________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विशेषा० अत्रोत्तरमाह
सव्वत्थ सयंतो सद्दो सहो ति भासओ भणइ । इहरा न समयमेत्ते सहो त्ति विसेसणं जुत्तं ॥ २६१ ॥ * सर्वत्र पूर्वस्मिन् , अत्र च सूत्रावयवे, अवग्रहस्वरूपं देशयन् प्ररूपयन् ‘शब्दः शब्दः' इति भाषका प्रज्ञापक एव पदति, न तु तत्र
ज्ञाने शब्दप्रतिभासोऽस्ति । इत्थं चैतत, अन्यथा न समयमात्रेविग्रहकाले 'शब्दः' इति विशेषण युक्तम्, आन्तर्मुहर्तिकत्वाच्छब्दनिश्चयस्येति मागेवोक्तम् । सांव्यवहारिकाऽर्थावग्रहापेक्षं वा सूत्रमिदं व्याख्यास्यते, इति मा त्वरिष्ठाः ॥ इति गाथार्थः ।। २६१ ॥ ___ अथ सूत्रावष्टम्भवादिनं परं दृष्ट्वा सौत्रमेव परिहारमाह- अहव सुए च्चिय भणियं जह कोई सुणेज्ज सहमव्वत्तं । अव्वत्तमणिदेस सामण्णं कप्पणारहियं ॥ २६२ ॥
___ अथवा यदि तप गाढः श्रुतावष्टम्भः, तदा तत्राप्येतद् भणितं यदुत-प्रथममव्यक्तस्यैव शब्दोल्लेखरहितस्य शब्दमात्रस्य ग्रहणम् । ५१ केन पुनः सूत्रावयषेनेदमुक्तम् , इत्याह-'जह कोई सुणेज सहमवत्तं ति अयं च सूत्राषयवो भन्यध्ययने इत्यं द्रष्टव्यः- "से जहा
नामए केइ पूरिसे अव्वत्तं सई सुणेज ति"। अत्राऽव्यक्तमिति कोऽर्थः १, इत्याह-अनिर्देश्य 'शब्दोऽय रूपादियो' इत्यादिना प्रकारेणा- ऽव्यक्तमित्यर्थः । ननु यदि शब्दादिरूपेणानिर्देश्यम् , तर्हि किं तत् , इत्याह-सामान्यम् । किमुक्तं भवति', इत्याह-नाम-जात्यादि
कल्पनारहितम् । न च वक्तव्यं- शाल-शाभेदापेक्षया शब्दोल्लेखस्याऽप्यव्यंक्तत्वे घटमाने कुत इदं व्याख्यान लभ्यते इति अवग्रहस्याऽनाकारोपयोगरूपतया सूत्रेऽधीतत्वात् , अनाकारोपयोगस्य च सामान्यमात्रविषयत्वात् , प्रथममेवाऽपायपसक्याऽवग्रहेहाऽभावप्रसङ्ग इत्याद्युक्तत्वाच ॥ इति गाथार्थः ।। २६२॥ अथ मूरिरेव पराभिमायमाशिशङ्कयिषुराहअह व मई, पुव्वं चिय सो गहिओ वंजणोग्गहे तेणं । जं वंजणोग्गहम्मि वि भणियं विण्णाणमव्वत्तं ॥२६॥
___. सर्वत्र देशयन् शब्दः शब्द इति भाषको भणति । इतरथा न समयमाने शब्द इति विशेषणं युक्तम् ॥ २६ ॥ .....,
२ अथवा श्रुत एव भणितं यथा कश्चित् शृणुयाच्छब्दमव्यक्तम् । अध्यक्तमनिर्देश्य सामान्यं कल्पनारहितम् ॥ २६२॥ ३ तद्यथानामा कश्चित पुरुषोऽव्यक्तं शब्दं शृणुयादिति । ४ घ. छ. ज. 'तत्रा।
५ अथ वा मतिः, पूर्वमेव स गृहीतो व्यजनावग्रहे तेन । यद् व्यञ्जनावग्रहेऽपि भणितं विज्ञानमव्यक्तम् ॥ २३ ॥ .. अथ परस्य मतिः स्यात् । केयम् ', इत्याह-सोऽव्यक्तोऽनिर्देश्यादिवरूप:शब्दोऽर्थावग्रहात पूर्वमेव व्यञ्जनावग्रहे तेन श्रोत्रा गृहीतः, तत् किमित्यर्थावग्रहेऽपि तद्ग्रहणमुघुष्यते । कथमिदं पुनर्जायते यदुत-असौ व्यञ्जनावग्रहे गृहीतः, इत्याह-'जमित्यादि' यद् यस्माद् व्यञ्जनावग्रहेऽपि भवद्भिरव्यक्तं विज्ञानमुक्तम् , अव्यक्तविषयग्रहण एव चाव्यक्तत्वं तस्योपपद्यत इतिभावः॥इति गाथार्थ ॥२६॥ अत्रोत्तरमाहअत्थि तयं अव्वत्तं न उ तं गिण्हइ सयं पि सो भणियं । न उ अग्गहियम्मि जुज्जइ सहोत्ति विसेसणंबुद्धी॥२६४॥
अस्ति तदव्यक्तं श्रोतुर्व्यञ्जनावग्रहे ज्ञानम्, न तस्याऽस्माभिरपलापः क्रियते, न पुनरसौ श्रोताऽतिसौक्ष्म्यात् तत् स्वय-मपि गृह्णाति संवेदयते । एतच्च प्रागपि भणितम् । 'सुत्त-मत्ताइसुहुमबोहो व्व' इति वचनात् , तथा, 'सुत्तादओ सयं वि य विभाणं नावबुज्झन्ति" इति वचनाच्च । तस्माद् व्यञ्जनमात्रस्यैव तत्र ग्रहणम् , न शब्दस्य, व्यञ्जनावग्रहत्वान्यथानुपपत्तेरेवेति । न च सामा न्यरूपतयाऽव्यक्ते शब्देऽगृहीतेऽकस्मादेव 'शब्दः' इति विशेषणबुद्धियुज्यते, अनुस्वारस्याऽलाक्षणिकत्वाद् विशेषबुद्धिरित्यर्थः। अस्यां च विशेषबुद्धौ प्रथममेवेष्यमाणायामादावेवार्थावग्रहकालेऽप्यपायमसङ्गः, इत्यसकृदेवोक्तम् ॥ इति गाथार्थः॥ २६४॥ ननु यदि व्यञ्जनावग्रहेऽप्यव्यक्तशब्दग्रहणं भवेत् तदा को दोषः स्यात् १, इत्याह
अंत्यो त्ति विसयग्गहणं जइ तम्मिवि सो न वंजणं नाम।अत्थोग्गहो च्चिय तओअविसेसो संकरो वावि ॥२६५॥
" अर्थावग्रहे 'अर्थः' इत्यनेन तावद् विषयग्रहणमभिप्रेतं- रूपादिभेदेनाऽनिर्धारितस्याऽव्यक्तस्य शब्दादेविषयस्य ग्रहण तत्राऽभिप्रेतमित्यर्थः । यदि च तस्मिन्नपि व्यञ्जनावग्रेहेऽसावव्यक्तशब्दः प्रतिभासत इत्यभ्युपगम्यते, तदा न व्यञ्जनं नाम व्यञ्जनावग्रहो न प्रामोतीत्यर्थः । ततश्चेदानी निवृत्ता तत्कथा, व्यञ्जनमात्रसंबन्धस्यैव तत्रोक्तत्वात् , भवता च तदतिक्रान्तस्याऽव्यक्तार्थग्रहणस्येहाभिधीयमानत्वादिति । तीव्यक्तार्थग्रहणे किमसौ स्यात् १, इत्याह- अर्थावग्रह एवाऽसौ, अव्यक्तार्थावग्रहणात् , ततश्च नास्ति व्यञ्जनं व्यञ्जनावग्रहः । अथाऽस्याऽपि सूत्रे मोक्तत्वादस्तित्वं न परिहियते, तर्हि द्वयोरप्यविशेष:- सोऽप्यर्थावग्रहः, सोऽपि व्यञ्जनावग्रहः प्रामोतीति भावः मेचकमणिप्रभावत् संकरो वा स्यादित्थम ।। इति गाथार्थः ॥ २६५।।
, अस्ति तदव्यक्तं न तु तद् गृह्णाति स्वयमप्यसौ भणिसम् । न स्वगृहीते युज्यते शब्द इति विशेषणबुद्धिः ॥ २६ ॥ २ घ. छ. ज. “य अ'। गाथा १९७१४ भर्थ इति विषयग्रहणं यदि तस्मिन्नप्यसौन व्यञ्जनं नाम । अर्थावग्रह एवं ततोऽविशेषः संकरो वाऽपि ॥२६५॥ ५ घ. छ. ज.'हे सोऽव्य'।
For Private and Personal Use Only