________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
, 150 विशेषा निशेषमपि वाङ्मयमवतरति । अतश्चतुर्दशपूर्वात्मक द्वादशमेवाणमस्तु, किं शेषाङ्गविरचनेनं, अङ्गयामश्नुतरचनेन था ?, इत्याशझ्याह
जइवि य भूयावाए सव्वस्स वओमयस्स ओयारो । निजूहणा तहावि हु दुम्मेहे पप्प इत्थी य ॥ ५५१ ॥
अशेषविशेषान्वितस्य समग्रवस्तुस्तोमस्य भूतस्य सद्भूतस्य पादो भणनं यत्रासौ भूतवादा, अथवाऽनुगत-व्यावृत्तापरिशेषधर्मकलापान्वितानां सभेद-प्रभेदानां भूतानां प्राणिनां वादो यत्राऽसौ भूतवादो दृष्टिवादः, दीर्घत्वं च तकारस्याऽऽर्षत्वात् । तत्र यद्यपि दृष्टिवादे सर्वस्यापि वाङ्मयस्याऽवतारोऽस्ति, तथापि दुर्मेधसां तदवधारणाययोग्यानां मन्दमतीनां तथा श्रावकादीनां स्त्रीणां चानुग्रहार्य नियूहणा विरचना शेषश्रुतस्येति ॥ ५५१ ॥ - ननु स्त्रीणां दृष्टिवादः किमिति न दीयते ?, इत्याह
तुच्छा गारवबहुला चलिंदिया दुबला धिईए य । इय अइसेसज्झयणा भूयावाओ य नो त्थीणं ॥५५२॥
यदि हि दृष्टिवादः स्त्रियाः कथमपि दीयेत तदा तुच्छादिखभावतया 'अहो ! अहं या दृष्टिवादमपि पठामि' इत्येवं गर्वाऽऽध्मातमानसाऽसौ पुरुषपरिभवादिष्वपि प्रवृत्ति विधाय दुर्गतिमभिगच्छेत् । अतो निरवधिकृपानीरनीरधिभिः परानुग्रहप्रवृत्तैर्भगवद्भिस्तीर्थकरैरुस्थान-समुत्थानश्रुतादीन्यतिशयवन्त्यध्ययनानि, दृष्टिवादश्च स्त्रीणां नानुज्ञातः । अनुग्रहार्थं पुनस्तासामपि किश्चिच्छुतं देयमित्येका दशाङ्गादिविरचनं सफलम् ।। इति गाथात्रयार्थः ॥ ५५२ ॥
॥ इत्यङ्गा-ऽनापविष्टं श्रुतद्वारम् ॥ तदेवं निरूपितं चतुर्दशविधमपि श्रुतमर्थतः । अथ कियास्तद्विषयः १, इति निरूपयितुमाह
उवउत्तो सुयनाणी सव्वं दव्वाइं जाणइ जहत्थं । पासइ य केइ सो पुण तमचक्खुदंसणेणं ति ॥५५३ ॥
उपयुक्तो दत्तोपयोगः श्रुतज्ञानी सर्व द्रव्यादि यथार्थ यथावद् यथा सर्वज्ञेनोक्तं तथा जानाति- द्रव्यतः पञ्चास्तिकायद्व्याणि, क्षेत्रं लोका-ऽलोकाकॉरं, कालमतीतादिरूपं, भावानौदयिकादीन जानाति-स्पष्टावभासिना श्रुतज्ञानेनाऽवबुध्यते, न तु सामान्यग्राहिणा
। यद्यपि च भूतवादे सर्वस्य वाङ्मयस्याऽवतारः । नियूहणा तथापि खलु दुर्मेधसः प्राप्य स्त्रियश्च ॥ ५५१।।
२ तुच्छा गर्वबहुला चलेन्द्रिया दुर्बला धिया च । इत्यतिशेषाध्ययना भूतवादश्च नो स्त्रीणाम् ॥ ५५२ ॥ ३ घ. छ. 'दीयते त'।
। उपयुक्तः श्रुतज्ञामी सर्व द्रव्यादि जानाति यथार्थम् । पश्यति च केचित् स पुनम्तदचक्षुर्दर्शनेनेति ॥ ५५ ॥ ५ क. ख. प. छ. 'काशं का दर्शनेन पश्यति, तस्य तदसंभवात् । यथा हि मनःपर्यायज्ञानं स्वभावेनैव स्पष्टार्थग्राहक, इति न तत्र दर्शनम्, एवं श्रुतज्ञानेऽपि तदपि हार्थविकल्पनावस्थायामन्तर्जल्पाकारत्वाद् विशेषमेव गृह्णाति न सामान्यमिति भावः। तथा च नन्दिसूत्रम्- "तं समासओ चउबिह पण्ण,तं जहा-दवओ खेत्तओ, कालओ, भावओ। दवओ णं सुयनाणी उवउत्तो सम्बदव्वाई जाणइन पासइ, एवं सव्वखतं, सबकालं, सव्यभावे जाणइन पासइ" इति । अन्ये तु नका.पाठं न मन्यन्ते । ततश्च " जाणइ पासइ" इति पठन्ति । अतः 'श्रुतज्ञान्यपि दर्शनेन पश्यति' इति ते मन्यन्ते, यच्चासौ दर्शनेन पश्यति तदचक्षुर्दर्शनेनेति ग्न्यन्ते । इदमत्र हृदयम्- यस्य श्रुतज्ञानं तस्य मतिज्ञानमवश्यमेव भवति । मति-श्रुतज्ञानस्य च चक्षुरचक्षुर्दर्शनभेदाद् द्विभेदं दर्शनमुक्तम् । तत्र किल चक्षुर्दर्शनेन मतिज्ञानं पश्यति, अचक्षुर्दर्शनेन पुनः श्रुतज्ञानमिति ।। ५५३ ॥
एतत् तेषां मतमसमीक्षिताभिधानत्वाद् यदृच्छावादमात्रमिति दर्शयमाह- .
तेसिमचक्खुईसणसामण्णओ कहं न मइनाणी । पासइ, पासइ व कहं सुयनाणी किंकओ भेओ १॥५५॥
सेषां नवः पाठमनभ्युपगच्छता मतिज्ञान-श्रुतज्ञानयोरिन्द्रिय-मनोनिमित्ततासाम्यादचक्षुर्दर्शने समानेऽपि कथं हन्त ! तेनाऽचक्षुर्दर्शनेन मतिज्ञानी न पश्यति, कथं वा तेन श्रुतज्ञानी पश्यति ? । यदि हि श्रुतज्ञानी तेन पश्यति तर्हि मतिज्ञान्यपि पश्यतु । अथासौ न पश्यति, तहतिरोऽपि मा पश्यतु । ननु किंकृतोऽयं भेदो, यदचक्षुर्दर्शने समानेऽपि तेनैकशानं पश्यति, अपरं तु न पश्यति । खेच्छाभाषितस्वमात्रं विहाय नापरमत्र कारण पश्याम इति भावः । तस्मात् “जाणइन पासइ इति स्थितमिति ॥ ५५४ ॥ ...
। अथवा प्रज्ञापनोक्तां पश्यत्तामाश्रित्य श्रुतज्ञानेऽपि पश्यत्ता युक्ता । ततश्च " जाणइ पासइ " इत्यपि पाठो युक्त इति दर्शयबाह
मैइभेयमचक्खुईसणं च वजितु पासणा भणिया। पण्णवणाए उ फुडा तेण सुए पासणा जुत्ता ॥५५५॥ +भाषिय- तत् समासतश्चतुर्विधं प्रशप्सम, तद्यथा- द्रव्यतः, क्षेत्रतः, कालता, भावतः । द्रव्यतः श्रुतज्ञान्युपयुक्तः सर्वव्याणि चानाति, न पश्यति ।
एवं सर्वक्षेत्र, सर्वकालं, सर्वभावान् जामातिन पश्यति ।
तेषामचक्षुदर्शनसामान्यतः कथं न मतिज्ञानी । पश्यति, पश्यति वा कथं श्रुतज्ञानी, किंकृतो भेदः॥ ५५॥ । मतिभेदमचक्षुदर्शनं च वर्जयित्वा पश्यत्ता भणिसा । अंशापनायां तु स्फुटा सेन श्रुते पश्यत्सा युक्ता ॥ ५५५ ॥
For Private and Personal Use Only