________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
82
Acharya Shri Kailassagarsuri Gyanmandir
विशेषा०
तत्समालोचनं यदि सामान्यरूपस्याऽर्थस्य दर्शनमिष्यते, ततस्तर्हि न व्यञ्जनं व्यञ्जनावग्रहात्मकं भवति, व्यञ्जनावग्रहस्य व्यञ्जनसंबन्धमात्र रूपत्वेनाऽर्थशून्यत्वात् तथाच प्रागपि 'पुष्वं च तस्स पंजणकालो सो अत्थपरिसुण्णो ' इत्यादिना साधितमेवेदम् । अतोsर्थदर्शन रूपमालोचनं कथमर्थशून्यव्यञ्जनावग्रहात्मकं भवितुमर्हति १, विरोधात् । अथ द्वितीयविकल्पमङ्गीकृत्याह - 'अथ व्यञ्जनस्य शब्दादिविषयपरिणतद्रव्यसंयन्धमात्रस्य तत् समालोचनमिष्यते, तर्हि कथमालोचनं कथमालोचकर तस्य घटते १, इत्यर्थः । कथंभूतस्य सतः १, इत्याह- अर्थशून्यस्य व्यञ्जनसंबन्धमात्रान्वितत्वेन सामान्यार्थीलाचकत्वानुपपत्तेरित्यर्थः । इति गाथार्थः ॥ २७६ ।। नतु शास्त्रान्तरप्रसिद्धस्याssलोचनज्ञानस्य बराकस्य तर्हि का गतिः १, इत्याह
आलोर्येण त्ति नामं हवेज्ज तं वंजणोग्गहस्सेव । होज्ज कहं सामण्णग्गहणं तत्थत्थसुण्णम्मि १ ॥ २७७ ॥ तस्मादालोचनमिति यत्राम तदन्यत्र निर्गतिकं सत् पारिशेष्यात्र व्यञ्जनावग्रहस्यैव द्वितीयं नाम भवेत् । न च विवक्षामात्र वस्तूनां बहुष्वपि नामसु क्रियमाणेषु कोऽपि विवादमाविष्करोति । अत एतदपि नामान्तरमस्तु को दोषः १ इति । नैतदेवम्, यस्मादिदं सामान्य ग्राहकमालोचनज्ञानं भविष्यति, अर्थाथग्रस्त विशेषग्राहक इति एवमप्यस्माकं समीहितसिद्धिर्भविष्यतीति चेत् । इत्याह- ' होज्जेत्यादि ' व्यञ्जनावग्रहस्यैव पारिशेष्यादालोचनज्ञानत्वमापन्नम्, तत्र च प्रागुक्तयुक्तिभिरर्थशून्ये कथं सामान्य.. ग्रहणं भवेत् येन भवतः समीहितसिद्धिप्रमोदः । इति । तस्मादर्थावग्रह एव सामान्यार्थग्राहकः, न पुनरेतस्मादपरमालोचनाज्ञानम् ।
"
अत एव यदुक्तम्- “ अस्ति ह्यालोचनाज्ञानं प्रथमं निर्विकल्पक " इत्यादि, तदप्यर्थावग्रहाश्रयमेत्र यदि, घटते, नान्यविषयम् ॥ इति गाथार्थः ॥ २७७ ॥
अथ 'दुर्बलं वादिनं दृष्ट्वाऽभ्युपगमोऽपि कर्तव्यः' इतिन्यायमदर्शनार्थमाह
गहियं व होउ तहियं सामण्णं कहमणीहिए तम्मि । अत्थावग्गहकाले विसेसणं एस सहो त्ति १ ॥२७८॥ • अथवा भवतु तस्मिन् व्यञ्जनावग्रहे सामान्यं गृहीतम्, तथापि कथमनीहितेऽविमर्शिते तस्मिन कस्मादेवार्थावग्रहकाले ' शब्द एष:' इति विशेषणं विशेषज्ञानं युक्तम्, " 'शब्द एवैषः' इत्यर्य हि निश्चयः, न चायमीहामन्तरेण समित्येव युज्यते इत्यसकदेवोक्तप्रायम् । अतो नार्थावग्रहे ' शब्दः' इत्यादिविशेषबुद्धिर्युज्यते । इति गाथार्थः ॥ २७८ ॥
१ गाथा २५९ । २क.ग.घ.छ.ज. 'व वंजणोग्गहका' ३ आलोचनेति नाम भवेत् सद् व्यञ्जनावग्रहस्यैव । भवेत् कथं सामान्यग्रहणं तत्राऽर्थशून्ये १ ॥ २७७ ॥ ४. क. ग. 'यणं ति ना' ५ गृहीतं वा भवतु तस्मिन् सामान्यं काममीहिते तस्मिन् । अर्थावग्रहकाले विशेषणमेष शब्द इति ? ॥ २७८ ॥
- अथार्थावग्रहसमये शब्दाद्यवगमेन सहैवेहा भविष्यतीति मन्यसे, तत्राऽऽहं
अत्थावग्गहसमए बीसुमसंखेज्जसमइया दो वि । तक्का वगमसहावा ईहा वाया कहं जुत्ता १ ॥ २७९ ॥
अर्थावग्रह संबन्धिन्यस्मिन् समये कथमीहा पायौ युक्तौ ?, इति संबन्धः । कथंभूतावेतौ ? यतः, इत्याह- सर्का गमस्वभाव, तर्कों विमत्स्वभावेहा, अवगमो निश्वयस्तत्स्वभावोऽपायः द्वावपि चैतौ पृथगसंख्येयसमयनिष्पन्नौ । एतदुक्तं भवतियदिदमर्थावग्रहे विशेषज्ञानं त्वयेष्यते सोऽयायः, स वावगमस्वभावो निश्चय स्वरूप इत्यर्थः ; या च तत्समकालमीहाऽभ्युपेयते सा तर्कस्वभावा, अनिश्चयात्मिकेत्यर्थः । तत एतावीहा-पायावनिश्चयेतरस्वभावौ कथमर्थावग्रहे युगपदेव युक्तौ निश्वया ऽनिश्चययोः परस्परपरिहारेण व्यवस्थितत्वात्, एकत्रैकदाऽत्रस्थानाभावेन सहोदयानुपपत्तेः ? इति । एषा तावद् विशेषावगमे हयोः सहभात्रे एकानुपपत्तिः । अपरं च समयमात्र कालोऽर्थावग्रहः, ईहा पायौ तु "" ईहा वाया मुहुत्तमं तं तु " इति वचनात् प्रत्येकमसंख्येय समय निष्पन्न कथमेकस्मिन्नर्थावग्रहसमये स्थाताम्, अत्यन्तानुपपन्नत्वात् । इति द्वितीयाऽनुपपत्तिः । तस्मादत्यन्तासंबद्धत्वाद् यत् किश्चिदेतत् इत्युपेक्षणीयम् ।। इति गाथार्थः ॥ २७९ ॥
तदेवं युक्ति शतैर्निराकृतानामपि प्रेरकाणां निःसंख्यात्वात् केषांचित् मेर्यशेषमद्यापि सूरिराशङ्कते -
विप्पे - यराइभेओ जमोग्गहो तो विसेसविण्णाणं । जुज्जइ विगप्पवसओ सदो त्ति सुयम्मि जं केइ ॥ २८० ॥
' केr त्ति' इहार्थावग्रहे विशेषज्ञानसमर्थनाऽऽग्रहममुमुक्षवोऽद्यापि केचिद् वादिनो मन्यन्ते । किम् ? इत्याह- क्षिमे-तरादिभेदो यस्मादवग्रहो ग्रन्थान्तरे भणितः 'अत्रापि च विस्तरेण भणिष्यते' इति गम्यते । ततः ' शब्दः' इति विशेषविज्ञानं युज्यते घटते. 'अर्थावग्रहे' इति प्रस्तावादेव लभ्यते । यत् किम् १, इत्याह- 'सुयम्मि जं ति' " तेणं सद्दे ति उग्गहिए" इत्यादिवचनात् यत् ‘सूत्रे निर्दिष्टम्' इति शेषः । कुतः पुनरिदं विशेषविज्ञानं युज्यते ?, इत्याह- विकल्पवशतोऽन्यत्रोक्तनानात्ववशतः इत्यक्षरघटना || eness हृदयम् - "क्षिममत्रगृहाति, चिरेणाऽवगृहाति, बहवगृह्णाति, अवहवगृह्णाति, बहुविधमत्रगृह्णाति, अबहुविधमत्रगृहात एवमनिश्रितम्, निश्रितं, असंदिग्धं, संदिग्धम्, ध्रुवम्, अध्रुवमवगृह्णाति " इत्यादिना ग्रन्थेनाऽवग्रहादयः शास्त्रान्तरे द्वादभिर्विशेषणैर्विशेषिताः । अत्रापि च पुरस्तादयमर्थो वक्ष्यते । ततः 'क्षिप्रं चिरेण वावगृह्णाति' इतिविशेषणान्यथानुपपत्तेर्ज्ञायते -
i writers forवगलेख्येयसामयिकौ द्वावपि । तक- धगमस्वभावावीहा पायी कथं युक्ती ? ॥ २७९ ॥ २ हा पायी मुहूतीतु ३ क्षि-तरादिपवमहस्ततो विशेषविज्ञानम् । पुश्यते विकरूपवशतः शब्द इति सूत्रे यत् केचित् ॥ २४० ॥
For Private and Personal Use Only