________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
87
विशेषा०
सादिर्विषयो येषामहादीनां तानि समानरूपादिविषयाणीति पूर्वगाथायां संबन्धः । कः पुनरमीषां समानधर्मा रूपादिविषयः १, त्याह- स्थाणु-पुरुषादिवदिति पर्यन्ते निर्दिष्टोऽपि विषयोपदर्शनाभिद्योतको बच्छन्दः सर्वत्र योज्यते । ततश्चक्षुरिन्द्रियमभवस्येहादेः थाणु-पुरुषादिवत् समानधर्मा रूपविषयो द्रष्टव्यः ; आदिशब्दात् 'किमियं शुक्तिका, रजतखण्डं वा ?' 'मृगतृष्णिका, पयःपूरो वा ?" रज्जुः, विषधरो वा १' इत्यादिपरिग्रहः । घ्राणेन्द्रियमभवस्येहादेः कुष्ठो- त्पलादिवत् समानगन्धो विषयः, तत्र कुष्ठं गन्धिकहट्ट विक्रेयो [स्तुविशेषः, उत्पलं पद्मम् ; अनयोः किल समानो गन्धो भवति । तत ईदृशेन गन्धेन 'किमिदं कुछम्, उत्पलं वा १' इत्येवमहामवृत्तिः, प्रादिशब्दात् 'किमत्र सप्तच्छदाः, मत्तकारिणो वा ?' 'कस्तूरिका, वनगजमदो वा ?" इत्यादिपरिग्रहः । रसनेन्द्रियप्रभवस्येहादेः भृतकरील-यांसादिवत् समानरसो विषयः । तत्र संभृतानि संस्कृतानि संधानीकृतान्युद्घृतानि यानि वंशजालिसंबन्धीनि करीलानि, तथा मांसम्, अनयोः किलाssस्वादः समानो भवति । ततोऽन्धकारादावन्यतरस्मिन जिह्वाग्रप्रदत्ते भवत्येवम्- 'किमिदं संभृतवंश - करीलम्,आमिषं वा ?” इति ; आदिशब्दाद् 'गुडः, खण्डं वा ?" 'मृद्वीका, शुष्कराजादनं वा ?" इत्यादिपरिग्रहः । स्पर्शनेन्द्रियग्भवस्येहादेः सर्पो-त्पलनालादिवत् समानस्पर्शो विषयः, सर्पोत्पलनालयोश्च तुल्यस्पर्शत्वेनेहाप्रवृत्तिः सुगमैव, आदिशब्दात् स्त्री-पुरुषलेष्ट्र-पलादिसमानस्पर्श वस्तुपरिग्रहः ॥ इति गाथार्थः ॥ २९३ ॥
अथ यदुकं सूत्रे - "" से जहानामए केइ पुरिसे अव्वत्तं सुमिणं पासेज्जा" इत्यादि, तदनुसृत्य स्वमे मनसोऽप्यवग्रहादीन् दर्शयन्नाह -
एवं चि सुमिणा
Acharya Shri Kailassagarsuri Gyanmandir
मणसो सद्दाइएस विसएसु । होंतिंदियवावाराभावे वि अवग्गहाईया ॥ २९४ ॥
एवमेवोक्तानुसारेणेन्द्रियव्यापाराभावेऽपि स्वमादिषु, आदिशब्दाद् दत्तकपाट-सान्धकाराऽपवरकादीनीन्द्रियव्यापाराभाववन्ति स्थानानि गृह्यन्ते तेषु केवलस्यैव मनसो मन्यमानेषु शब्दादिविषयेष्ववग्रहादयोऽवग्रहे- हा उपाय - धारणा भवन्तीति स्वयमभ्यूयाः, तथाहि - स्वमादौ चित्तोत्प्रेक्षामात्रेण श्रूयमाणे गीतादिशब्दे प्रथमं सामान्यमात्रोत्प्रेक्षायामवग्रहः, 'किमयं शब्दः, अशब्दो वा?" इत्यायुत्प्रेक्षायां त्वीहा, शब्दनिश्वये पुनरपायः, तदनन्तरं तु धारणा । एवं देवतादिरूपे, कर्पूरादिगन्धे, मोदकादिरसे, कामिनी कुचकलशादिस्पर्शे चोत्प्रेक्ष्यमाणेऽवग्रहादयो मनसः केवलस्य भावनीयाः ॥ इति गाथार्थः ॥ २९४ ॥
१ ज. 'न्युत्थिता' । २ तद्यथानामा कश्चित् पुरुषोऽव्यक्तं स्वमं पश्येत् ।
३ एवमेव स्वप्नादिषु मनसः शब्दादिषु विषयेषु । भवन्तीन्द्रियव्यापाराभावेऽप्यवमहादयः ॥ २९४ ॥
आह- नन्वेवेऽवग्रहादय उत्क्रमेण, व्यतिक्रमेण वा किमिति न भवन्ति, यद्वा, ईहादयस्त्रयः, द्वौ, एको वा किं नाऽभ्युपगम्यन्ते, यावत् सर्वेऽप्यभ्युपगम्यन्ते १, इत्याशङ्कयाह
tearssaमओ गाभावे वि वा न वत्थुस्स । जं सब्भावाहिगमो, तो सव्वे नियमियकमा य ॥ २९५ ॥ एषामवग्रहादीनामुत्क्रमेणोत्क्रमतः, अतिक्रमेणाऽतिक्रमतः, अपिशब्दस्य भिन्नक्रमत्वादेकस्याऽप्यभावे वा यस्माद् न वस्तुनः सद्भावाऽधिगमः, तस्मात् सर्वे चत्वारोऽप्येष्टव्याः, तथा नियमितक्रमाश्च सूत्रनिर्दिष्टपरिपाटयन्विताच 'भवन्त्येवेऽवग्रहादयः' इति प्रक्रमाल्लभ्यते ॥ इत्यक्षरयोजना ||
f
भावार्थस्तूच्यते - तत्र पश्चानुपूर्वीभवनमुत्क्रमः, अनानुपूर्वीभवनं त्वतिक्रमः कदाचिदवग्रहमतिक्रम्येहा, तामप्यतिलयाsपायः, तमप्यतिदृत्य धारणेति, एवमनानुपूर्वरूपोऽतिक्रम इत्यर्थः । एताभ्यामुत्क्रम-व्यतिक्रमाभ्यां तावदवग्रहादिभिर्वस्तुस्वरूपं नावगम्यते । तथा, एषां मध्ये एकस्याऽप्यन्यतरस्याऽभावे वैकल्येन वस्तुस्वभावावबोध इत्यसकृदुक्तप्रायमेव । ततः सर्वेऽप्यमी एष्टव्याः, न त्वेकः, द्वौ त्रयो वेत्यर्थः । तथा ' उग्गेहो ईह अवाओ य धारणा एव होंति चत्तारि ' इत्यस्यां गाथायां यथैवकारेण पूर्वमेतेषां नियमितः क्रमः, तथैवैते नियमितक्रमा भवन्ति, नोत्क्रमाऽतिक्रमाभ्यामिति भावः ॥ इति गाथार्थः ॥ २९५ ॥
अथोत्क्रमा-तिक्रमयोः, एकादिवैकल्ये चावग्रहादीनां वस्त्वधिगमाभावे युक्तिमाह
# हिज्जइ नाऽगहियं नज्जइ नाणीहियं न याऽनायं । धारिज्जइ जं वत्युं तेण कमोऽवग्गहाई उ ॥ २९६ ॥ यस्मादवग्रहेणाऽगृहीतं वस्तु नेह्यते- न तत्रेहा प्रवर्तते, ईहाया विचाररूपत्वात्, अगृहीते च वस्तुनि निरास्पदत्वेन विचारायो - गादिति भावः । तदनेन कारणेनाऽऽदाववग्रहं निर्दिश्य पश्चादीहा निर्दिष्टा । न चानीहितमविचारितं ज्ञायते - अपायविषयतां याति, अपायस्य निश्चयरूपत्वात्, निश्चयस्य च विचारपूर्वकत्वादिति हृदयम् । एतदभिप्रायवता चाऽपायस्याऽऽदावीहा निर्दिष्टेति । न चाज्ञातम् - अपायेनाऽनिश्चितं धार्यते धारणाविषयीभवति, वस्तुधारणाया अर्थावधारणरूपत्वात्, अवधारणस्य च निश्वयमन्तरेणाऽयोगादित्यभिप्रायः । ततश्च धारणादावपायः । ततः किम् १, इत्याह- तेनाऽवग्रहादिरेव क्रमो न्याय्यः, नोत्क्रमा -ऽतिक्रमौ यथोक्तन्यायेन वस्त्वैवगमाभावप्रसङ्गात् ।। इति गाथार्थः ॥ २९६ ॥
१] उत्क्रमतोऽतिक्रमत एकाभावेऽपि वा न वस्तुनः । यत् स्वभावाधिगमः, ततः सर्वे नियमितक्रमाच ॥ २९५ ॥ २ अवग्रह ईहाऽपायश्च धारणैव भवन्ति चत्वारि । ३ ईझते नाऽगृहीतं ज्ञायते नानीहितं न चाज्ञातम् । धार्यते यद् वस्तु तेन क्रमोऽवग्रहादिस्तु ॥ २९६ ॥ ४ क. ग. 'स्वधिग' ।
For Private and Personal Use Only