________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विशेषा०
सति; अत्र हि 'शब्दः' इति विशेषविज्ञान युज्यते, सर्वग्रहणात् तदनन्तरमीहादयश्चोपपद्यन्ते, पूर्वोक्तयुक्तः । ततश्च “से' जहानामए केइ पुरिसे अव्व सई सुणेजा, तेणं सद्दे त्ति उग्गहिए, न उण जाणइ के वेस सहे, तओ ईह पविसइ, तओ अवार्य गच्छई" इत्यादि सर्व सुस्थं भवति । यद्येवम् , अयमेवाऽर्थावग्रहः कस्माद् न गृह्यते, येन सर्वोऽपि विवादः शाम्यति इति चेत् । नैवम् , 'शब्द एवाऽयम्' इत्याद्यपायरूपोऽयमर्थावग्रहः, अपायश्च सामान्यग्रहणे-हाभ्यामन्तरेण न संभवति, इत्याद्यसकृत् पूर्वमभिहितमेव । इति , प्राक्तनमेव व्याख्यानं मुख्यम् । इत्यलं विस्तरेण ।। इति गाथार्थः ॥ २८७ ॥ व्यावहारिकाऽर्थावग्रहाभ्युपगमे यो गुणस्तं सविशेषमुपदर्शयन्नाह
खिप्पे-यराइभेओपुव्वोइयदोसजालपरिहारो । जुजइ संताणेण य सामण्ण-विसेसववहारो ॥ २८८ ॥ सिमे-तरादिभेदं यत् पूर्वोदितदोषजालं तस्य परिहारो युज्यते 'अस्मिन् व्यावहारिकेऽर्थावग्रहे सति' इति प्रक्रमाद् गम्यते। इदमुक्तं भवति- एकसामयिकनैश्चयिकार्थावग्रहव्याख्यातारं प्रति माग यदुक्तम्- यद्यसावेकसामयिकः, तर्हि कथं शिम-चिरग्रहणविशेषणमस्योपपद्यते; तथा यद्यसौ सामान्यमात्रग्राहका, तर्हि बहु-बहुविधादिविशेषणोक्तं विशेषग्रहणं कयं घटते ?, तथार्थावग्रहस्य विशेषग्राहकत्वे यत् समयोपयोगबाहुल्यमुक्तम् । इत्यादिकस्य दोषजालस्य परिहारो व्यावहारिकेऽर्थावग्रहे सति युज्यते, तथाहि-नैश्वयिकावनहवादिनेदानीं शक्यमिदं वक्तुं यदुत-क्षिपे-तरादिविशेषणानि व्यावहारिकावग्रहविषयाण्येतानि,असंख्येयसमयनि इणस्य युज्यमानत्वात्, विशेषग्राहकत्वेन बहु-बहुविधादिग्रहणस्याऽपि घटमानकत्वादिति । सामण्ण-तयण्णविसेसेहा' इत्यादिना मागभिहितं समयोपयोगबाहुल्यमप्यस्मिन् निरास्पदमेव, सामान्यग्रहणे-हापूर्वकत्वेन, असंख्येयसामयिकत्वेन चैकसमयोपयोगबाहुल्यस्यात्रासंबध्यमानत्वादिति । ननु नैश्चयिकावग्रहे किं क्षिप्रे-तरादिविशेषणकलापोन घटते, येन व्यावहारिकावग्रहापेक्षामोच्यते। सत्यम, मुख्यतया व्यवहारावग्रहे एव घटते, कारणे कार्यधर्मोपचारात् पुनर्निश्चयावग्रहेऽपि युज्यते, इति प्रागप्युक्तम् , वक्ष्यते च; विशिष्टादेव हि कारणात् कार्यस्य वैशिष्टय युज्यते, अन्यथा त्रिभुवनस्याऽप्यैश्वर्यादिप्रसङ्गः, काष्ठखण्डादेरपि रत्नादिनिचयाऽवासे, इत्यलं प्रसङ्गेन । प्रकृवमुच्यतेसंतानेन च योऽसौ सामान्य-विशेषव्यवहारो लोके रूढः, सोऽपि 'व्यवहारावग्रहे सति युज्यते' इतीहापि संबध्यते । लोकेऽपि हि यो - तद्यथानामा कश्चित् पुरुषोऽव्यक्तं शब्दं शृणुयात् , तेन शब्द इत्यवगृहीतः, न पुनर्जानाति क एष शब्दा, तत ईहां प्रविशति, ततोऽपायं गच्छति ।
१ ज. 'हाऽभ्यु' ।। क्षिप्रे-तरादिभेवपूर्वोदितदोषजालपरिहारः । युज्यते संतानेन च सामान्यविशेषव्यवहारा ॥ २८ ॥ ४ गाथा २६७ ।
विशेषः सोऽप्यपेक्षया सामान्यम् , यत्सामान्यं तदप्यपेक्षया विशेष इति व्यवहियते, तथाहि- 'शब्दं एवाऽयम्' इत्येवमध्यवासितोऽ: पूर्वसामान्यापेक्षया विशेषः, 'शाङ्खोऽयम्' इत्युत्तरविशेषापेक्षया तु सामान्यम्, इत्येवं यावदन्त्यो विशेष इति प्रागप्युक्तम् । अयं चोपर्युपरिज्ञानप्रवृत्तिरूपेण संतानेन लोके रूढः सामान्य-विशेषव्यवहार औपचारिकावग्रहे सत्येव घटते, नान्यथा, तदनभ्युपगमे हि प्रथमापायानन्तरमीहाऽनुत्थानम् , उत्तरविशेषाग्रहणं चाऽभ्युपगतं भवति, उत्तरविशेषाग्रहणे च प्रथमापायव्यवसितार्थस्य
विशेषत्वमेव, न सामान्यत्वम् । इति पूर्वोक्तरूपो लोकप्रतीतः सामान्य-विशेषव्यवहारःसमुच्छिद्येत । अथ प्रथमापायानन्तरमभ्युपगम्यत । इहोत्थानम् , उत्तराविशेषग्रहणं च ; तर्हि सिद्धं तदपेक्षया प्रथमापायव्यवसितार्थस्य सामान्यत्वम्, यश्च सामान्यग्राहका, यदनन्तरं
चेहादिमवृत्तिः सोऽर्थावग्रहः, नैश्चयिकाऽऽद्यर्थावग्रहवत् , इत्युक्तमेव । इति सिद्धो व्यावहारिकार्थावग्रहः, तत्सिद्धौ च सन्तानप्रवृत्त्याऽन्त्यविशेष यावत् सिद्धः सामान्य-विशेषव्यवहारः॥ इति गाथाथेः॥ २८८ ॥
॥ इति मतिज्ञानाऽऽद्यभेदलक्षणो विभेदोऽप्यवग्रहः समाप्त इति ॥ अथ तद्वितीयभेदलक्षणामीहां व्याचिख्यासुराह- इय सामण्णग्गहणाणंतरमीहा सदत्थवीमंसा । किमिदं सद्दोऽसदो को होज व संख-संगाणं? ॥ २८९ ॥
इतिशब्द उपनदर्शने, इत्येवं मागुक्तेन प्रकारेण नैश्चयिकाऽर्थावग्रहे यत् सामान्यग्रहणं रूपाद्यव्यावृत्त्या व्यक्तवस्तुमात्रग्रहणमुक्तम्, तथा व्यवहारार्थावग्रहेऽपि यदुत्तरविशेषापेक्षया शब्दादिसामान्यग्रहणमभिहितम् । तस्मादनन्तरमीहा प्रवर्तते । कथंभूतेयम् १, इत्याह- सतस्तत्र विद्यमानस्य गृहीतार्थस्य विशेषविमर्शद्वारेण मीमांसा विचारणा । केनोल्लेखेन ?, इत्याह- किमिदं वस्तु मया गृहीतं- शब्दः, अशब्दो वा रूप-रसादिरूपः १; इदं च निश्चयार्थावग्रहाऽनन्तरभाविन्या ईहायाः खरूपमुक्तम् । अथ व्यवहारावग्रहानन्तरसंभविन्याः स्वरूपमाह-'को होज्ज वेत्यादि' वा इत्यथवा, व्यवहारावग्रहेण शब्दे गृहीत इत्थमीहा प्रवर्तते- शाङ्ख-शायोर्मध्ये कोऽयं भवेत शब्दा-शाळा शार्को वा १. इति । ननु 'किं शब्दः, अशब्दो वा इत्यादिकं संशयज्ञानमेव कथमीहा भवितुमर्हति । सत्यम्, किन्तु दिङ्मात्रमेवेदमिह दर्शितम् , परमार्थतस्तु व्यतिरेकधर्मनिराकरणपरः, अन्वयधर्मघटनमवृत्तश्चाऽपायाभिमुख एव बोध इहा द्रष्टव्या, तद्यथा
इति सामान्यग्रहणानन्तरमहा सदर्थमीमांसा । किमिदं शब्दोऽशब्दः को भवेद् का शाह-शाशाणाम् ॥ २८९ ॥४(याध्यवः)
For Private and Personal Use Only