________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
152
विशेषा ०
तुमाह- आगमरूपं शाखमागमशास्त्रं श्रुतज्ञानमित्यर्थः, तस्य ग्रहण गुरुसकाशादादानं तदेव श्रुतलाभं सुनते, यद् बुद्धिगुणैरष्टाभिः शाखे दिष्टं, नाम्यदिति - वक्ष्यमाणशुश्रूषादिगुणाष्टकक्रमणैव श्रुतज्ञानं प्रार्थ, नान्यथेति तात्पर्यम् ॥ इति नियुक्तिगाथार्थः ॥ ५५८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
अत्र भाष्यम् -
- सासिज्जइ जेण तयं सत्यं तं चाऽविसेसियं नाणं । आगम एव य सत्थं आगमसत्थं तु सुयनाणं ॥ ५५९ ॥ तस्सायाणं गहणं दिडं जं मइगुणेहिं सत्थम्मि । बेति तयं सुयलाभं गुणा य सुस्तूसणाईया ॥ ५६० ॥ गतार्थे एव ॥ ५५९ ॥ ५६० ॥
. ते चामी अष्टौ बुद्धिगुणाः
सुस्सूसइ पडिपुच्छर सुणेइ गिण्हइ य ईहए चावि । ततो अपोहए वा घारेद्द करेइ वा सम्मं ॥ ५६१ ।।
- विनययुक्तो गुरुमुखात् श्रोतुमिच्छति शुश्रूषते, पुनः पृच्छति प्रतिपृच्छति तदधीतं श्रुतं निःशङ्कितं करोतीत्यर्थः । तच्चाधीतं श्रुतमर्थतः शृणोति श्रुत्वाऽवग्रहेण गृह्णाति, गृहीत्वा चेहयेहते पर्यालोचयति- किमिदमित्यं, उतान्यथा । इति । चशब्दः समुच्चयार्थः । अपिशब्दात् पर्यालोचयन् किश्चित् स्वबुद्ध्याऽप्युत्प्रेक्षते । ततस्तदनन्तरमपोहते च - एवमेतद् यदादिष्टं गुरुभिरेवं निश्चिनोति । चायें सदैव चेतसि धारयति, करोति च सम्यक् तदुक्तानुष्ठानम्, श्रुताज्ञानुष्ठानस्यापि तदावरणक्षयोपशम-गुरु चित्ताऽऽवर्जनादिहेतुत्वेन श्रुतप्राप्त्युपायत्वादिति ।
अथवा, यद् यदाज्ञापयति कार्यजातं गुरुः, तत्तत् सम्यगनुग्रहं मन्यमानः श्रोतुमिच्छति शुश्रूषते । पूर्वनिरूपितश्च कार्यकरणकाले पुनः पृच्छति प्रतिपृच्छति । इत्थं चाराधितस्य गुरोरन्तिके सूत्रं, तदर्थे वा सम्यक् शृणोति । श्रुतं चावग्रहेण गृह्णाति, इत्यादि पूर्ववत् । अन्ये तु व्याचक्षते - प्रतिपृष्टेन गुरुणा पुनरादिष्टश्चं संस्तद्वचः सम्यक् शृणोति श्रुतं चावग्रहेण सम्यग् गृह्णातीत्यादि तथैव यावत् करोति च गुरुभणितं सम्यगिति । एवं गुर्वाराधनविषयत्वेनाऽष्टावपि गुणा व्याख्यायन्ते श्रुतावाप्तौ मूलोपायत्वाद् गुर्वाराधनायाः । इति निर्युक्तिगाथार्थः ॥ ५६१ ॥
x दृष्टं - 1
१ शिष्यते येन तत् शास्त्र तथाऽविशेषितं ज्ञानम् । आगम एव च शास्त्रमागमशास्त्रं तु श्रुतज्ञानम् ॥ ५५९ ॥ तस्यादानं ग्रहणं दिष्टं यद् मतिगुणैः शास्त्रे मुषते तत् श्रुतलाभं गुणाश्च शुश्रूषादिकाः ॥ ५६० ॥
शुश्रूषते प्रतिपृच्छति शृणोति गृहूणाति चेहते चापि । ततोऽपोहते वा धारयति करोति वा सम्यक् ॥ ५६१ ॥
अथ भाष्यम् -
'सुस्सूसइ उ सोउं सुयमिच्छइ सविणओ गुरुमुहाओ । पडिपुच्छइ तं गहियं पुणो वि नीसंकियं कुणइ ॥ ५६२| सुणइ तदत्थमहीउं गहणे हा ऽवाय धारणा तस्स । सम्मं कुणइ सुयाणं अन्नं पि तओ सुयं लहइ ॥५६३ ॥ द्वितीयं व्याख्यानमाह
- सुस्सूसइ वा जं जं गुरवो जंपंति पुव्वभणिओ य । कुणइ पडिपु छऊणं सुणेइ सुत्तं तदत्थं वा ॥ ५६४ ॥
तिस्रोऽपि व्याख्यातार्थी एव । नवरं द्वितीयगाथायां शृणोति तदर्थं श्रुतार्थम् एवं च सूत्रतोऽर्थतच 'अहीर्ड ति' अधीत्य श्रुतं, ततस्तस्य श्रुतस्य ग्रहणेहा - sपाय- धारणाः सम्यक 'करोति' इत्यत्र संबध्यते । तथा, 'सुयाणं तिं' श्रुताज्ञां श्रुतोक्तानुष्ठानं 'सम्यक् करोति' इत्यावृत्त्याऽत्रापि संबध्यते । एवं च कुर्वाणोऽन्यदपि श्रुतं लभत इति । तृतीयगाथायां 'सुस्सुसर पडिपुच्छर सुणेइ' इत्येतावान् निर्युक्तिगाथावयवो व्याख्यातः । गृह्णातीत्यादेस्त्वर्थः प्राक् कथितः स्वयमेव द्रष्टव्य इति ॥ ५६४ ॥
'शुश्रूषते' इत्युक्तम्, अतः श्रवणविधिमाह
भूयं हुंकारं वा बाढक्कार- पडिपुच्छ-वीमंसा । तत्तो पसंगपारायणं च परिणिट्ठ सत्तम ॥ ५६५ ॥
मूकमिति मूकं शृणुयात् । इदमुक्तं भवति प्रथमवारा श्रवणे संयतगात्रः संस्तूष्णीमाश्रितः सर्वमवधारयेत् । द्वितीयवारायां तु हुङ्कारं दद्याद् वदनं कुर्यादित्यर्थः । तृतीये श्रवणे वाढङ्कारं कुर्यात् एवमेतद् नाऽन्यथेति ब्रूयादित्यर्थः । चतुर्थे तु गृहीत पूर्वापरसूत्रा भिमायो मनाक् प्रतिपृच्छां कुर्यात् - 'कथमेतत् १ ' इति । पञ्चमे तु मीमांसां विदध्यात्, तत्र मातुमिच्छा मीमांसा, प्रमाणजिज्ञासेति यावत् । ततः षष्ठे तदुत्तरोत्तरगुणप्रसङ्गः, पारगमनं चाऽस्य भवति । सप्तमे श्रवणे परिनिष्ठा भवति । एतदुक्तं भवति- गुरुवदनुभाषत एव सप्तमवारायामिति । तदेवं शिष्यगतः श्रवणविधिरुक्तः ॥ ५६५ ॥
_शुश्रूषते तु श्रोतुं श्रुतमिच्छति सविनयो गुरुमुखात् । प्रतिपृच्छति तद् गृहीतं पुनरपि निःशङ्कितं करोति ॥ ५६२ ॥ शृणोति तदर्थमधीत्य ग्रहणे हा उपाय - धारणास्तस्य । सम्यक् करोति श्रुताशामन्यदपि ततः श्रुतं लभते ॥ ५६३ ॥ २ शुश्रूषते वा यद् यद् गुरवः कथयन्ति पूर्वभणितश्च । करोति प्रतिपृच्छयं शृणोति सूत्रं तदर्थे वा ॥ ५६४ ॥ -३ मूकं हुङ्कारं वा वाढद्वार- प्रतिपृच्छा-मीमांसाः । ततः प्रसङ्गपारायणं च परिनिष्ठा सप्तमके ॥ ५६५ ॥
For Private and Personal Use Only