________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
89
Acharya Shri Kailassagarsuri Gyanmandir
विशेषा ०
नानां युगपदुत्पादायोगात् तथाहि मनसा सह संयुक्तमेवेन्द्रियं स्वविषयज्ञानमुत्पादयति, नान्यथा, अन्यमनस्कस्य रूपादिज्ञानानुपलम्भात् । न च सर्वेन्द्रियैः सह मनो युगपत् संयुज्यते, तस्यैकोपयोगरूपत्वात्, एकत्र ज्ञातरि एककालेऽनेकै संयुज्यमानत्वायोगात् । तस्माद् मनसोऽत्यन्ताऽऽशुसंचारित्वेन कालभेदस्य दुर्लक्षत्वाद् युगपत् सर्वेन्द्रियविषयोपलब्धिरस्य प्रतिभाति । परमातस्त्वस्यामपि कालभेदोऽस्त्येव । ततो यथाऽसौ भ्रान्तैनोपलक्ष्यते, तथाऽवग्रहादिकालेऽपीति प्रकृतम् । दीर्घत्वविशेषणं च कुलिकाया गाथायामनुक्तमप्युपलक्षणत्वाद् विहितमिति परिभावनीयम् । तदेवमवग्रहादीनां नैकादिवैकल्यम्, नाऽप्युत्क्रमातिक्रम, इति स्थितम् ॥ इति गाथार्थः ॥ २९९ ॥
'हो हवाओ य' इत्यादिगाथायाम् 'आभिनिवोधिकज्ञानस्य चत्वारि भेदवस्तूनि समासतः' इत्युक्तम्, तत् किं व्यासतो बहुभेदमप्याभिनिबोधिकज्ञानं भवति १, इत्याशङ्क्य तद्भेदबहुविधत्वदर्शनात् 'समासेन' इति विशेषणस्य सफलत्वमाह -
सोदियाइएण छन्हा वग्गहादओऽभिहिआ । ते होंति चउव्वीसं चउव्विहं वंजणोग्गहणं ॥ ३०० ॥ अट्ठावीसभेयं एवं सुयनिस्सियं समासेणं । केइ त्तु वंजणोग्गहवज्जे च्छोढूणमेयमि ॥ ३०१ ॥ अस्सुयनिस्सियमेवं अट्ठावीसइविहं ति भाति । जमवग्गहो दुभेओऽवग्गहसामण्णओ गहिओ ॥ २०२॥
श्रोत्रेन्द्रियादीनां पञ्चानामिन्द्रियाणां मनःषष्ठानां यो भेदस्तेनाऽवग्रहादयः प्रत्येकं षद्विधाश्चत्वारोऽप्यभिहिताः । ततस्तैः " षद्भिश्चत्वारो गुणिताश्चतुर्विंशतिर्भवन्ति । अन्यच्च स्पर्शन-रसन-प्राण-श्रोत्रेन्द्रियचतुष्टयभेदातुं व्यञ्जनावग्रहणं व्यञ्जनावग्रहश्रतुर्विधो भवति । एवमेतच्छ्रुतनिश्रितमाभिनिवोधिकज्ञानं सर्वमप्यष्टाविंशतिविधं संपद्यते । एतदपि भेदाभिधानं वक्ष्यमाणवहुतरभेदकलापापेक्षयाऽद्यापि समासेन संक्षेपेण द्रष्टव्यम् ॥
१ ग. ज. 'स्य स्वरू' । २ ज 'कैः सह यु' । ३ गाथा १७८ । + से 1
४ श्रोत्रेन्द्रियादिभेदेन षड्विधा भवग्रहादयोऽभिहिताः । ते भवन्ति चतुर्विंशतिश्चतुर्विधं व्यञ्जनावग्रहणम् ॥ ३०० ॥ अष्टाविंशतिभेदमेतत् श्रुतनिश्रितं उमासेन । केचित्तु व्यअनावग्रहवजें क्षिप्यैतस्मिन् ॥ ३०१ ॥
श्रुतनिश्रितमेवमष्टाविंशतिविधमिति भाषन्ते । यदवग्रहो द्विभेदोऽवग्रहसामान्यतो ग्रहीतः ॥ ३०२ ॥ ५. घ.छ.ज. 'श्रवणेन्द्रि' ।
अन्ये स्वेतानष्टाविंशतिभेदानन्यथा पूरयन्ति, तन्मतमुपदर्शयति- 'केइ चित्यादि' केचित् पुनराचार्या एतस्मिन्नेव श्रुतनिश्रिते मतिज्ञानभेदसमुदाये व्यञ्जनावग्रहभेदचतुष्टयवर्जे “ उप्पत्तिया, वेणईया, कम्पिया, पारिणामिया " इत्यादिनाऽन्यत्र, प्रागत्रापि च प्रतिपादित स्वरूपम श्रुतनिश्रितमौत्पत्तिक्यादि बुद्धिचतुष्टयं क्षिप्त्वा मीलयित्वा, एवमष्टाविंशतिविधं सर्वमपि पतिज्ञानमिति भाषन्ते । अयं हि तेषामभिप्रायः- मतिज्ञानस्य संपूर्णस्येह भेदाः प्रतिपादयितुं प्रक्रान्ताः, यदि चाऽश्रुतनिश्रितं बुद्धिचतुष्टयं न गण्यते तदा श्रुतनिश्रितरूपस्य मतिज्ञानदेशस्यैवैतेऽष्टाविंशतिभेदाः प्रोक्ता भवन्ति, न तु सर्वस्यापि यदा तुक्कन्यायेन श्रुतनिश्रितम्, अश्रुतनिश्रितं च मील्यते तदा सर्वस्याऽपि तस्य भेदाः सिद्धा भवन्ति । ननु साधूक्तं तैः केवलमेवं सति व्यञ्जनावग्रहचतुष्टयं क क्रियताम् १, न ह्येतदपि विक्रीयमाणं खलखण्डमात्रेण क्रीतम्, किन्त्विदमपि मतिज्ञानान्तर्गतमेव । ततोऽस्माद् निष्काश्यमानं वराकमिदं कावस्थिति बनातु ?, इत्याशङ्क्याह- 'जमवग्गहो इत्यादि' यद् यस्माद् व्यञ्जना -ऽर्थावग्रहभेदतो योऽयमवग्रहो द्विभेदः प्रागुक्तः सोऽवग्रहसामान्येन गृहीतोऽवग्रह सामान्येऽन्तर्भावितः भवति च विशेषाणां सामान्येऽन्तर्भावः, यथा सेनायां गजादीनाम्, वनादौ च धव-खदिरादीनाम् । अतोऽवग्रहस्य सामान्यरूपतयैकत्वादवग्रहे- हा ऽपाय- धारणानामिन्द्रियमनोभेदेन प्रत्येकं पद्विधत्वाच्छ्रुतनिश्रितमतिज्ञानस्य चतुर्विंशतिरेवं भेदाः, अश्रुतनिश्रितस्य तु बुद्धिचतुष्टयलक्षणाश्चत्वारः, इत्येवं सर्वे मतिज्ञानमष्टाविंशतिभेदं सिध्यति । इति कोषांचिद् मतम् ।। इति गाथात्रयार्थः ॥ ३०० ॥ ३०१ ॥ ३०२ ॥
एतच्च तन्मतमयुक्तम् । कुतः १, इत्याह
चैवइरित्ताभावा जम्हा न तमोग्गहाईओ । भिन्नं तेणोग्गहाइसामण्णओ तैयं तग्गयं चेत्र ॥ ३०३ ॥
चतुर्थोऽवग्रहे-हा-पाय-धारणावस्तुभ्यो व्यतिरिक्तं चतुर्व्यतिरिक्तं तस्य चतुर्व्यतिरिक्तस्याश्रुतनिश्रितस्याभावात् कारणाद् यस्माद् यतो न तदश्रुतनिश्रितमवग्रहादिभ्यो भिन्नम् । ततः किम् १, इत्याह- तेन कारणेनावग्रहादिसामान्यादवग्रहादिसामान्यमाश्रित्य 'तयं तग्गयं चैव त्ति' तेष्ववग्रहादिसंवन्धिष्वष्टाविंशतिभेदेष्वन्तर्गतं प्रविष्टमन्तर्भूतं तदन्तर्गतमेवाऽश्रुतनिश्रितं बुद्धिचतुष्टयम् । अतः किमिति व्यञ्जनावग्रहचतुष्टयं पातयित्वाऽश्रुतनिश्रितं बुद्धिचतुष्टयं पुनरपि प्रक्षिप्यते ?, इत्यभिप्रायः । इदमुक्तं भवति - 'सोइंदियाइएण छबिहा
१. छ. ज. 'दये' । २ औत्पत्तिकी, वैनयिकी, कार्मिकी, पारिणामिकी । ३ नन्यध्ययन सूत्रे ।
४ चतुर्व्यतिरिक्ताभावाद् यस्माद् न तदवग्रहादयः । भिन्नं तेनाऽवग्रहादिसामान्यतस्तद् सद्गतमेव ॥ ३०३ ॥ ५ क.ग. 'य तं त' घ. 'गयं त' ६ गाथा ३०० १
For Private and Personal Use Only