________________
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
151
विशेषा०
मतेर्भेदो मतिमेदो मतिज्ञान-पत्यज्ञानलक्षणस्तं, तथाऽचक्षुर्दर्शनं च वर्जयित्वा येन कारणेन मापनायां त्रिंशत्तमपदे पश्यर स्फुटा व्यक्ता भणिता, तेन श्रुते श्रुतज्ञानेऽपि पश्यत्ता युक्ता " जाणइ पासइ" इति पाठो युक्त इत्यर्थः । तथाच प्रज्ञापनात्रिंशत्तमपद सूत्रम्- " केइविहाण भंते ! पासणया पण्णत्ता । गोयमा ! दुविहा, तं जहा- सागारपासणयाँ य, अणागारपासणया य । सागार पासणया गं भन्ते ! कइविहा पण्णत्तागोयमा छबिहा पण्णत्ता, तं जहा-सुयनाणसागारपासणया, ओहि-मणपज्जव-केवलनाण सागारपासणया, सुयअन्नाण-विभंगनाणसागारपासणया य । अणागारपासणया णं भंते ! काविहा पण्णता गोयमा! तिवित पण्णता, तं जहा- चक्खुईसण-ओहिदंसण-केवलदसणअणागारपासणया" इति ।
अथ 'पासणया' इति कः शब्दार्थः । उच्यते-पश्यतो भावः पश्यत्तोपयोग इत्यर्थः, यथोपयोगशब्देन सॉकारानाकारभेदभि उपयोगोऽभिधीयते तथा पश्यत्ताशब्देनापीत्यर्थः। आह-यद्येवम् , पर्यायशब्दावेतो, तत् किमित्युपयोगात् पश्यत्ता पृथगधीता । सत्यम् किन्तु साकारोपयोगोऽष्टधा प्रोक्ता, साकारपश्यसा तु षोढा, मतिज्ञान-मत्यज्ञानयोस्तदभणनात। अनाकारोपयोगोऽपि अनाकारपश्यत्ता पुनस्त्रिधा, अचक्षुर्दर्शनस्य तदनभिधानात् । पश्यत्ताशब्दो हि 'दशिरमेक्षणे' अस्य धातोर्निष्पद्यते, प्रकृष्टं चेक्षणं त्रिकाल विषये शीघ्रमेवाऽर्थपरिच्छेदैनपटिष्ठेऽवबोधे भवति । मतिज्ञान-पत्यज्ञाने च भायः समितकालविषये एव, इति न तयोः पश्यचा । शीघ्रं चाऽर्थप रिच्छेदो यया चक्षुषः, न तथा शेषाणां श्रोत्र-प्राणादीन्द्रियाणां, चक्षुरुपयोगापेक्षया तदुपयोगस्येन्द्रियपदे दीर्घ-दीर्घतरत्वेनाऽभिधानात् मनसस्तु शीघ्रार्थपरिच्छेदेऽप्यनाकारपश्यत्ता न विवक्षिता, उपयोगमात्रस्यैव तत्र विवक्षणात् । अतोऽचक्षुर्दर्शनेऽपि न पश्यत्ता । तदेवं श्रुता अधि-मनःपर्याय-फेवलज्ञान-श्रुताज्ञान-विभज्ञानभेदात् षोढा साकारपश्यत्ता, अष्टधातु साकारोपयोगः चक्षु-रवधि-केवलदर्शनभेदा तु त्रिधाऽनाकारपश्यत्ता, चतुर्धा त्वनाकारोपयोगः, इत्युपयोग-पश्यत्तयोर्भेदः । तदेवं मतिभेदी, अचक्षुर्दर्शनं च वर्जयित्वा श्रुतज्ञानादि मज्ञापनायां पश्यत्ता मोक्ता, तामाश्रित्य श्रुते युक्ता पश्यत्तेति स्थितम् ।
पुचितु पुस्तकेषु 'तेण सुए पासणाऽजुत्ता' इत्येवमकारमश्लेषो दृश्यते, तत्राऽयमर्थः- पूर्वगायायां पासइ य केइ सो पुष १. ग. 'त्वा यथा ये ख. 'स्वा तथा ये । +छेदेन-1
कतिविधा भगवन् ! पश्यत्ता प्रशसा । गौतम । द्विविधा, सद्यथा-साकारपश्यत्ताचअनाकारपश्यत्ता च । साकारपश्यत्ता भगवन् ! कतिविधा प्रजक्षा' गौतम ! पविधा प्राप्ता, तद्यथा-श्रुतवानसाकारपश्यत्ता, अवधि मनःपर्यव-केवलज्ञानसाकारपश्यत्ता, श्रुताज्ञान-विभङ्गज्ञानसाकारपश्यत्ता । अनाकारपश्यत्ता भगवन कतिविधा प्राप्ता । गौतम ! त्रिविधा प्राप्ता, तद्यथा-चक्षुदर्शना-ऽवधिदर्शन-केवलदर्शनाऽनाकारपश्यत्ता।३५. छ.' या भ'। गाथा ५५३ 1 तमचक्खुद्दसणणं' इति वचनादचक्षुर्दर्शनमाश्रित्य श्रुतज्ञाने या पश्यत्ता मोक्ता सा, इत्यतोऽप्ययुक्ता । कुतः१, इत्याह- येन प्रज्ञापनाया पतिभेदौ, अचक्षुर्दर्शनं च वर्जयित्वैव पश्यत्ता मोक्ता । अतोऽचभुर्दर्शनमाश्रित्याऽयुक्तैव श्रुतज्ञाने पश्यत्ता । ततो “जाणइ न पासइ इति पाठ इति स्थितम् । इयं च गाथा पूर्वटीकाकारहीता, 'कण्ठया' इति च निर्दिष्टा, न तु व्याख्याता; अस्माभिस्तु यथावबोध किश्चिद् विवृता, सुधिया त्वन्यथाऽप्यविरोधतो व्याख्येयेति । तदेवं भेदतो विषयतश्च निरूपितं श्रुतज्ञानम् ॥ ५५५ ॥
सांप्रतं सत्पदप्ररूपणतादिभिर्नवभिरनुयोगद्वारैर्गत्यादिमार्गणास्थानेषु तद् गम यम् । एतच्चाभिन्नवामित्वात् पूर्वोक्तमतिज्ञानेन समानम्, इत्यतिदिशमाह- .
जह नवहा मइनाणं संतपयपरूवणाइणा गमियं । तह नेयं सुयनाणं जं तेण समाणसामित्तं ॥ ५५६ ॥ ... गतार्थैव ॥ ५५६ ॥ .. अथोत्तरनियुक्तिगार्थासंबन्धनायाह
__ सव्वाइसयनिहाणं तं पाएणं जओ पराहीणं । तेण विणेयहियत्थं गहणोवाओ इमो तस्स ॥ ५५७ ॥
तच्च श्रुतज्ञानं यतो यस्मादनेकातिशयनिधानं प्रायः पराधीनं च गुर्वायत्तम्, तेन कारणेन तस्य श्रुतज्ञानस्याऽयं वक्ष्यमाणो ग्रहणोपायो ग्रहणविधिः 'तीर्थकर-गणधरैरुक्तः' इति शेषः ॥ इति गाथापञ्चकार्यः ॥ ५५७ ॥
का पुनर्ग्रहणोपायः १, इत्याह
आगमसत्थग्गहणं जं बुद्धिगुणेहिं अट्ठहिं दिहें । बति सुयनाणलंभं तं पुव्वविसारया धीरा ॥ ५५८ ॥
पूर्वेषु विशारदा विपश्चितो धीरा व्रतानुपालनस्थिराः श्रुतज्ञानस्य लाभ ब्रुवते प्रतिपादयन्ति । किं तत् ?, इत्याह- 'तंति' तदेवागमशास्त्रग्रहणं । यत् किम् ?, इत्याह- यबुद्धिगुणैर्वक्ष्यमाणखरूपैरष्टभिर्दिष्ट शास्त्रे, इत्यक्षरयोजना | अयमर्थः- शिष्यते शिक्ष्यते बोध्यतेऽनेनेति शास्त्रं तच्चाविशेषितं सामान्येन सर्वमपि मत्यादिज्ञानमुच्यते, सर्वेणापि ज्ञानेन जन्तूनां बोधनात् । अतो विशेष स्थापयि
१ यथा नवधा मतिज्ञानं सत्पदप्ररूपणादिना गमितम् । तथा ज्ञेयं श्रुतज्ञानं यत् तेन समानस्वामित्वम् ॥ ५५६ ॥ २ ख.प.छ.'था संवन्धयनाह' । ३ सर्वातिशयनिधानं तत् प्रायेण यतः पराधनिम् । तेन विनेयहितार्थ ग्रहणोपायोऽयं तस्य ॥ ५५७ ॥x दृष्ट-1 • आगमशास्त्रग्रहणं यद् बुद्धिगुणैरष्टनिर्दिष्टम् । युवते श्रुतज्ञानलाभं तत् पूर्वविशारदा धीराः ॥५५८ ॥
For Private and Personal Use Only