________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
88
Acharya Shri Kailassagarsuri Gyanmandir
विशेषा०
तदेवं निराकृत युक्तमुत्क्रमाऽतिक्रमौ । अथ यदुक्तम्- 'एगाभावे वि वा न वत्थुस्स जं सम्भावाहिगमो तो सच्चे' सि, तत्रापीयमेव युक्तिरिति दर्शयन्नाह -
ऐतो चि ते सव्वे भवंति भिन्ना य णेत्र समकालं । न वइक्कमो य तेसिं न अन्ना नेयसम्भावो ॥ २९७/
,
यत एव 'नागृहीतमीह्यते' इत्याद्युक्तम्, एतस्मादेव च तेऽवग्रहादयः सर्वे चत्वारोऽप्येष्टव्या भवन्ति, उक्तन्यायाद् नैकवैकल्येऽपि मतिज्ञानं संपद्यत इत्यर्थः । 'पूर्वमवगृहीतमीह्यते' इत्याद्युक्तेरेव च ते भिन्नाः- परस्परमसंकीर्णाः, उत्तरोत्तराऽपूर्वभिन्नवस्तुपर्याथग्रहणादिति । 'नागृहीतमीह्यते' इत्याद्युक्तेरेव च न ते समकालं, भिन्नाः सिद्धास्तेऽवग्रहादयः समकालमपि नैव भवन्ति, युगपकन जायन्त इत्यर्थः, 'पूर्वमवगृहीतमेवोत्तरकालमीह्यते, ईहोत्तरकालमेव च निश्चीयते' इत्याद्युक्तन्यायेनैवाऽवग्रहादीनामुत्पत्तिकालस्य नित्वाद् न युगपत् संभव इति भावः । उक्तयुक्तेरेव च तेषां न व्यतिक्रमः, उपलक्षणत्वाद् 'नाऽप्युत्क्रमः' इत्यपि द्रष्टव्यम् । एतच्च " तेण कमीऽवग्गहाई उ' इत्यनन्तरगाथाचरमपादेन सामर्थ्यादुक्तमपि प्रस्तावात् पुनरपि साक्षादुक्तम् इत्यदोषः । तदेवं ' 'ईहिज्जइ नागहियं ' इत्यादियुक्तेर्यथोक्तधर्मका एवाऽवग्रहादयः, न विपर्ययधर्माण इति साधितम् । अथ ज्ञेयवशेनाऽप्येषां यथोक्तधर्मकत्वं सिसाधयिषुरिदमाह - 'न अन्ना नेयसन्भावो त्ति' ज्ञेयस्याऽप्यवग्रहादि ग्राह्यस्य शब्द रूपादेर्नान्यथा स्वभावोऽस्ति, येनाऽवग्रहादयस्तद्ग्राहका यथोतरूपतां परित्यज्याऽन्यथा भवेयुरित्यर्थः । इदमुक्तं भवति - ज्ञेयस्याऽपि शब्दादेः स स्वभावो नास्ति, य एतैरवग्रहादिभिरेकादिविकलैरभिन्नैः, समकालभाविभिः, उत्क्रमाऽतिक्रमवद्भिश्चाऽवगम्येत; किन्तु शब्दादिज्ञेयस्वभावोऽपि तथैव व्यवस्थितो यथाऽमीभिः सर्वैर्भिन्नैः, असमकालैः, उत्क्रमाऽतिक्रमरहितैश्च संपूर्णो यथावस्थितश्चाऽवगम्यते, अतो ज्ञेयवशेनाऽप्येते यथोक्तरूपा एव भवन्ति । तदेवं ' Gaunsahar गाभावे वि वा' इत्यादिगाथोक्तं प्रसङ्गतोऽन्यदपि भिन्नत्वम्, असमकालत्वं च समर्थितम् ।। इति गाथार्थः ।। २९७ ॥
अत्र परः प्राह
foresara far कत्थइ लक्खिज्जई इमो पुरिसो । अन्नत्थ धारण च्चिय पुरोवलडे इमं तं ति ॥ २९८ ॥
स्वभ्यस्तेऽनवरतं दृष्टपूर्वे, विकल्पिते, भाषिते च विषये पुनः कचित् कदाचिदवलोकितेऽवग्रहे- हाद्वयमतिक्रम्य प्रथमतो
१ गाथा २९५ । २ एतस्मादेव ते सर्वे भवन्ति भिन्नाश्च नैव समकालम् । न व्यतिक्रमश्च तेषां नाऽन्यथा ज्ञेयसीवः ॥ २९७ ॥ ३क. ग. घ. छ. 'नाइट' । ४ गाथा २९६ । ५ अभ्यस्तेऽपाय एव कचिल्लक्ष्यतेऽसौ पुरुषः । अन्यत्र धारणैव पुरोपलब्धे इदं तदिति ॥ २९८ ॥
stoपाय एव लक्ष्यतेऽनुभूयते निर्विवादमशेषैरपि जन्तुभिः, यथा 'असौ पुरुषः' इति । अन्यत्र पुनः कचित् पूर्वोपलब्धे सुनिश्चिते दृढवासने विषयेऽवग्रहे-हा-पायानतिलक्ष्य स्मृतिरूपा धारणैव लक्ष्यते, यथा 'इदं तद् वस्तु यदस्माभिः पूर्वमुपलब्धम्' इति । तत् कथमुच्यते- उत्क्रमा -ऽतिक्रमाभ्याम्, एकादिवैकल्ये च न वस्तुसद्भावाधिगमः १ - इदं च कथमभिधीयते - 'इहिज्जइ नागहिये' इत्यादि । इति प्रेरकाऽभिप्रायः । इति गाथार्थः ॥ २९८ ॥
भ्रान्तोऽयमनुभव इति दर्शयन्नाह -
उप्पलदलस्यवेहे व्व दुव्विभावत्तणेण पडिहाइ । समयं व सुक्कसक्कु लिदसणे विसयाणमुवलद्धी ॥ २९९॥
'चित् प्रथममेवाsपायः कचित्तु धारणैव' इति यत् त्वया प्रेर्यते, तत् 'प्रतिभाति' इत्यनन्तरगाथोक्तेन संबन्धः । केनैतत् प्रतिभाति १, इत्याह- दुःखेन विभाव्यते दुर्विभावो दुर्लक्षैस्तद्भावस्तत्त्वं तेन दुविर्भावत्वेन दुर्लक्षैत्वेन 'अवग्रहादिकालस्य' इति गम्यते । कस्मिन्निव ९, इत्याह- उत्पलं पद्मं तस्य दलानि पत्राणि तेषां शतं तस्य सूच्यादिना वेधनं वेधस्तस्मिन्निव । इदमुक्तं भवति - यथा तरुणः समर्थपुरुषः पद्मपत्रशतस्य सूच्यादिना वेधं कुर्वाण एवं मन्यते - मयैतानि युगपद् विद्धानि, अथ च प्रतिपत्रं तानि कालभेदेनैव भिद्यन्ते, न चासौ तं कालमतिसौक्ष्म्याद् भेदेनावबुध्यते, एवमत्राऽप्यवग्रहादिकालस्याऽतिसूक्ष्मतया दुर्विभावनीयत्वेनाऽप्रतिभासः, न पुनरसत्त्वेन, ईहादयो धन्यत्र कचित् तावत् स्फुटमेवाऽनुभूयन्ते, यत्राऽपि स्वसंवेदनेन नाऽनुभूयन्ते, तत्राऽपि " इहिज्जइ नागहियं नज्जइ . नाणीहियं' इत्यादि प्रागसकृदभिहितयुक्तिकला पादवसेयाः । तस्मादुत्पलदलशतवेधोदाहरणेन भ्रान्त एवाऽयं प्रथमत एवाऽपायादिप्रतिभासः । अथोदाहरणान्तरेणाऽप्यस्य भ्रान्ततामुपदर्शयति- 'समयं वेत्यादि' 'वा' इत्यथवा, यथा शुष्कशष्कुलीदशने समयं युगपदेवं सर्वेन्द्रियविषयाणां शब्द-रूप-रस- गन्ध-स्पर्शानामुपलब्धिः प्रतिभाति, तथैषोऽपि प्राथम्येनाऽपायादिप्रतिभासः । एतदुक्तं भवति - यथा कस्यचिच्छुष्कां दीर्घा शष्कुलिकां भक्षयतः तच्छन्दोत्थानाच्छन्द विज्ञानमुपजायते, अत एव शुष्कत्वविशेषणम्, मृड्यातस्यां शब्दानुत्थानादिति । शब्दश्रवणसमकालमेव च दीर्घत्वात् तस्या दृष्ट्या तद्रूपदर्शनं चाऽयमनुभवति, अत एव च दीर्घत्वविशेषणम्, अंतिह्रस्वत्वे मुखप्रविष्टायांस्तस्याः शब्दश्रवणसमकालं रूपदर्शनानुभवाभावादिति । रूपदर्शनसमकालं च तद्गन्धज्ञानमनुभवति, अत एव शष्कुलीग्रहणं, गन्धोत्कटत्वात् तस्याः, इक्षुखण्डादिषु तु दीर्घेष्वपि तथाविधगन्धाभावादिति । गन्धादिज्ञानसमकालं च तद्रस-स्पर्शज्ञाने अनुभवति । तदेवं पश्चानामपीन्द्रियविषयाणामुपलब्धिर्युगपदेवाऽस्य प्रतिभाति । न चेयं सत्या, इन्द्रियज्ञा+ लक्ष्य - 1 १ गाथा २९६ । २ उत्पलदलशतवेध इन दुर्विभावत्वेन प्रतिभाति । समयं वा शुष्कशष्कुलीदशने विषमाणामुपलब्धिः ॥ २९९ ॥
For Private and Personal Use Only