति परो मन्यते-विशिष्टतत्त्वावगमस्वरूपं श्रुतमेव सम्यक्त्वं. न पुनस्ततोऽतिरिक्त किश्चिदुपलभ्यते, इति कथमुच्यते- 'सम्यक्त्वपरिग्रहात् सम्यक्श्रुतम्' इति । सिद्धान्तवादी तु मन्यते--
स्त्ववबोधरूपतयैकत्वेऽपि विशेष सामान्यवस्तुग्राहकत्वेन भेदः, तथानापि शुद्धतत्वावगमरूपे श्रुते तत्त्वश्रद्धानांशः सम्यक्त्वं, तद्विशिष्टं तु तवरोचकं श्रुतज्ञानमित्यनयोर्भेदः । एतयोश्च सम्यक्त्व-श्रुतयोर्युगपल्लाभेऽपि कार्य-कारणभावाद् भेदः। उक्तं च
" कारण-कजविभागो दीव-पगासाण जुगवजम्मे वि । जुगवुप्पन्नं पि तहा हेऊ नाणस्स सम्मत्तं ॥ १ ॥
जुगवं पि समुप्पन्नं सम्मत्तं अहिंगम विसोहेइ । जह कयगमंजणाइजलवुट्ठीओ विसोहिंति ॥ २ ॥" . अतो युक्तमुक्तम् ' सम्यक्त्वपरिगृहीतं सम्यकश्रुतं, विपर्ययात्तु मिथ्याश्रुतम् ' ॥ इति गाथादशकार्थः ॥ ५३५ ॥ ५३६ ॥
॥ समतिपक्षं सम्यकश्रुतं समाममिति ॥ इदानीं सादि सपथपसितं च श्रुतं समतिपक्षमुच्यते• अस्थित्तिनयस्सेयं अणाइपजंतमथिकाय व्व । इयरस्स साइ सतं गइपज्जाएहिं जीवो ब्व ॥ ५३७ ॥
अस्तीतिनयो नित्यवादी द्रव्यास्तिकस्तस्याभिमायेणेदं द्वादशाङ्गश्रुतमनादि, अपर्यन्तं च; नित्यत्वात् , पश्चास्तिकायवत् । तथाहि-यैर्जीवद्रव्यैः श्रुतमिदमधीतं. यान्यधीयन्ते, यानि चाध्येष्यन्ते, तानि तावदून कदापि व्यवच्छिद्यन्ते, इति तेषामनादिता.
१५. छ. 'नी' । १ घ. छ. 'तत्र । ३ क. ग. 'कं वि'। ४ घ. छ. 'न्यमा'। ५ कारण-कार्यविभागो दीप-प्रकाशयोर्युगपजन्मन्यपि । युगपदुत्पन्नमपि तथा हेतुानस्य सम्यक्त्वम् ॥1॥
धुगपदपि समुत्पर्य सम्यक्त्वमधिगम विशोधयति । यथा कनकमञ्जनादिजलवृष्टयो विशोधयन्ति ॥२॥ ६ भरतीतिनयस्येवमनादिपर्यन्तमस्तिकाय इव । इतरस्य सादि साम्तं गतिपर्यायैर्जीव इव ॥ ५३॥
अपर्यन्तता च । ततः श्रुतस्यापि तत्पर्यायभूतस्य तदव्यतिरेकात् तद्रूपतैव । न हि सर्वथाऽसत् काप्युत्पद्यते, सिकतास्वपि तैलाधुत्पतिप्रसङ्गात् । नापि सतोऽत्यन्तोच्छेदः, सर्वशून्यतापत्तेः। यदि हि यद् यद्देव-नारकादिकं घट-पटादिकं च विनश्यति तत् तद्यदि सर्वथा निरन्वयमपैति, तदा कालस्याऽपर्यवसितत्वात् क्रमेण सर्वस्याऽपि जीवपुद्गलराशेर्व्यवच्छेदात् सर्वमेव विश्वं शून्यं स्यात् । तस्मा
छुताधारद्रव्याणां सर्वदैव सत्त्वात् तदव्यतिरेकिणस्तस्यापि तद्रूपतैवेति स्थितम् । इतरस्य व्यवच्छित्तिनयस्याऽनित्यवादिनः पर्यायास्तिकस्य मतेन सादि, सपर्यन्तं च श्रुतम् , अनित्यत्वाज्जीवस्य, नारकादिगतिपर्यायवत्। तथाहि- श्रुतज्ञानिनां निरन्तरमपरापरे द्रव्यादुपयोगाः प्रसूयन्ते, प्रलीयन्ते च । न च तेभ्योऽन्यत् किमपि श्रुतमस्ति, तत्कार्यभूतस्य जीवादितत्त्वावबोधस्याऽन्यत्राऽदर्शनात् , तद नुपलम्भेऽपि तत्कल्पनायामतिप्रसङ्गात् । द्रव्यादिषु च श्रुतोपयोगः सादिः सपर्यवसित एवेति ॥ ५३७ ॥
अथवा, नयविचारमुत्सृज्य द्रव्य-क्षेत्र-काल-भावानाश्रित्येदं साधादिस्वरूपं चिन्त्यत इति । एतदाह
देव्वाइणा व साइयमणाइयं संतमंतरहियं वा । दव्वम्मि एगपुरिसं पडुच्च साइं सनिहणं च ॥ ५३८ ॥
द्रव्यादिना वा द्रव्य-क्षेत्र-काल-भावैर्वा श्रुतं सादिकमनादिकं, सान्तमनन्तं च भवति । इह च द्रव्यतः श्रुतमेकं बहूनि च पुरुषद्रव्याण्याश्रित्य चिन्तनीयम् । तत्रैकपुरुषं द्रव्यमङ्गीकृत्य तावदाह- 'दव्वम्मीत्यादि' द्रव्यत एकपुरुष प्रतीत्य सादि सनिधनं च श्रुतं भवति ॥ ५३८॥
कथम् १, इति चेत् । इत्याह
चोदसपुन्वी मणुओ देवत्चे तं न संभरइ सव्वं । देसम्मि होइ भयणा सट्ठाणभवे वि भयणा उ ॥५३९॥ ___ इह कश्चिच्चतुर्दशपूर्वधरः साधुर्मृत्वा देवलोकं गतः। तत्र च देवत्वे तत् पूर्वाधीतं श्रुतं न स्मरति । कियद् न स्मरति ?, इत्याहसर्वं कृत्स्नं, अशेषमिति यावत् । 'देशे पुनरेकाजलक्षणे' इति कल्पचूर्णिः, कोव्याचार्यव्याख्यानं तु देशे सूत्राघे सूत्रमात्रादौ चेति । इदं च पूर्वगतसूत्रापेक्षं संभाव्यते, अन्यथा कल्पेन सह विरोधप्राप्तः, भजना विकल्पना भवति- यथोक्तं देशं स्मरति, न स्मरत्यपीत्यर्थः । किं देवत्वमाप्तस्यैवेत्थं श्रुतस्य प्रतिपातः, आहोखिदिहमवेऽपि, इत्याह-स्वस्थाने मनुष्यत्वे योऽसौ भको जन्म तत्रापि तिष्ठतो भजन
व्यादिना दा सादिकमनादिकं साम्तमन्तरहितं वा । वन्य एकपुरुषं प्रतीत्य सादि सनिधनं च॥५३८॥ २.ख.ग. 'आह'। । चतुर्दशपूर्वो मनुजो देवत्वे तद्न स्मरति सर्वम् । देशे भवति भजना स्वस्थानभवेऽपि भजना तु॥५३९॥+एकादशा
For Private and Personal Use Only