________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
विशेषा.
"अरण्यमेतत् सविताऽस्तमागतो न चाधुना संभवतीह मानवः | प्रायस्तदेतेन खगादिभाजा भाव्यं स्मरारातिसमाननाम्ना" ॥१॥ इति । एतच्च प्रागुक्तमपि मन्दमतिस्मरणार्थ पुनरप्युक्तम् ॥ इति गाथार्थः ॥२८९ ।।
अथ मतिज्ञानतृतीयभेदस्याऽपायस्य स्वरूपमाहमेहुराइगुणत्तणओ संखस्सेव त्ति जं न संगस्स । विण्णाणं सोऽवाओ अणुगम-वइरेगभावाओ ॥२९॥
'मधुर-स्निग्धादिगुणत्वात् शङ्खस्यैवाऽयं शब्दः, न शृङ्गस्य' इत्यादि यद् विशेषविज्ञानम् , सोऽपायो निश्चयज्ञानरूपः । कुतः १, इत्याह-पुरोवर्त्यर्थधर्माणामनुगमभावादस्तित्वनिश्चयसद्भावात् , तत्राविद्यमानार्थधर्माणां तु व्यतिरेकभावा नास्तित्वनिश्चयसवाद । अयं च व्यवहारार्थावग्रहानन्तरभावी अपाय उक्त, निश्चयावग्रहानन्तरभावी तु स्वयमपि द्रष्टव्यः तपथा-श्रोत्रग्राह्यत्वादिगुणतः 'शब्द एवाऽयं, न रूपादिः' इति । ईहा-ऽपायशिषयाश्च विमतिपत्तयः प्रागपि निराकृताः, इति नेहोक्ताः॥ इति गाथार्थः ॥ २९ ॥ अथ चतुर्थो मतिज्ञानभेदो धारणा, इयं चाऽविच्युति-धासना-स्मृतिभेदात् त्रिधा भवति, अतः सभेदामपि तामाह
तैयणतरं तयत्थाविच्चवणं जो य वासणाजोगो । कालंतरे य जं पुणरणुसरणं धारणा सा उ ॥ २९१ ॥
तस्मादपायादनन्तरं तदनन्तरं यत् , तदर्थादविच्यवनम्- उपयोगमाश्रित्याऽभ्रंशः, यश्च वासनाया जीवेन सह योगः संबन्धः, यच्च तस्याऽर्थस्य कालान्तरे पुनरिन्द्रियरुपलब्धस्य, अनुपलब्धस्य वा, एवमेव मनसाऽनुस्मरणं स्मृतिर्भवति, सेयं पुनस्त्रिविधाऽप्यर्थस्याऽवधारणरूपा धारणा विज्ञेया ॥ इति गाथाक्षरघटना ॥
भावार्थस्त्वयम्- अपायेन निश्चितेऽर्थे तदनन्तरं यावदद्यापि तदर्थोपयोगसातत्येन वर्तते, न तु तस्माद् निवर्तते, तावत् तदर्योपयोगादविच्युति म सा धारणायाः प्रथमभेदो भवति । ततस्तस्याऽर्थोपयोगस्य यदावरणं कर्म तस्य क्षयोपशमेन जीवो युज्यते, येन कालान्तरे इन्द्रियव्यापारादिसामग्रीवशात् पुनरपि तदर्थोपयोगः स्मृतिरूपेण समुन्मीलति । सा चेयं तदावरणक्षयोपशमरूपा वासना नाम द्वितीयस्त दो भवति । कालान्तरे च वासनावशात् तदर्थस्येन्द्रियैरुपलब्धस्य, अथवा तैरनुपलब्धस्याऽपि मनसि या स्मृतिराविर्भवति, सा तृतीयस्तद्भेद इति । एवं त्रिभेदा धारणा विज्ञेया । तुशब्दोऽवग्रहादिभ्यो विशेषद्योतनार्थः । विप्रतिपत्तयस्त्वेतद्विषया
१ क. ग. घ. छ. ज. 'रतिप्रियतमारिस' । २ मधुरादिगुणत्वतः शङ्खस्यैवेति यद् में शृङ्गस्य । विज्ञानं सोऽपायोऽनुगम-व्यतिरेकभावात् ॥ २९ ॥
३ तदनन्तरं तदाऽविच्यवनं पश्च वासनायोगः । कालान्तरे च यत् पुनरनुस्मरणं धारणा सा तु ॥ २९ ॥ ४ ज. 'तद्वास' । प्रयोग। अपि प्रागेव निराकृताः॥ इति गाथार्थः ॥ २९१॥ ___ तदेवं ""से जहानामए केइ पुरिसे अव्वत्तं सई सुणेज" इत्यादिसूत्रानुरोधेन शब्दमाश्रित्याऽवग्रहादयो भाविताः । अथ सूत्रकारेणैव यदुक्तम्- “ एवं एएणं अभिलावेणं अव्वत्तं रूवं रसं गंधं फासं " इत्यादि, तच्चेतसि निधाय भाष्यकारोऽप्यतिदेशमाह
सेसेसु वि रूवाइसु विसएसु होति रूवलक्खाई । पायं पच्चासन्नत्तणेणमीहाइवत्थूाणि ॥२९२ ॥
यथा शब्दे, एवं शेषेष्वपि रूपादिविषयेषु साक्षादनुक्तान्यपि रूपलक्षाणि कथितानुसारपसरत्मज्ञानां चतुरचेतसा सुज्ञेयानि भवन्ति । कानि', इत्याह-ईहादीन्याभिनिबोधिकज्ञानस्य भेदवस्तूनि । केन रूपलक्षाणि', इत्याह-प्रायः प्रत्यासनत्वेन चक्षुरादिना गृह्यमाणस्य स्थाण्वादेः, तत्राऽगृह्यमाणन पुरुषादिना सह पायो बहुभिर्धर्यत् प्रत्यासन्नत्वं या प्रत्यासत्तिः सादृश्यमिति यावत् , तेनेहादीनि ज्ञेयानि, न पुनरत्यन्तवैलक्षण्ये स्थाण्वादेरुष्ट्रादिना सहेत्यर्थः, इदमुक्तं भवति- अवग्रहे तावत् सामान्यमात्रग्राहकत्वाद् द्वितीयवस्त्वपेक्षाऽपि न विद्यते, ईहा पुनरुभयवस्त्ववलम्बिनी, तत्र पुरोदृश्यमानस्य वस्तुनो यत् प्रतिपक्षभूतं वस्तु तत्मायो बहुभिर्धः प्रत्यासन्नं ग्राह्यम् , न पुनरत्यन्तविलक्षणम् । पुरो हि मन्दमन्दप्रकाशे दूराद् दृश्यमाने स्थाण्यादौ 'किमयं स्थाणुः, पुरुषो वा' इत्येवमेवेहा प्रवर्तते, ऊर्ध्वस्थानारोह-परिणाहतुल्यतादिभिः प्रायो बहुभिर्धः पुरुषस्य स्थाणुमत्यासन्नत्वादिति । 'किमयं स्थाणुः, उष्ट्रो वा' इत्येवं तु न प्रवर्तते, उष्ट्रस्य स्थावपेक्षया मायोऽत्यन्तविलक्षणत्वात् । अत एव सामान्यमात्रग्राह्यवग्रहोत्रादौ न कृतः, किन्तु 'ईहादीनि' इत्येवमेवोक्तम् , उभयवस्त्ववलम्बित्वेनेहाया एव 'पायं पच्चासन्नत्तणेण' इतिविशेषणस्य सफलत्वात् । अपायस्याऽपि 'स्थाणुरेवाऽयं, न पुरुषः' इत्यादिरूपेण प्रवृत्तेः किञ्चिद् विशेषणस्य सफलत्वादादिशब्दोऽप्यविरुद्धः ॥ इति गाथार्थः ॥ ॥ २९२ ॥
इह "किं शब्दः, अशब्दो वा' इति श्रोत्रेन्द्रियस्य प्रत्यासन्नवस्तूपदर्शनं कृतमेव । अथाऽशेषचक्षुरादीन्द्रियाणां विषयभूतानि प्रत्यासन्नवस्तूनि क्रमेण प्रदर्शयति
थाणु-पुरिसाइ-कुठु-प्पलाइ-संभियकरिल्ल-मसाई । सप्पु-प्पलनालाइव समाणरूवाइविसयाई ॥ २९३ ॥ 'ईहादिवस्तूनि रूपलक्षाणि' इत्युक्तम् । कथंभूतानि सन्ति पुनस्तानि रूपलक्षाणि ?, इत्याह- समानः समानधर्मा रूप
, तद्यथानामा कश्चित् पुरुषोऽव्यक्तं शब्दं शृणुयात् । ३ एवमेतेनाऽभिलापेमाऽव्यक्तं रूपं रसं गन्धं स्पर्शम् । सूप-I ३ शेषेष्वपि रूपादिषु विषयेषु भवन्ति रूपलक्षाणि । प्रायः प्रत्यासमत्वेनेहादिवस्तूनि ॥ २९॥ ४ ग. 'लक्ष्याणि'+सप-1 ५ स्थाणु पुरुषादि-कुष्ठा-त्पलादि-संभृतकरील-मांसादि । सो-स्पलनालादिवत् समानरूपादिविषयाणि ॥ २९ ॥ पुरतो.A(अधिशेष)
For Private and Personal Use Only