________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
80 विशेषा. यत् तस्य स्वरूपम्- 'समयाम्मि चेव परिचियविसयस्स विसेसविनाणं ' इति, तदेतत्परोक्तमपि तदवस्थमेव, न पुनः किश्चिदनाधिकावस्थम् । कुतः १, इत्याह- 'पुन्नदोसउ ति! 'जेणस्थोग्गहकाले' इत्यादिना, 'सामण्ण-तयण्ण-' इत्यादिना च यः पूर्व दोषोऽभिहितस्तस्मात् पूर्वदोषात्- पूर्वदोषाऽनतिवृत्तेः, तदेतत्परोक्तं तदवस्थमेव, इति नान्यदूषणाऽभिधानप्रयासो विधीयत इति भावः । अथवापूर्वमपि दषणमुच्यते । किं तत, इत्याह- 'तम्मि चेवेत्यादि' वा इत्यथवा, तस्मिमेव स्पष्टविज्ञानस्य व्यक्तस्य अन्तोर्विशेषया. हिणि समये शाल, शाङ्गो पाऽयं शब्दः, स्निग्धा, मधुरा, कर्कशा, स्त्री-पुरुषायन्यतरवायः' इत्यादि सुबहुकविशेषग्रहणं प्रसज्येत । इदमुक्त भवति- यदि व्यक्तस्य परिचितविषयस्य जन्तोरव्यक्तशब्दज्ञानमुल्लबध्य तमिमर्थावग्रहकसमयमात्रे शब्दनिश्चयज्ञान भवति, तदाऽन्यस्य कस्यचित परिचिततरविषयस्य पटुतराषषोधस्य तमिव समये व्यक्तशब्दज्ञानमप्यतिक्रम्य 'शाहोऽयं शब्द त्यादि संख्यातीतविशेषग्राहकमपि ज्ञान भवदभिप्रायेण स्यात्, श्यन्ते च पुरुषशक्तीनां तारतम्यविशेषाः। भवत्येव कस्यचित् प्रथमसमयेऽपि सुषहविशेषग्राहकमपि मानमिति चेत् । न,"ने पण जाणड़ के बेस सहे" इत्यस्य सूत्राषयवस्यागमफस्वमसङ्गात् । विमध्यमशक्ति पुरुषविषयमेतत मुत्रमिति चेतन, अविशेषेणोक्तस्वात्, सवेविशेषविषयत्वस्य च युक्त्यनुपपनत्वात्। न हि कष्टमतेरपि शब्दषमिणमगृहीत्वोत्तरोत्तरबहुसुधर्मग्रहणसंभषोऽस्ति, निराधारधर्माणामनुपपत्तेः ॥ इति गाथार्थः ॥ २६९ ॥
किच, समयमात्रेऽपि 'शब्दः' इति विशेषविज्ञानमभ्युपगच्छतोऽन्येऽपि समयविरोधादयो दोषाः । के पुनस्ते ?, इत्याह
अत्थोग्गहो न समयं अहवा समओवओगबाहुल्लं । सव्वविसेसग्गहणं सव्वमई वोगहो गिझो ॥२७०॥ एगो वाऽवाओ च्चिय अहवा सोऽगहिय-णीहिए पत्तो । उक्कम-वइकमा वा पत्ता धुवमोग्गहाईणं ॥२७॥
सामण्णं च विसेसो वा सामण्णमुभयमुभयं वा । न य जुत्तं सव्वमिय(वा)सामण्णालंबनं मोत्तुं ॥ २७२॥
व्याख्या- " उग्गहो एक समयं " इत्यादिवचनादर्थावग्रहः सिद्धान्ते सामयिको निर्दिष्टः, यदि चार्थावग्रहे विशेषविज्ञानमभ्यु पगम्यते तदा सामयिकोऽसौ न पामोति, विशेषज्ञानस्याऽसंख्येयसामयिकत्वात् । अथ समयमात्रेऽप्यसिन् विशेषज्ञानमिष्यते, ती
१ गाथा २६८। २ गाथा २६६ ॥ ३ गाथा २६७। ४ न पुनर्जानाति क एप शब्दः । ५ अर्थावग्रहो न समयमथवा समयोपयोगवाहुल्यम् । सर्वविशेषग्रहणं सर्वमतिविमहो प्रायः ॥ २७० एको वाऽपाय एषाऽथवा सोऽगृहीता-ऽनीहितः प्राप्तः । उत्क्रम-व्यतिक्रमी वा प्राप्ती ध्रुवमवमहादीमाम् ॥२७॥
सामान्य च विशेषो या सामान्यमभयमुभयं वा । म च युक्तं सर्वमिदं (खा) सामान्यालम्बन मुक्त्वा ॥ २७२ ॥ ॥ भवमह एक समयम् । 'सोमण्ण-तयण्णविसेसेहा' इत्यादिना प्रागुक्त समयोपयोगबाहुल्यं मामोति । अथवेत्यग्रतोऽप्यनुवर्तते । ततश्चाऽथवा परिचितवि यस्य विशेषज्ञानेऽभ्युपगम्यमाने परिचिततरविषयस्य तस्मिन्नेव समये सर्वविशेषग्रहणमनन्तरोक्तं मामोति । अथवाऽवग्रहमात्रादपि विशे परिच्छेदेऽङ्गीक्रियमाणे ईहादीनामनुत्थानमेव । ततश्च सर्वाऽपि मतिरवग्रहो ग्राह्यः- सर्वस्यापि मतेरवग्रहरूपतैव मामोतीत्यर्थः । अथ सर्वाऽपि मतिरपाय एवैकः मामोति, अर्थावग्रहे विशेषज्ञानस्याऽऽश्रयणात् , तस्य च निश्चयरूपत्वात् , निश्चयस्य चापायत्वादिति समयमाने चास्मिनपाये सिद्धे "ईहा-वाया मुहुत्तमन्तं तु" इति विरुध्यते । अथवाऽर्थेऽवगृहीते, इंहितेच, अपायः सिद्धान्ते निर्दिश "जैग्गहो ईहा अवाओ य" इति क्रमनिर्देशात, यदि चाऽऽधसमयेऽपि विशेषज्ञानाऽभ्युपगमादपाय इष्यते, तीनवगृहीतेऽनीहिते तस्मिन्नसौ प्राप्तः । 'वा' इत्यथवा, यदि तृतीयस्थाननिर्दिष्टोऽप्यपायः 'समयम्मि चेव परिचियविसयस्स विण्णाणं ' इति वचन पटुत्ववैचित्र्येण प्रथममभ्युपगम्यते, तर्हि तस्मादेव पाटववैचित्र्यादवग्रहे-हा-ऽपाय-धारणानां ध्रुवं निश्चितमुत्क्रम-व्यतिक्रमौ स्याता तत्र पश्चानुपूर्वीभवनमुत्क्रमः, अनानुपूर्वीभावस्तु व्यतिक्रमः, तथाहि- यथा शक्तिवैचित्र्यात् कश्चित् प्रथममेवाऽपायो भवताऽभ्युपगम्य तथा तत एव कस्यापि प्रथमं धारणा स्यात् , ततोऽपायः, ततोऽपीहा, तदनन्तरं त्ववग्रह इत्युत्क्रमः, अन्यस्य कस्यचित्पुनरवन मुल्लध्य प्रथममेवेहा समुपजायेत, अपरस्य तु तामप्यतिक्रम्याऽपायः, अन्यस्य तु तमप्यतिवृत्य धारणा स्यात् , इत्यादिव्यतिक्रम न चेह वयं युक्तिमाप्रच्छनीयाः, भवदभ्युपगतस्य शक्तिवैचित्र्यस्यैव पुष्टहेतोः सद्भावात् । न चैतावुत्क्रम-व्यतिक्रमौ युक्तौ " उग्य ईहा अवायो य धारणा एव होन्ति चत्तारि" इति परममुनिनिर्दिष्टक्रमस्याऽन्यथाकर्तुमशक्यत्वादिति । तथा, यदि यत् प्रथमसमये गृह्यते विशेषः, तर्हि 'सामण्णं च विसेसो त्ति यत् सामान्यं तदपि विशेषः प्राप्तः, प्रथमसमये हि सर्वस्यापि वस्तुनोऽव्यक्तं सामान्य रूपं गृह्यते, ततोऽस्मिन्नप्यर्थावग्रहसमये सामान्यमेव गृह्यत इति परमार्थः। यदिवान विशेषबुद्धिर्भवताऽभ्युपगम्यते, तर्हि या वस्तुस्थित्या सामान्य स्थितं तदपि भवदभिप्रायेण विशेषः प्राप्तः। चशब्दो दूषणसमुच्चयार्थः । 'सो वा सामण्णं तिस वा भव भितो विशेषो वस्तुस्थितिसमायातं सामान्यं प्राप्नोतीति । 'उभयमुभयं व ति' अथवा, सामान्य-विशेषलक्षणमुभयमप्येतर त्येकमुभयं प्राप्नोति- एकैकमुभयरूपं स्यादित्यर्थः, तथाहि- अव-ईषत् सामान्यं गृह्णातीत्यवग्रह इतिव्युत्पत्त्या वस्तुस्थितिसमाय यत्सामान्यं तत् स्वरूपेण तावत् सामान्यम्, भवदभ्युपगमेन तु विशेषः, इत्येकस्याऽपि सामान्यस्योभयरूपता; तथा योऽपि भवदर्भ
-- - -- - १ गाथा २६४ । २ ईहा-उपायौ मुहूर्तान्तस्तु । ३ अवग्रहः, ईहा, अपायश्च । ४ गाथा-२६८ । ५ अवग्रह ईहाउपायश्च धारणा एव भवन्ति चत्वारि । ६ श्रीभद्रबाहुस्वामिभिः । (कस्यचित्) ...
For Private and Personal Use Only