________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
90
यन्नाह
विशेषा० वग्गहादओ' इत्यादिना प्रतिपादितैरवग्रहादिसंबन्धिभिरष्टाविंशतिभेदैः किलासंगृहीतत्वाद् व्यञ्जनावग्रहचतुष्टयापगमं कृत्वाऽश्रुतनिश्रित बद्धिचतष्यं मतान्तरवादिभिः प्रक्षिप्यते एतच्चाऽयुक्तम् , यतः 'सोइंदियाइभेएण' इत्यादिनाऽवग्रहादीनामेवाऽष्टाविंशतिर्भेदाः मोक्ताः अवग्रहादयश्च बुद्धिचतुष्टयेऽपि सन्ति, अतोऽवग्रहादिभणनद्वारेण तदप्यथुतनिश्रितं बुद्धिचतुष्टयमेतेष्वष्टाविंशतिभेदेष संग्रहीत. इति किमिति तैः पुनरपि प्रक्षिप्यते ॥ इति गाथार्थः ॥ ३०३ ॥
तत्रैतत् स्यात् मष्टव्यं परस्य- 'कथमौत्पत्तिक्यादिबुद्धिचतुष्टयेऽवग्रहादयः संभवन्ति ? । तदत्र यथा ते भवन्ति, तथा दर्शकिह पडिकुक्कुडहीणो जुझे बिंबेण वग्गहो, ईहा । किं सुसिलिट्ठमवाओ दप्पणसंकंतबिंब ति ॥ ३० ॥ इह किर्लोऽऽगमे
भैरह-सिल-मिढे-कुक्कुड-तिल-वालुय-हत्थि-अगड-वणसंडे । पायस-अइआ-पत्ते खाडहिला पश्च पियरो य" ॥१॥ याटिनोत्पत्तिक्यादिबदीनां बहन्यदाहरणान्युक्तानि, तन्मध्याच्छेषोपलक्षणार्थ कर्कटोदाहरणमाश्रिन्यौपत्तियां भाव्यन्ते-राज्ञा नटकुमारकस्य भरतस्य किल बुद्धिपरीक्षणार्थमादिष्टं यदुत- अयं मदीयकुर्कुटो द्वितीयकुकुंटमन्तरेणैकैक एव योधनीयः। ततस्तेन जिज्ञासितं मनसि कथमयं प्रतिकुकुंटहीनःप्रतिपक्षभूतद्वितीयकुकुंटवर्जितो युध्येत । एतच जिज्ञासमानस्य तस्य अगित्येव स्फरित चेतसि । किम् ?, इत्याह-बिम्बेनेति आत्मीयेन प्रतिबिम्बेन पुरो वीक्षितेन दध्मातत्वादयं युध्यत इत्यवगृहीतमित्यर्थः। एतच्च किम्?, इत्याह- अवग्रहसामान्य नव बिम्बमात्रावग्रहणादवग्रहो मतिप्रथमभेद इत्यर्थः । ईहा तर्हि का, इत्याह- 'ईहा किं ससिलिदामिति प्रनस्तत प्रतिबिम्बमस्य योधनाय सुश्लिष्टं सुष्टु युज्यमानकं भवेत्- किं तडागपयःपूरादिगतम्, आहोखिद् दर्पणगतम, इत्यादि. विम्बविशेषान्वेषणमीहेत्यर्थः। अपायमुपदर्शयति- 'अदाओ दप्पणसंकंतबिंब ति' कल्लोलादिभिः प्रतिक्षणमपनीयमानत्वात, अस्पष्टत्वा चजलादिगतबिम्बमिह न युक्तम् । ततः स्थिरत्वेन, स्पष्टादित्वेन च चरणाऽऽघातादिविषयत्वाद् दर्पणसंक्रान्तमेव तदत्र युज्यते. इत्येवं बिम्बविशेषनिश्चयोऽपाय इत्यर्थः। एवमन्येष्वपि बुद्ध्युदाहरणेष्ववग्रहादयो भावनीयाः। तस्माद् बुद्धिचतुष्टयेऽप्येषां सद्भावाच्छत
१गाथा ३००। २ कथं प्रतिकुर्कुटहीनो युध्येत बिम्बेनाऽवग्रहः, ईहा । किं सुश्लिष्टमपायो दर्पणसंक्रान्तबिम्बामिति ॥ ३० ॥३घ. 'कह'। ४ श्रीनन्दीसने।
५ भरत-शिला-मे-कुर्कुट-तिल-वालुका-हस्ति-अवट-वनखण्डानि । पायसा-ऽऽगमन-पत्राणि तरुमर्कटिका ('खीसकोली' इति भाषायाम्) पञ्च पितरश्च ॥३॥६. 'ति' निश्रितमतिज्ञानसंबन्धिष्ववग्रहादिगताऽष्टाविंशतिभेदेष्ववग्रहादिसाम्येन. बुद्धिचतुष्टयस्याऽन्तर्भावो भावनीयः । ततो न युक्तं व्या नावग्रहचतुष्टयाऽपगमेन पुनर्बुद्धिचतुष्टयप्रक्षेपणम्, इति स्थितम् ॥ इति गाथार्थः ॥ ३०४॥
आह-ननु यद्यवग्रहादिसाम्येनाऽश्रुतनिश्रितं श्रुतनिश्रिताऽवग्रहादिष्वन्तर्भवति, तर्हि "आभिणिबोहियनाणं दुविहं पत्र, जहा- सुयनिस्सियं, अस्सुयनिस्सियं च" इत्येवमोगमे यः श्रुतनिश्रितादश्रुतनिश्रितस्य भेद उक्तः, स विशीर्यत एव, इत्याशक्याह
जह उग्गहाइसामण्णउ वि सोइंदियाइणा भेओ । तह उग्गहाइसामण्णओ वि तमणिस्सिया भिन्नं ॥३०॥
यथेहाऽवग्रहादीनामवग्रहादिसामान्ये सत्यपि, अवग्रहादित्वे तुल्येऽपि सतीत्यर्थः। किम् ?, इत्याह- श्रोत्रेन्द्रियादिना भेदः, तथाहि एके श्रोत्रेन्द्रियसंबन्धिनोऽवग्रहादयः, यावदन्ये स्पर्शनेन्द्रियसंबन्धिनः, अपरे तु मनःसंबन्धिनः; तथा तेनैव प्रकारेणावग्रहादिसामान सत्यपि तदश्रुतनिश्रितं भिन्न, 'श्रुतनिश्रितात्' इति शेषः। कस्माद्धेतोर्भिन्नम् , इत्याह- 'अणिस्सिय त्ति' भावप्रधानोऽयं निर्देश अनिश्रितत्वात-श्रुतानिश्रितत्वादित्यर्थः। एतदुक्तं भवति- अष्टाविंशतिभेदविचारप्रक्रमेऽवग्रहादिमत्वं सामान्यं धर्ममाश्रित्याऽश्रुत श्रितस्य श्रुतनिश्रित एवाऽन्तर्भावो विवक्ष्यते, श्रुता-ऽश्रुतनिश्रितविचारप्रस्तावे त्वश्रुतनिश्रितत्वं विशिष्टं धर्ममुररीकृत्य श्रुत निश्रितादश्रुतनिश्रितं पृथगेवेष्यते, इत्यागमोक्तस्तयोर्भेदोऽपि न किश्चिद् विशीर्यते । न च वक्तव्यम्- कथमेकस्यैवैकस्मादेव भेदश्चा दश्च, विरोधात् ? इति यतो यदि तेनैव धर्मेण भेदः, अभेदश्वेष्येत, स्यात् तदा विरोधः, धर्मान्तरनिवन्धनौ तु भेदा-ऽभेदौ न विरुष्ट ते । किं हि नाम तद् वस्त्वस्ति, यस्य वस्त्वन्तराद् भेदा-ऽभेदौ न स्तः । । घटादयोऽपि हि घटादित्वसामान्येन परस्परमभेदिनोऽ खद्रव्य-क्षेत्र-कालादिमत्त्वेन भिन्ना इति । अत्र बहु वक्तव्यम् , तत्तु नोच्यते, ग्रन्थगहनताप्रसङ्गात् , अनेकान्तजयपताकादिषु विस्त णोक्तत्वाच ॥ इति गाथार्थः ॥ ३०५॥
स्यादेतत् , किमेतावता कष्टेन ?, मदीयव्याख्यापक्ष एव सुखावहः, श्रुता-ऽश्रुतनिश्रितयोरभेदापत्तेरभावात् , समस्तमतिज्ञा भेदभणनाचेति । तदेतदयुक्तम् , सिद्धान्ताभिप्रायबहिर्भूतत्वात् । एतदेवोपसंहारपूर्वकमाह
अट्ठावीसइभेयं सुयनिस्सियमेव केवलं तम्हा । जम्हा तम्मि समत्ते पुणरस्सुयनिस्सियं भूणियं ॥ ३०६ ॥ १५. 'सामाम्येन' २ आभिनिबोधिकज्ञानं द्विविधं प्रज्ञप्तम् , तद्यथा-श्रुतनिश्रितम् , अश्रुतनिश्रितं च । ३ श्रीनन्दीसूत्रे। - यथाऽवग्रहादिसामान्यतोऽपि श्रोत्रेन्द्रियादिना भेदः । तथाऽवग्रहादिसामान्यतोऽपि तदनश्रिता(तत्वा) भिन्नम् ॥३०५॥ ५ घ.छ.ज.'तद्यथा'। (क.ग. 'श्रुतनिश्रिता'। . भष्टाविंशतिभेदं श्रुतनिश्रितमेव केवलं तस्मात् । यस्मात् तस्मिन् समाप्ते पुनरभुतनिशितं भणितम् ॥३.६॥
For Private and Personal Use Only