________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
153
Acharya Shri Kailassagarsuri Gyanmandir
विशेषा ०
अथ गुरुगतं व्याख्यानविधिमाह
तत्थ खलु पढम बीओ निज्जुत्तिमीसओ भणिओ । तईओ य निरवसेसो एस विही होइ अणुओगे ॥ ५६६ ॥ सूत्रस्याsर्थो यत्रासौ सूत्रार्थः । खलुरवधारणे । ततश्च सूत्रार्थ एव सूत्रार्थमात्रप्रतिपादनपर एव प्रथमः प्रथमवारायामनुयोगो गुरुणा कर्तव्यः । द्वितीयस्तु द्वितीयबारायां सूत्रस्पर्शक नियुक्तिमिश्रकः कर्तव्यतया भणितस्तीर्थकर - गणधरैः । तृतीयस्तु तृतीयबारायां प्रसक्तानुप्रसक्तमप्युच्यते यस्मिन् स एवंलक्षणो निरवशेषो भणितः । एष उक्तलक्षणो विधानं विधिर्भवति । क १, इत्याह- सूत्रस्य निजेनाभिधेयेन सार्धमनुकूलो योगोऽनुयोगः सूत्रस्यार्थान्वाख्यानमित्यर्थः, तस्मिन्ननुयोगेऽनुयोगविषये || इति निर्युक्तिगाथाद्वयार्थः ॥५६६ ॥ ॥ तदेवं श्रुतज्ञानस्य ग्रहण- श्रवणव्याख्यानविधिः प्रतिपादितः । तत्प्रतिपादिते च श्रुतज्ञानं समाप्तमिति ।। अथ पूर्वोदितसंबन्धायातमवधिज्ञानमभिधित्सुः प्रस्तावनामाह ॥ अवधिज्ञानम् ॥
भणियं परोक्खमहुणा पच्चक्खं तं च तिविहमोहाई । पुव्वोइयसंबंधं तत्थावहिमाइओ वोच्छं ॥ ५६७ ॥ मति-श्रुतलक्षणं परोक्षज्ञानं तावद् भणितं प्रतिपादितम् । इदानीं प्रत्यक्षमभिधानीयम्, तच्चाऽवधि- मनःपर्याय -केवलभेदात् त्रिविधम् । तत्रादितः प्रथमं पूर्वोदितसंबन्धमवधिज्ञानं वक्ष्येऽभिधास्य इति ।। ५६७ ॥
तत्रावधिभेदास्तावत् संख्यातीता भवन्तीति दर्शयति
खाईयाओ खलु ओहीनाणस्स सव्वपयडीओ । काई भवपच्चइया खओवसमियाओ काओ वि ॥५६८ ॥ संख्यानं संख्या तामतीता अतिक्रान्ताः संख्यातीता असंख्येया इत्यर्थः, प्रकृतयो भेदा अंशाः, सर्वाश्च ताः प्रकृतयश्च सर्वप्रकृतयः । ततश्च पूर्वोक्तशब्दार्थस्याऽवधिज्ञानस्य क्षेत्रकालौ विषयभूतावाश्रित्य सर्वा अन्यसंख्येयाः प्रकृतयो भेदा भवन्ति, तथाहि - अवधेर्जघन्यतोजुला संख्येयभागादारभ्य प्रदेशोत्तरया वृद्ध्योत्कृष्टतोऽलोकेऽपि लोकप्रमाणान्यसंख्येयखण्डानि क्षेत्रविषय इति वक्ष्यते । कालोऽपि जघ
१ सूत्रार्थः खलु प्रथमो द्वितीयो नियुक्तिमिश्रको भणितः । तृतीयश्च निरवशेष एष विधिर्भवत्यनुयोगे ॥ ५६६ ॥ २ क.ख.ग. 'मीसिओ' । ३ भणितं परोक्षमधुना प्रत्यक्षं तच्च त्रिविधमवध्यादि । पूर्वोदितसंबन्धं तत्रावधिमादितो वक्ष्ये ॥ ५६७ ॥
४ संख्यातीताः खल्ववधिज्ञानस्य सर्वप्रकृतयः । काश्चिद् भवप्रत्ययिताः क्षायोपशमिक्यः का अपि ॥ ५६८ ॥ ५ क.ग. 'तयोंशा भेदाः स ' |
३९
"
न्यत आवलिका संख्येयभागादारभ्य समयोत्तरया वृद्ध्यात्कृष्टतोऽसंख्येयोत्सर्पिण्यवसर्पिणीलक्षणो विषय इत्यभिधास्यते । एवं च 'विषय'भेदाद् विषयिणोऽपि भेदः' इति न्यायात् क्षेत्र काललक्षणविषयस्याऽसंख्ये यभेदत्वादव धेरप्यसंख्येया भेदा भवन्ति । खलुशब्दश्रेह विशेषणार्थः । किं विशिनष्टि १, इति चेत् । उच्यते- क्षेत्र - कालावेवाऽङ्गीकृत्यावधेरसंख्येयाः प्रकृतयो भवन्ति । द्रव्य भावौ स्वाश्रित्याऽनन्ता अपि तास्तस्य प्राप्यन्तेः तथाहि-- “ तेया-भासादव्वाणमंतरा एत्थ लभइ पट्ठवओ ” इत्यादिवचनात् तैजस-भाषाद्रव्यापान्तलवर्त्यनन्तमदेशिका द्रव्यादारभ्य विचित्रवृद्ध्या सर्वमूर्तद्रव्याण्युत्कृष्टविषयपरिमाणमवधैर्वक्ष्यते । प्रतिवस्तुगताऽसंख्येयपर्यायरूपं च treat विषयमानमभिधास्यते । अतः सर्वमपि पुद्गलास्तिकायं, अवधिग्राह्यांच तत्पर्यायानाश्रित्यानन्तोऽवधिविषयः सिद्धो भवति, ज्ञेयभेदाच्च ज्ञानभेदः, इति द्रव्य- भावलक्षणविषयापेक्षयाऽवधेरनन्ता अपि प्रकृतयो भवन्ति । तर्हि 'संखाईयाओ खलु' इति विरुध्यते, इति चेत् । नैवम्, अनन्तस्यापि संख्यातीतत्वाऽव्यभिचारात् । अतः संख्यातीतशब्देनाऽसंख्याता अनन्ताथ प्रकृतयो गृह्यन्त इत्यविरोधः । एतासु च प्रकृतिषु मध्ये काश्चनाऽन्यतमा भवप्रत्ययाः - भवो नारकादिजन्म स पक्षिणां गगनोत्पतनलब्धिरिवोत्पत्तौ प्रत्ययः 'कारण यासां ता भवप्रत्ययाः, ताश्च नारका-मराणामेव । काश्चन पुनरन्यतमाः क्षयोपशमेन निर्वृत्ताः क्षायोपशमिक्यः, तपःप्रभृतिगुणपरिणामाविर्भूतक्षयोपशमप्रत्यया इत्यर्थः एताथ तिर्यङ् - मनुष्याणामिति । आह- क्षायोपशमिकभावेऽवधिज्ञानं पठ्यते, नारकादिभावstarकः, स कथं तत्प्रकृतीनां प्रत्ययः स्यादिति । अत्रोच्यते - मुख्यतस्ता अपि क्षयोपशमनिबन्धना एव, केवलं सोऽपि क्षयोपशमस्तस्मिन् नारका-sमरभवे सत्यवश्यं भवति, इति कृत्वा भवप्रत्ययास्ता उक्ता इति ।। ५६८ ॥
अथ सामान्यरूपतयोद्दिष्टानां संख्यातीतानामवधिप्रकृतीनां वाचः क्रमवर्तित्वात्, आयुषश्चाल्पत्वाद् यथावद्भेदेन प्रतिपादन - सामर्थ्य मात्मनोऽपश्यन्नाह -
''"
तो मे वसती ओहिस्स सव्वपयडीओ ? । चउद्दसविहनिक्खेवं इड्ढीपत्ते य वोच्छामि ॥ ९६९ ॥ वर्णयितुं शक्तः सर्वप्रकृतीः, आयुषः परिमितत्वात् वाचः क्रमवर्तित्वाच्च ?, तथापि विनेयगणानुग्रहार्थं चतुर्दशविश्वास निक्षेपश्च चतुर्दशविधनिक्षेपस्तमवध्यादिकं चतुर्दशविधनिक्षेपं वक्ष्यामि; आमर्षौषध्यादिका ऋद्धिः प्राप्ता यैस्ते प्राप्त-यस्तांश्च वक्ष्यामि । इह गाथाभङ्गभयाद् व्यत्ययः, अन्यथा निष्ठान्तस्य बहुव्रीहौ पूर्वनिपात एव भवति ।। इति नियुक्तिगाथाद्वयार्थः ॥ ५६९ ॥
१ गाथा ६२६ । २. कुतो मे वर्णयितुं शक्तिरवधेः सर्वप्रकृतीः ? । चतुर्दशविधनिक्षेपमृद्धिप्राप्तांश्च वक्ष्यामि ॥ ५६९ ॥
For Private and Personal Use Only