________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विशेषा०
निकसमयमात्रमान एवाऽर्थावग्रहः, किन्तु चिरकालिकोऽपि न हि समयमात्रमानतयैकरूपे तस्मिन् क्षिप्र-चिरग्रहणविशेषणमुपपद्यत इति भावः। तस्मादेतद्विशेषणवलादसंख्येयसमयमानोऽप्यर्थावग्रहो युज्यते । तथा, बहूनां श्रोतृणामविशेषेण प्राप्तिविषयस्थ शङ्खभयो दिवहुतूर्यनिर्घोषे क्षयोपशमवैचित्र्यात् कोऽप्यवहु अवगृह्णाति, सामान्य समुदिततूर्यशब्दमात्रमवगृह्णातीत्यर्थः । अन्यस्तु घडवरलाति, शङ्ख-भेर्यादितूर्यशब्दान् भिन्नान् बहून् गृहातीत्यर्थः । अन्यस्तु स्त्री-पुरुषादिवायत्व-स्निग्ध-मधुरत्वादिबहुविधविशेषविशित्वेन बहुविधमवगृह्णाति, अपरस्त्वबहुविधविशेषविशिष्टत्वादबहुविधमवगृह्णाति । अत एतस्माद् बहु-बहुविधाघनेकविकल्पनानात्ववशादवग्रहस्य कचित् सामान्यग्रहणम् , कचित् तु विशेषग्रहणम् , इत्युभयमप्यविरुद्धम् । अतो यत् सूत्रे 'तेणं सहे ति उग्गदिए" इति वचनात् 'शब्दः' इति विशेषविज्ञानमुपदिष्टम् , तदप्यर्थावग्रहे युज्यत एव, इति केचित् ।। इति गाथार्थः ॥ २८० ॥ . अनोत्तरमाहसे किमोग्गहो त्ति भण्णइ गहणे-हा-ऽवायलक्खणत्ते वि? । अह उवयारो कीरइ तो सुण जह जुज्जए सो वि ॥२८१॥
इह पूर्वमनेकधा प्रतिविहितमप्यर्थं पुनः पुनः मेरयन्तं प्रेरकमवलोक्याऽन्तर्विस्फुरदसूयावशात् साक्षेप काक्या सूरिः पृच्छति-'किमोगहो ति भण्णइति' किंशब्दः क्षेपे, यो बहु-बहुविधादिविशेषणवशाद विशेषावगमः स किमयुधचक्रवर्तिन् ! अवग्रहोऽर्थावग्रहो भण्यते । क सत्यपि , इत्याह-'गहणे-हित्यादि' ग्रहणं च सामान्यार्थस्य, ईहाऽवगृहीतस्य, अपायश्चेहितार्थस्य ग्रहणे-हा-ऽपायास्तलक्ष्यते प्रकटीक्रियते यः स तथा तद्भावस्तवं तस्मिन् सत्यपि, बहु-बहुविधादिग्राहको हि विशेपाचगमो निश्चयः, स च सामान्याऽर्थग्रहणं, ईहां च विना न भवति, यश्च तदविनाभावी सोऽपाय एव, कथमर्थावग्रह इति भण्यते इति । एतत्पूर्वमसकृदेवोक्तमपि हन्त ! विस्मरणशीलतया, जडतया, बद्धाभिनिवेशतया वा पुनः पुनरस्मान् भाणयसीति किं कुर्मः १, पुनरुक्तमपि ब्रूमः, यद् यस्मादायासेनापि कश्चिद् मार्गमासा. यतीति । ननु ग्रहणम् , ईहा च विशेषावगमस्य लक्षणं भवतु, ताभ्यां विना तदभावात् । अपायस्तु कथं तल्लक्षणम्, तत्स्वरूपत्वादेवास्य।। सत्यम्, किन्तु स्वरूपमपि भेदविवक्षया लक्षणं भवत्येव, यदाह
'विषा-ऽमृते स्वरूपेण लक्ष्यते कलशादिवत् । एवं च स्वस्वभावाभ्यां व्यज्यते खल-सज्जनौ"॥१॥ आह- यदि बहु-बहुविधादिग्राहकोऽपाय एव भवति, तर्हि कथमन्यत्राऽवग्रहादीनामपि बहादिग्रहणमुक्तम् । सत्यम् , कि
तेन शब्द इत्यवगृहीतः। २ स किमवग्रह इति भण्यते ग्रहणे-हा- पायलक्षणत्वेऽपि ? । अधोपचारः क्रियते ततः शृणु यथा युज्यते सोऽपि ॥२८॥ स्वपायस्य कारणमवग्रहादयः, कारणे च योग्यतया कार्यस्वरूपमस्ति, इत्युपचारतस्तेऽपि वहादिग्राहकाः प्रोच्यन्ते, इत्यदोपः। यद्येवम , ताहि वयमप्यपायगतं विशेषज्ञानमर्थावग्रहेऽप्युपचरिष्याम इति । एतदेवाह- 'अहेत्यादि' अथोक्तन्यायेनोपचारं कृत्वा विशेषग्राहको विग्रहः मोच्यते । नैतदेवम् , यतो मुख्याभावे सति प्रयोजने निमित्ते चोपचारः प्रवर्तते । न चैवमुपचारे किश्चित प्रयोजनमस्ति ।
तेणं सद्दे त्ति उग्गहिए" इत्यादिमूत्रस्य यथाश्रुतार्थनिगमनं प्रयोजनमिति चेत् । न, 'सद्दे त्ति भणइ वत्ता' इत्यादिप्रकारेणाऽपि तस्य 'निगमितत्वात् । सामर्थ्यव्याख्यानमिदम् , न यथाश्रुतार्थव्याख्येति चेत् । तर्हि यापचारेणाऽपि श्रौतोऽर्थः सूत्रस्य व्याख्यायाम इति तवाभिप्रायः, तर्हि यथा युज्यत उपचारः, तथा कुरु, न चैवं क्रियमाणोऽसौ युज्यते, यतः 'सिंहो माणवकः "समुद्रस्तडागः। इत्यादाविव किश्चित्साम्ये सत्ययं विधीयमानः शोभते । न चैतत्सामायकेऽर्थावग्रहे-संख्येयसामायिक विशेपग्रहणं कथमप्युपपद्यते । तर्हि कथमयमुपचारः क्रियमाणो घटते ?, इति चेत् । अहो ! सुचिरादुपसनोऽस्ति । ततः शृणु समाकर्णयावहितेन मनसा, सोऽपि यथा युज्यते तथा कथयामि- 'सः त्ति भणइ वत्ता' इत्यादिप्रकारेण तावद् व्याख्यातं सूत्रम् । यदि चौपचारिकेणाऽप्यर्थेन भवतः प्रयोजनम् , तर्हि सोऽपि यथा घटमानकस्तथा कथ्यत इत्यपिशब्दाभिप्रायः।। इति गाथार्थः ।। २८१॥
यथाप्रतिज्ञातमेव संपादयन्नाहसामण्णमेत्तग्गहणं नेच्छइओ समयमोग्गहो पढमो । तत्तोऽणतरमीहियवत्थुविसेसस्स जोऽवाओ ॥ २८२॥ सो. पुणरीहा-ऽवायावेक्खाओ वग्गहो त्ति उवयरिओ । एस्सविसेसावेक्खं सामण्णं गेहए जेणं ॥ २८३ ॥ तत्तोऽणतरमीहा तत्तोऽवाओ य तब्बिसेसस्स । इय सामण्ण-विसेसावेक्खा जावंतिमो भेओ ॥ २८४ ॥
व्याख्या- इहैकसमयमात्रमानो नैश्चयिको निरुपचरितः प्रथमोऽर्थावग्रहः । कथंभूतः१, इत्याह- सामान्यमात्रस्याऽव्यक्तनिर्देश्यस्य वस्तुनो ग्रहणं सामान्यवस्तुमात्रग्राहक इत्यर्थः, सामयिकानि हि ज्ञानादिवस्तूनि परमयोगिन एव निश्चयवेदिनोऽवगच्छन्तीति
१ तेन शब्द इत्यवगृहीतः। २ गाथा २५३ । ३ क. ग. 'निर्गमि' घ. 'निमित्तत्वा'(xसि) .-४०००) । सामान्यमानग्रहणं नश्रयिकः समयमवग्रहः प्रथमः । ततोऽनन्तरमीहितवस्तुविशेषस्य योऽपायः ॥ २८॥ॐ शिहास पुनर्राहा-पायापेक्षानोऽवग्रह इन्युपचरितः । एप्यविशेषापेक्षं सामान्यं गृह्यते येन ॥ २८३ ॥ ततोऽनन्तरमीहा ततोऽपायच तद्विशेषस्य । इति सामान्य-विशेषापेक्षा यावदन्तिमो भेदः ॥२८४ ॥
For Private and Personal Use Only