________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
77
. विशेषा.
इतिशब्द उपप्रदर्शनार्थः, ततश्चेदमुक्तं भवति- यथा 'शाङ्कोऽयं शब्दः' इत्यस्यां बुद्धौ शब्दगतभेदाऽवधारी सांप्रतमसाध्यम् , मन्द्र-मधुरत्वादितदुत्तरोत्तरभेदबाहुल्यसंभवात् । तथाच सति स्तोकत्वाद् नेयं बुद्धिरपायः, किन्वर्थावग्रह इत्येवं सुबहुनाऽपि कालेन । सर्वेणापि पुरुषायुषेण शब्दगतमन्द्र-मधुरत्वायुत्तरोत्तरभेदावधारणमसाध्यं तद्भेदानामनन्तत्वादशक्यमित्यर्थः, यस्मिन् भेदावधारणे, किम्, इत्याह- यस्मिन् अपायो भवेदन्यभेदाकाङ्क्षानिवृत्तेयस्मिन् भेदावधारणज्ञानेऽपायत्वं व्यवस्थाप्येतेति भावः । तस्मात सर्वोऽपि भेदप्रत्यय उत्तरोत्तरापेक्षया त्वदभिप्रायेण स्तोकत्वादर्थावग्रह एव मामोति, नाऽपायः, शब्दज्ञानवत् ।। इति गाथार्थः॥२५६ ॥
किञ्च, 'शब्द एवायम्' इति ज्ञानं स्तोकत्वाद् यदर्थावग्रहत्वेन भवताऽभिमतम् । तत् पूर्वमीहामन्तरेण न संभवति, तत्पूर्वकत्वे च तस्यार्थावग्रहत्वासंभव इति दर्शयत्राह
किं सहो किमसहो त्तणीहिए सह एव किह जुत्तं ? । अह पुव्वमीहिऊणं सहो त्ति मयं, तई पुव्वं ॥२५७॥
'किं शब्दोऽयम्' आहोस्थित् 'अशब्दो रूपादिः' इत्येवं पूर्वमनीहिते यत् 'शब्द एव' इति निश्चयज्ञानम्, तदकस्मादेव जायमानं कथं युक्तम् , विमर्शपूर्वकत्वमन्तरेण नेदं घटत इत्यर्थः । इदमुक्तं भवति-शब्दगतान्वयधर्मेषु, रूपादिभ्यो व्यावृत्तौ च गृहीतायां 'शब्द एव' इति निश्चयज्ञानं युज्यते, तद्ग्रहणं च विमर्शमन्तरेण नोपपद्यते, विमर्शश्हा, तस्मादीहामन्तरेणाऽयुक्तमेव 'शब्द एवं इति निश्चयज्ञानम् । अथ निश्चयकालात् पूर्वमीहित्वा भवतोऽपि 'शब्द एवाऽयम्' इति निश्चयज्ञानमभिमतम् । हन्त ! तर्हि निश्चयज्ञानात् पूर्व 'तई' असावीहा भवद्वचनतोऽपि सिद्धा ॥ इति गाथार्थः ॥ २५७ ।। १. यदि नाम निश्चयज्ञानात् पूर्वमीहा सिद्धा, ततः किम् ?, इत्याह
किं तं पुव्वं गहियं जमीहओ सह एव विण्णाणं । अह पुव्वं सामण्णं जमीहमाणस्स सहो त्ति ॥२५८॥: हन्त ! यदि निश्चयशानमीडापर्व त्वयाऽभ्यपगम्यते. तहि प्रव्योऽसि-नन्वीहायाः पर्व किं तद वस्त प्रमात्रा गहीतम. यटीहमानस्य तस्य 'शब्द एवाऽयम्' इति निश्चयज्ञानमुपजायते, न हि कश्चिद् वस्तुन्यगृहीतेऽकस्मात् प्रथमत एवेहां कुरुत इति भावः। क्षभितस्य परस्योत्तरप्रदानासामर्थ्यमालोक्य स्वयमेव तन्मतमाशङ्कते- अथ ब्रूयात पर:- सामान्य नाम-जात्यादिकल्पनारहितं वस्तुमात्र3 ज. 'पद' । २ क. 'द् यद्यर्थी' । ३ क.ग.'ततः पू'। किं शब्दः किमशब्द इत्यनीहिते शाब्द एवं कथं युक्तम् । अथ पूर्वमीहिरवा शब्द इति मतं, सा पूर्वम् ॥२५७॥
५ किं तत् पूर्व गृहीतं यदीहमानस्य शब्द एव विज्ञानम् । अथ पूर्व सामान्यं यदीहमानस्य शब्द इति ॥ २५॥
मीहायाः पूर्व गृहीतं, यदीहमानस्य 'शब्दः' इति निश्चयज्ञानमुत्पद्यते ॥ इति गाथार्थः ॥२५८ ॥ ... अथेहायाः पूर्व सामान्यग्रहणे परेणेष्यमाणे सूरिः स्वसमीहितसिद्धिमुपदशर्यत्राह
अत्थोग्गहओ पुव्वं होयव्वं तस्स गहणकालेणं । पुव्वं च तस्स वंजणकालो सो अत्थपरिसुण्णो ॥ २५९ ॥ _ 'नवीहायाः पूर्व यत् सामान्यं गृह्यते, तस्य तावद् ग्रहणकालेन भवितव्यम् । स चाऽस्मदभ्युपगतसामयिकाावग्रहकालरूपो न भवति, अस्मदभ्युपगताङ्गीकारप्रसङ्गात्, किं तर्हि ?, अस्मदभ्युपगतार्थावग्रहात पूर्वमेव भवदभिप्रायेण तस्य सामान्यस्य ग्रहणकालेन भवितव्यम् , पूर्व च तस्याऽस्मदभ्युपगतार्थावग्रहस्य व्यञ्जनकाल एव वर्तते, व्यञ्जनानां शब्दादिद्रव्याणामिन्द्रियमात्रेणाऽऽदानकालो मध्यपदलोपाद् व्यञ्जनकालः। भवत्वेवम् , तथापि तत्र सामान्यार्थग्रहणं भविष्यति, इत्याशङ्कयाह- स च व्यञ्जनकालोऽर्थपरिशून्यः, न हि तत्र सामान्यरूपः, विशेषरूपो वा कश्चनाऽप्यर्थः प्रतिभाति, तदा मनोरहितेन्द्रियमात्रव्यापारात्, तत्र चार्थप्रतिभासाऽयोगात् । तस्मात् पारिशेष्यादस्मदभ्युपगतार्थावग्रह एव सामान्यग्रहणमिति गाथायामनुक्तमपि स्वयमेव द्रष्टव्यम् । तदनन्तरं चाऽन्वय व्यतिरेकधर्मपालोचनरूपा ईहा, तदनन्तरं च 'शब्द एवाऽयम्' इति निश्चयज्ञानमपायः, इति सर्व सुस्थं भवति ॥ इति गाथार्थः॥ २५९ ॥ अथ प्रथममेवाऽर्थावग्रहज्ञानेन शब्दाग्रहणे परः पुनरपि दोषमाहजैइ सहो त्ति न गहियं न उ जाणइ जं.क एस सदो त्ति । तमजुत्तं सामण्णे गहिए मग्गिजइ विसेसो ॥२६॥ ____ यद्यर्थावबोधसमये प्रथममेव 'शब्दोऽयम्' इत्येवं तद् वस्तु न गृहीतं, तर्हि "ने उण जाणइ के वेस सद्दे त्ति" जं ति' यत् सूत्रे निर्दिष्टम् , तदयुक्तं पामोति, यस्माच्छब्दसामान्ये रूपादिव्यावृत्ते गृहीते सति पश्चाद् मृग्यतेऽन्विष्यते विशेषः-'किमयं शब्दः शाङ्खः, उत शाः" इति । इदमुक्तं भवति- "ने उणं जाणइ के वेस सद्दे ति" अस्मिन् नन्दिसूत्रे 'न पुनर्जानाति कोऽप्येष शाङ्ख शायिन्यतरः शब्दः' इति विशेषस्यैवाऽपरिज्ञानमुक्तम्, शब्दसामान्यमात्रग्रहणं त्वनुज्ञातमेव, तदग्रहणे तु ‘क एप शब्दः, किं शाङ्खः, शार्हो वा ? इत्येवं विशेषमार्गणमसंगतमेवं स्यात् , विशेषजिज्ञासायाः सामान्यज्ञानपूर्वकत्वात् , शब्दसामान्ये गृहीत एव तद्विशेषमार्ग
णस्य युज्यमानत्वात् ।। इति गाथार्थः ।। २६० ॥ 11 अर्थावग्रहतः पूर्व भवितव्यं तस्य, ग्रहणकालेन । पूर्व च तस्य व्यअनकालः सोऽर्थपरिशून्पः ॥ २५९ ॥ २ क.ग.'तस्मादस्म' । ३ ग.'ने श'। ४ यदि शब्द इति न गृहीतं न तु जानाति यत् क एष शब्द इति । तदयुक्तं सामान्ये गृहीते मृग्यते विशेषः ॥२६०॥ ५न पुनर्जानाति क एष शब्द इति ।
६क.ग.प.छ.ज.'णं जा'।
For Private and Personal Use Only