________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandir
81
विशेषा.
पगतो विशेषः सोऽपि त्वदभिप्रायेण विशेषः, वस्तुस्थित्या तु सामान्यम्, इति विशेषस्याऽप्येकस्योभयस्वभावता । भवत्वेवमिति चेत् । इत्याह-नच युक्तं सर्वमिदम् । किं कृत्वा , इत्याह- सामान्यमालम्बन ग्राह्य मुक्त्वा 'अर्थावग्रहस्य' इति शेषः । इदमुक्तं भवतिअर्थावग्रहस्याऽव्यक्तं सामान्यमात्रमालम्बनं परिहत्य यदन्यद् विशेषरूपमालम्बनमिष्यते, तदभ्युपगमे च 'सामण्णं च विसेसो वा सामण्ण ' इत्यादि यदापतति, तत् सर्वमयुक्तम् , अघटमानकत्वात् । इह च गाथात्रये बहुषु दूषणेषु मध्ये यत् प्रागुक्तमपि किश्चिद् दृषण. मुक्त, तत् प्रसङ्गायातत्वात्, इति न पौनरुक्त्यमाशङ्कनीयम् ॥ इति गाथात्रयार्थः ॥ २७० ।। २७१ ॥ २७२ ॥ प्रस्तुत एवार्थेऽपरमपि मतान्तरमुपन्यस्य निराकुर्वन्नाह
'केइदिहालोयणपुव्वमोग्गहं बैंति तत्थ सामण्णं । गहियमहत्थावग्गहकाले सद्दे त्ति निच्छिण्णं ॥ २७३ ॥
केचिद् वादिन इहाऽस्मिन् प्रक्रमेऽवग्रहं ब्रुवतेऽर्थावग्रहं ब्याचक्षते । किविशिष्टम् १, इत्याह- आलोचनपूर्व सामान्यवस्तुग्राहि. मानमालोचनं तत् पूर्व प्रथमं यत्र स तथा तम्, प्रथमालोचनज्ञान ततोऽर्थावग्रह इत्यर्थः, तथा च तैरुक्तम्-. ... " अस्ति बालोचनाज्ञानं प्रथमं निर्विकल्पकम् । बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् " ॥१॥ इति। ।
किं पुनस्तत्राऽऽलोचनज्ञाने गृह्यते ?, इत्याह- 'सत्थेत्यादि' तत्रालोचनझाने सामान्यमव्यक्तं वस्तु गृहीतं 'प्रतिपत्रा' इति गम्यते, अथाऽनन्तरमर्थावग्रहकाले 'तदेव गृहीतम् ' इत्यनुवर्तते । कथंभूतं सत् , इत्याह-निच्छिन्नं पृथक्कृतं रूपादिभ्यो व्यावृत्तमित्यर्थः । केनोल्लेखेन गृहीतम् १, इत्याह- 'सद्देति' शब्दविशेषणविशिष्टमित्यर्थः । ततश्च " से जहानामए केइ पुरिसे अव्व सई सुणेज " इत्येतदालोचनज्ञानापेक्षया नीयते, " "तेणं सद्दे ति उग्गहिए" एतस्वार्थावग्रहापेक्षया, इति सर्व सुस्थतामनुभवति । न चातः परं भवतोऽप्याचार्य । किश्चिद् वक्तव्यमस्ति; यदि हि युक्त्यनुभवसिद्धनाऽर्थेन सूत्रे विषयविभागव्यवस्थापितेऽपि वादी जयं न पाप्स्यति, तदा तूष्णीमाश्रयन्तु विपश्चितः, विचारचर्यामार्गस्य स्खाग्रहतत्परेण त्वयैव लुप्तत्वात् ।। इति गाथार्थः ॥ २७३ ॥
तदत्र सूरिः परस्येषद्गर्वानुविद्धार्मज्ञतामवलोकयन् मार्गावैतारणाय विकल्पयमाह
१ केचिदिहालोचनपूर्वमवग्रह धुवन्ति तत्र सामान्यम् । गृहीतमथाऽर्थावग्रहकाले शब्द इति निच्छिन्नम् ॥ २७३॥ २ क. ग. 'विति' । ३ क. ग. 'यतः स'। ४ तद्यथामामा कश्चित् पुरुपोऽव्यक्तं शब्दं शृणुयादिति । ५ तेन शब्द इत्यवगृहीतः। ६ ज. 'मज्ञातता' । ७ घ. 'वतर'।
'तं वंजणोग्गहाओ पुव्वं पच्छा स एव वा होज्जा । पुव्वं तदत्थवंजणसंबंधाभावओ नत्थि ॥ २७४ ॥
यद्यनुपहतस्मरणवासनासन्तानस्तदर्थावग्रहात् पूर्व व्यञ्जनावग्रहो भवतीति यदुक्तं प्राक्, तद् भवानपि स्मरति । ततः किम्?, इति चेत् । उच्यते- यदंतद् भवदुत्मेक्षितं सामान्यग्राहकमालोचनं तत् तस्माद् व्यञ्जनावग्रहात् पूर्व वा भवेत् , पश्चाद् वा भवेत् , स एव वा व्यञ्जनावग्रहोऽप्यालोचनं भवेत् , इति त्रयी गतिः, अन्यत्र स्थानाभावात् । किश्चातः १, इत्याह-पूर्व तद् नास्तीति संबन्धः । कुतः, इत्याह- अर्थव्यञ्जनसंबन्धाभावादिति- अर्थः शब्दादिविषयभावेन परिणतद्रव्यसमूहः, व्यञ्जनं तु श्रोत्रादि, अर्थश्च व्यञ्जनं चाऽर्थव्यञ्जने तयोः संबन्धस्तस्याऽभावात्, सति धर्थ-व्यञ्जनसंबन्धे सामान्यार्थालोचनं स्यात् , अन्यथा सर्वत्र सर्वदा तद्भावप्रसङ्गात् । व्यञ्जनावग्रहाच्च पूर्वमर्थव्यञ्जनसंवन्धो नास्ति, तद्भावे च व्यञ्जनावग्रहस्यैकेष्टत्वात् तत्पूर्वकालता न स्यादिति भावः ॥ इति गाथार्थः ।।२७४।।
द्वितीयविकल्पं शोधयन्नाह
अत्थोग्गहो वि जं वंजणोग्गहस्सेव चरमसमयम्मि । पच्छा वितो न जुत्तं परिसेसं वंजणं होज्जा ॥२७५॥ - तथा, अर्थावग्रहोऽपि यद् यस्माद् व्यञ्जनावग्रहस्यैव चरमसमये भवति, इति मागिहापि निर्णीतम् । तस्मात् पश्चादपि व्यञ्जनावग्रहादालोचनज्ञानं न युक्तम् , निरवकाशत्वात् । न हि व्यञ्जना-ऽर्थावग्रहयोरन्तरे कालः समस्ति, यत्र तत् त्वदीयमालोचनज्ञानं स्यात्, व्यञ्जनावग्रहचरमसमय एवार्थावग्रहसद्भावात् । तस्मात् पूर्व पश्चात्कालयोनिषिद्धत्वात् पारिशेष्याद् मध्यकालवर्ती तृतीयविकल्पोपन्यस्तो व्यञ्जनं व्यञ्जनावग्रह एव भवताऽऽलोचनाज्ञानत्वेनाऽभ्युपगतो भवेत् । एवं च न कश्चिद् दोषः, नाममात्र एव विवादात् ॥ इति गाथार्थः॥ २७५॥
क्रियतां तर्हि प्रेरकवर्गेण वर्धापनकम् , त्वदभिमायाविसंवादलाभात् , इति चेत् । नैवम् , विकल्पद्वयस्येह सद्भावात् , तथाहिसयञ्जनावग्रहकालेऽभ्युपगम्यमानमालोचनं किमर्थस्यालोचनं, व्यञ्जनानां वा ?, इति विकल्पद्वयम् । तत्र प्रथमविकल्पमनूध दूषयवाह"तं च समालोयणमत्थंदरिसणं जइ, न वंजणं तो तं । अह वंजणस्स तो कहमालोयणमत्थसुण्णस्स? ॥२७६॥ त पजनावग्रहातु पूर्व पश्चात् स एव वा भवेत् । पूर्व तदर्थव्यजनसंवन्धाभावतो नास्ति ॥ २७ ॥ २ क. ग. 'तत्सद्भावे तु व्य' ज. 'तद्भावे तु व्य' ।
। अर्थावग्रहोऽपि यत् ग्यजनावग्रहस्यैव चरमसमये । पश्चादप्यतो न युक्तं परिशेषं व्यजनं भवेत् ॥ २७५ ॥ Vतच समालोचनमर्थदर्शनं यदि, म व्यजनं ततस्तत् । अथ व्यजनस्य ततः कथमालोचनमर्थशून्यस्य । ॥२६॥
For Private and Personal Use Only