________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
84
Acharya Shri Kailassagarsuri Gyanmandir
विशेषशा०
नैश्etestsegard | अथ च्छद्मस्थव्यवहारिभिरपि यो व्यवहियते तं व्यावहारिकमुपचरितमर्थावग्रहं दर्शयति- ' तत्ती इत्यादि' ततो नैश्वविकार्थावग्रहादनन्तरमीहितस्य वस्तुविशेषस्य योऽपायः स पुनर्भाविनीहाम्, अपायं चाऽपेक्ष्योपचरितोऽवग्रहोऽर्थावग्रह इति द्वितीयगाथायां संबन्धः | उपचारस्यैवाऽस्य निमित्तान्तरमाह- 'एस्सेत्यादि ' एष्यो भावी योऽन्यो विशेषस्तदपेक्षया येन कारणेनाऽयमपायोऽपि सन् सामान्यं गृह्णाति, यश्च सामान्यं गृह्णाति सोऽर्थावग्रहो यथा प्रथमो नैश्चयिकः । एतदिह तात्पर्यम् - प्रथमं नैश्चयिकेsर्थावग्रहे रूपादिभ्योऽव्यावृत्तमव्यक्तं शब्दादिवस्तुसामान्यं गृहीतं, ततस्तस्मिन्नीहिते सति 'शब्द एवाऽयम्' इत्यादिनिश्चयरूपोऽपायो भवति । तदनन्तरं तु 'शब्दोऽयं किं शाङ्खः, शार्गो वा' इत्यादिशब्दविशेषविषया पुनरीहा प्रवर्तिष्यते, 'शाङ्ख एवाऽयं शब्दः' इत्यादिशब्दविशेषविषयोSपायश्च यो भविष्यति तदपेक्षया 'शब्द एवाऽयम्' इति निश्चयः प्रथमोऽपायोऽपि सन्नुपचारादर्थावग्रहो भव्यते, ईहा-पायापेक्षात इति, अनेन चोपचारस्यैकं निमित्तं सुचितम् । 'शाङ्खोऽयं शब्दः, इत्याद्येष्यविशेषापेक्षया येनाऽसौ सामान्यशब्दरूपं सामान्यं गृह्णातीति, अनेन तूपचारस्यैव द्वितीयं निमित्तमावेदितम् ; तथाहि यदनन्तरमीहा पायौ प्रवर्तेते, यश्च सामान्यं गृह्णाति, सोऽर्थावग्रह:, यथाऽऽद्यो नैश्रयिकः प्रवर्तते च 'शब्द एवायम् इत्याद्यपायाऽनन्तरमीहा पायौ, गृह्णाति च ' शाङ्खोऽयं ' इत्यादिभाविविशेषापेक्षयाऽयं सामान्यम् । तस्मादर्थावग्रह एष्यविशेषापेक्षया सामान्यं गृह्णातीत्युक्तम् । ततस्तदनन्तरं किं भवति १, इत्याह तृतीयगाथायाम् - 'तत्तोऽणन्तरमित्यादि' ततः सामान्येन शब्दनिश्चयरूपात् प्रथमापायादनन्तरं 'किमर्य शब्दः शाङ्खः शार्ङ्ग वा १' इत्यादिरूपेहा मत्रतें । ततस्तद्विशेषस्य शङ्खप्रभवत्वादेः शब्दविशेषस्य ' शाङ्ख एवाऽयम्' इत्यादिरूपेणाऽपायश्च निश्चयरूपो भवति । अयमपि च भूयो - ऽन्य तद्विशेषाकाङ्क्षावतः प्रमातुर्भाविनीमीहामपायं चाऽपेक्ष्य, एग्यविशेषापेक्षया सामान्यालम्बनत्वाच्चाऽर्थावग्रह इत्युपचर्यते । इयं च सामान्य विशेषापेक्षा तावत् कर्तव्या, यावदन्त्यो वस्तुनो भेदो विशेषः । यस्माच्च विशेषात् परतो वस्तुनोऽन्ये विशेषा न संभवन्ति सोऽन्त्यः, अथवा संभवत्स्वपि अन्यविशेषेषु यतो विशेषात् परतः प्रमातुस्तज्जिज्ञासा निवर्तते सोऽन्त्यः, तमन्त्यं विशेषं यावद् व्यावहारिकार्थावग्रहे-हा-पायार्थं सामान्य- विशेषाऽपेक्षा कर्तव्या ।। इति गाथात्रयार्थः ॥ २८२ ॥ २८३ ॥ २८४ ॥
इह च गाथात्रयेऽपि यः पर्यवसितोऽर्थो भवति, तमाह
सेव्वत्थे - हा वाया निच्छयओ मोतुमाइसामण्णं । संववहारत्थं पुण सव्वत्थाऽवग्गहोऽवाओ ॥ २८५ ॥
• (तम)
१ सर्वश्रेहा-पायौ निश्चयतो मुक्त्वाऽऽदिसामान्यम् । संख्यवहारार्थं पुनः सर्वत्राऽवग्रहोऽपायः ॥ २८५ ॥ * (सू) । + (समवि) सर्वत्र विषयपरिच्छेदे कर्तव्ये निश्चयतः परमार्थत ईहा पायौ भवतः, 'ईहा, पुनरपायः, पुनरीहा, पुनरप्यपायः' इत्येवं क्रमेण यावदन्त्यो विशेषः, तावदीहा-पायावेव भवतः, नार्थावग्रह इत्यर्थः । किं सर्वत्रैवमेव १, न, इत्याह- 'मोतुमाइसामण्णं ति ' आद्यमव्यक्तं सामान्यमात्रालम्बनमेकं सामयिकं ज्ञानं मुक्त्वाऽन्यत्रेहा पायौ भवतः, इदं पुनर्नेहा, नाऽप्यपायः, किन्त्वर्थावग्रह एवेति भावः । iosहारार्थं व्यावहारिकजनप्रतीत्यपेक्षं पुनः सर्वत्र यो योऽपायः स स उत्तरोत्तरेहा-पायापेक्षया, एष्यविशेषापेक्षया चोपचारतोsuवग्रहः । एवं च तावद् नेयम्, यावत्तारतम्येनोत्तरोत्तरविशेषाकाङ्क्षा प्रवर्तते ॥ इति गाथार्थः ॥ २८५ ॥
वरतमयोगाभावे तु किं भवति १, इत्याह
रतजोगाभावेsais चिय धारणा तदंतम्मि । सव्वत्थ वासणा पुण भणिया कालंतैरे वि सई ॥ २८६ ॥
"
तरतमयोगाभावे ज्ञातुरग्रेतन विशेषाकाङ्क्षानिवृत्तावपाय एव भवंति न पुनस्तस्याऽवग्रहत्वमिति भावः, तन्निमित्तानां पुनरीहादीनामभावादिति । यद्यग्रत ईहादयो न भवन्ति, तर्हि किं भवति ?, इत्याह- तदन्तेऽपायान्ते धारणा तदर्थोपयोगाऽप्रच्युतिरूपा भवति । शेषस्य वासना- स्मृतिरूपस्य धारणाभेदद्वयस्य क संभवः १, इत्याह- 'सव्वत्थ वासणा पुणेत्यादि' वासना वक्ष्यमाणरूपा, तथा कालान्तरे स्मृतिः, सा च सर्वत्र भणिता । अयमर्थ:- अंविच्युतिरूपा धारणापायपर्यन्त एव भवति, वासना- स्मृती तु सर्वत्र कालान्तरेऽप्यविरुद्धे ।। इति गाथार्थः ॥ २८६ ॥
एवं चाऽभिहितस्वरूपव्यावहारिकाऽर्थावग्रहाऽपेक्षया यथाश्रुतार्थव्याख्यानमपि सूत्रस्याविरुद्धमेव, इति दर्शयन्नाह
दोत्ति व सुभणियं विगप्पओ जइ विसेसविण्णाणं । घेप्पेज्ज तं पि जुज्जइ संववहारोग्गहे सव्वं ॥ २८७ ॥
वाशब्दोऽथवार्थे, ततश्चायमभिप्रायः - 'सैदे त्ति भणइ वत्ता' इत्यादिप्रकारेण तावद् व्याख्यातं ""तेणं सदे ति उगहिए " इत्यादि सूत्रम् । अथवा 'शब्द:' इति यत्सूत्रभणितम् - "शब्दस्तेनाऽत्रगृहीतः" इति यत् सूत्रे प्रतिपादितम्, तद् यदि विकल्प तो विवक्षावशतो विशेषविज्ञानं गृह्येत, तदपि सर्व युज्यते । कस्मिन् १, इत्याह-यथोक्त औपचारिके सांव्यवहारिकाऽर्थावग्रहे गृह्यमाणे
१ तरतमयोगाभावेऽपाय एव धारणा तदन्ते । सर्वत्र वासना पुनर्भणिता कालान्तरेऽपि स्मृतिः ॥ २८६ ॥ २ घ. छ. ज 'तरसई य ३ घ.छ.ज. 'न्तरे स्मृतिः कालान्तरस्ट' । ४ शब्द इति वा श्रुतभणितं विकल्पतो यदि विशेषविज्ञानम् । गृह्येत तदपि युज्यते संव्यवहारावग्रहे सर्वम् ॥ २८७॥ ५ गाथा २५३ । ६ तेन शब्द इत्यवगृहीतः ।
For Private and Personal Use Only