________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
79
विशेषा० .
तदेवं व्यञ्जनावग्रहे व्यञ्जनसंबन्धपात्रमेव, अर्थावग्रहे त्वव्यक्तशब्दाथर्थग्रहणं, न व्यक्तंशब्दाथर्थसंवेदनम्, इति प्रतिपादितम् । सांप्रतमुपपत्त्यन्तरेणाऽप्यर्थावग्रहे व्यक्तशब्दाद्यर्थसंवेदनं निराचिकीर्षुराह'जेणत्थोग्गहकाले गहणे-हा-बायसंभवो नत्थि । तो नत्थि सहबुद्धी, अहत्थि नावग्गहो नाम ॥ २६६ ॥
पूर्व तावदर्थस्य ग्रहणमात्रं, ततश्चेदा, तदनन्तरं त्वपायः, इत्येवं मतिज्ञानस्योत्पत्तिक्रमः । न चैतत्रितयं प्रथममेव शब्दार्थेऽवनहोते समस्तीति । एतदेवाह- येनार्थावग्रहकालेऽर्थग्रहणे-हा-पायानां संभवो नास्ति, ततोऽर्थावग्रहे नास्ति 'शब्दः' इतिविशेषबुद्धिः, अर्थग्रहणे-हा-पूर्वकत्वात् तस्याः । अथाऽस्त्यसौ तत्र, तर्हि नाऽयमर्थावग्रहः, किन्त्वपाय एव स्यात् , नैतद् युज्यते, तदभ्युपगमेऽर्थावग्रहे-हयोरभावप्रसङ्गात् ।। इति गाथार्थः ॥ २६६ ॥ __ अपि च, अर्थावग्रहे ' शब्दः' इति विशेषबुद्धाविष्यमाणायां दोषान्तरमप्यस्ति । किं तत् ?, इत्याह
सामण्ण-तयण्णविसेसेहा-वजण-परिग्गहणओ से । अत्थोग्गहेगसमओवओगबाहुल्लमावणं ॥ २६७ ॥
इह येयमर्थावग्रहैकसमये 'शब्दः' इति विशेषघुद्धिर्भवताऽभ्युपगम्यते, सा तावद् निश्चयरूपा, निश्चयश्वाकस्मादेव न युज्यते, किन्तु क्रमेण, तथाहि-प्रथमं तावद् रूपादिभ्योऽव्यावृत्तमव्यक्तं शब्दसामान्य ग्रहीतव्यम् , ततस्तद्विशेषविषया, तदपररूपादिविशेषविषया च । एतैरेतैश्च धमैः 'किमयं शब्दः, आहोखिद् रूपादिः इत्येवंरूपेहा, तदनन्तरं च गृहीतशब्दसामान्यविशेषाणां ग्रहणम,
अन्येषां तु रूपादिविशेषाणां तत्राविद्यमानानां परिवर्जनम् , इत्येवंभूतेन क्रमेण निश्चयोत्पत्तिः। तथाच सति श्रोतरावग्रहकसमये'ऽपि सामान्यग्रहणादिभिः प्रकारैरुपयोगबहुत्वमापद्यते, एकस्मिंश्च समये बहव उपयोगाः सिद्धान्ते निषिद्धाः, इति नार्थावग्रहे शब्दादिविशेषबुद्धिः॥ इति गाथाभावार्थः॥ र अक्षरार्थस्तूच्यते- सामान्यमिह श्रूयमाणशब्दसामान्यं गृह्यते, 'तयण्णविसेसेह ति' तच्छब्देनाऽनन्तरोक्तं शब्दसामान्यमनुकृष्यते, अन्यशब्देन तु तत्रा-ऽविद्यमाना रूपादयः परिगृह्यन्ते । ततश्च तच्चाऽन्ये च तदन्ये- शब्दसामान्यं, रूपादयश्चेत्यर्थः तेषां
येनाऽर्थावग्रहकाले ग्रहणे-हा-उपायसंभवो नास्ति । ततो नास्ति शब्दबुद्धिः, अधारित मावग्रहो माम ॥ २६ ॥२ ज 'ब्दाद्यर्थे।
३ सामान्य-तदन्यविशेपेहा-वर्जन-परिग्रहणतस्तस्य । अर्थावग्रहैकसमयोपयोगबाहुल्यमापञ्चम् ॥ २६ ॥ विशेषा धर्माः श्रोत्रग्राह्यत्वादयः, चक्षुरादिवेद्यत्वादयश्च, तद्विषयेहा तदन्यविशेषेहा, किमत्र श्रोत्रग्राह्यत्वादयो धर्मा उपलभ्यन्ते, आहोखिच्चक्षुरादिवेद्यत्वादयः ? इत्येवंरूपो विमर्श इत्यर्थः, तदनन्तरं तु वर्जनं च तत्राऽविद्यमानरूपादिगतानां हेयधर्माणां चक्षुर्वेद्यत्वादीनां, परिग्रहणं च तत्र गृहीतशब्दसामान्यगतानामुपादेयधर्माणां श्रोत्रग्राह्यत्वादीनाम् , इति वर्जन-परिग्रहणे त्यागा-ऽऽदाने सामान्य च तदन्यविशेषेहा च वर्जन-परिग्रहणे च सामान्य-तदन्यविशेषेहा-वर्जन-परिग्रहणानि तेभ्यस्ततः । 'से' तस्य श्रोतुः। अर्थावग्रहैकसमयेऽप्युपयोगबाहुल्यमापन प्राप्तम् । तथाहि-प्रथमः सामान्यग्रहणोपयोगः, यथोक्तहोपयोगस्तु द्वितीयः, हेयधर्मवर्जनोपयोगस्तृतीयः, उपादेयधर्मपरिग्रहणोपयोगश्चतुर्थः, इत्येवमर्थावग्रहैकसमयमात्रेऽपि बहव उपयोगाः प्राप्नुवन्ति । न चैतद् युक्तम् , समयविरुद्धत्वात् । त-. स्माद नार्थावग्रहे शब्दविशेषबुद्धिः, किन्तु सद्दे ति भणइ वत्ता' इत्यादि स्थितम् ॥ इति गाथार्थः ।। २६७ ॥ अथाऽस्मिन्नेवार्थावग्रहेऽपरवायभिप्रायं निराचिकीर्षुराहअण्णे सामण्णग्गहणमाहु बालरस जायमेत्तस्स । समयम्मि चेव परिचियविसयस्स विसेसविन्नाणं ॥ २६८ ॥ _ अन्ये वादिनः केचिदेवमाहुः- यदेतत्सर्वविशेषविमुखस्याऽव्यक्तस्य सामान्यमात्रस्य वस्तुनो ग्रहणमालोचनं, तद् बालस्य शिशोस्तत्क्षणजातमात्रस्य भवति, नात्र विप्रतिपत्तिः, अव्यक्तो ह्यसौ संकेतादिविकलोऽपरिचितविषयः। यस्तहि परिचितविषयः, तस्य , किम् ?, इत्याह- समय एवाऽऽद्यशब्दश्रवणसमय एव विशेषविज्ञानं जायते, स्पष्टत्वात् तस्य । ततश्चाऽमुमाश्रित्य "तेण सद्दे त्ति उग्गहिए" इत्यादि यथाश्रुतमेव व्याख्यायते, न कश्चिद् दोष इति भावः ॥ इति गाथार्थः ॥ २६८ ॥ अत्रोत्तरमाहतेंदवत्थमेव तं पुव्वदोसओ तम्मि चेव वा समये । संख-महुराइसुबहुयविसेसगहणं पसज्जेज्जा ॥ २६९ ॥
"जेणत्थोग्गहकाले ' इत्यादिना ग्रन्थेन 'सामण्ण- तयण्णविसेसेहा' इत्यादिना च ग्रन्थेन यद् दूषितं या तस्याऽवस्था
१ गाथा २५३ । २ अन्ये सामान्यग्रहणमाहुलस्य जातमात्रस्य । समये एव परिचितविषयस्य विशेषविज्ञानम् ॥ २६८॥ ३ तेन शब्द इत्यवगृहीतः। . ४ तदवस्थमेव तत् पूर्वदोषतस्तस्मिशेव वा समये । शाङ्ग-मधुरादिसुबहुकविशेषग्रहणं प्रसज्येत ॥२६९॥ ५ गाथा २६६। ६ गाथा २६७।
For Private and Personal Use Only