________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
76
विशेषा० तदेतत् कथमाविरोधेन नीयते ?- युष्मव्याख्यानेन सह विरुध्यते एवेदमित्यर्थः, तथाहि - अस्मिन्नन्दिसूत्रेऽयमथः प्रतीयते- यथा ते प्रतिपत्राऽर्थावग्रहण शब्दोऽवगृहीत इति । भवन्तस्तु शब्दाछुल्लेखरहितं सर्वथाऽमुं प्रतिपादयन्ति, ततः कथं न विरोधः ?, इति भाय इति गाथार्थः ॥ २५२ ॥ . अत्रोत्तरमाह- .
सहे ति भणइ वत्ता तम्मत्तं वा न सहबुद्धीए । जइ होइ सहबुद्धी तोऽवाओ चेव सो होज्जा ॥ २५३ ॥
शब्दस्तेनायगृहीत इति यदुक्तं, तत्र 'शब्द' इति वक्ता प्रज्ञापका, सूत्रकारो षा भणति प्रतिपादयति, अथवा तन्मात्र शब्दमा रूप-रसादिविशेषज्यावृत्त्या-ऽनवधारितत्वाच्छन्दतयाऽनिश्चितं गृह्णातीति । एतावतांशेन शब्दस्तेनावग्रहीत इत्युच्यते, न पुनः शन बुद्धया-'शब्दोऽयं' इत्यध्यवसायेन तच्छन्दवस्तु तेनाऽवगृहीतम् , शब्दोल्लेखस्याऽऽन्तर्मुहूर्तिकत्वात् , अर्थावग्रहस्य त्वेफसामयिकत्व दसंभव एवाऽयमिति भावः। यदि पुनस्तत्र शब्दबुद्धिः स्यात् , तर्हि को दोषः स्यात् १, इत्याशय सूत्रकारः स्वयमेवं दूषणान्तरमाह 'जईत्यादि' यदि पुनरावग्रहे शब्दबुद्धिः शब्दनिश्चय: स्यात् , तदाऽपाय एवाऽसौ स्यात्, न त्वर्थावग्रह, निश्चयस्याऽपायहर त्वात् । ततश्चार्थावग्रहे-हाभाव एव स्यात्, न चैतद् दृष्टम् , इष्टं च ।। इति गाथार्थः॥ २५३ ॥
- अत्राह परः- ननु प्रथमसमय एव रूपादिव्यपोहेन 'शब्दोऽयम्' इति प्रत्ययोऽर्थावग्रहत्वेनाऽभ्युपगम्यताम् , शब्दमात्रत्वे सामान्यत्वात। उत्तरकालं तु प्रायो माधुर्यादयः शङ्खशब्दधर्मा इह घटन्ते, न तु शार्ङ्गधर्माः खर-कर्कशत्वादय इति विमर्शबाद्धरीह तस्माच्छाव एवाऽयं शब्द इति तद्विशेषस्त्वपायोऽस्तु । तथा च सति ""तेणं सद्देति उग्गहिए" इदं यथाश्रुतमेव व्याख्यायते। "नोचे णं जाणइ केवेस सद्दाइ, तओ ईह पविसई" इत्याद्यपि सर्वमविरोधेन गच्छतीति । तदेतत् परोक्तं सूरिः प्रत्यनुभाष्य दूषयति, तद्यथा
जैइ सद्दबुद्धिमत्तयमवग्गहो तबिसेसणमवाओ । नणु सहो नासदो न य रूवाइ विसेसोऽयं ॥ २५४ ॥
भोः पर ! यदि शब्दबुद्धिमानं 'शब्दोऽयम्' इति निश्रयज्ञानमपि भवताऽर्थावग्रहोऽभ्युपगम्यते, तद्विशेषणं तु तस्य शब्दर विशेषणं विशेषः 'शा एवाऽयं शब्दः' इत्यादिविशेषज्ञानमित्यर्थः, अपायो मतिज्ञानतृतीयो भेदोऽङ्गीक्रियते । हन्त ! तर्हि अवग्रहरू
...शब्द इति भणति वक्ता तम्मानं वा, न शब्दबुद्ध्या । यदि भवति शब्दबुद्धिस्ततोऽपाय एव स भवेत् ॥ २५३ ॥ ..
तेन शब्द इत्यवगृहीतः।। सो चेव जानाति क एष शब्दादिः, तत ईहां प्रविशति ।
४ यदि शब्दबुद्धिमात्रमवग्रहस्तद्विशेषणमवायः । ननु शब्दो नाऽशब्दो न च रूपादि विशेषोऽयम् ॥ २५४ ॥ क्षणस्य तदाद्यभेदस्याऽभावप्रसङ्गः, प्रथमत एवाऽवग्रहमतिक्रम्याऽपायाभ्युपगमात् । कथं पुनः शब्दज्ञानमपायः, इति चेत् । उच्यते तस्याऽपि विशेषग्राहकत्वात् , विशेषज्ञानस्य च भवताऽप्यपायत्वेनाऽभ्युपगतत्वात् । ननु 'शाङ्ख एवाऽयं शब्द:' इत्यादिकमेव तदुत्तर कालभावि ज्ञानं विशेषग्राहकं, शब्दज्ञाने तु शब्दसामान्यस्यैव प्रतिभासनात् कथं विशेषप्रतिभासः, येनाऽपायप्रसङ्ग स्यात् १, इत्याह 'नणु इत्यादि' नन्वित्यक्षमायां, परामन्त्रणे वा, ननु 'शब्दोऽयं नाशब्दः' इति विशेषोऽयं विशेषप्रतिभास एवाऽयमित्यर्थः । कथं पुन नोऽशब्द इति निश्चीयते', इत्याह-न च रूपादिरिति, चशब्दो हिशब्दार्थे, आदिशब्दाद् गन्ध-रसस्पर्शपरिग्रहः । ततश्चेदमुक्तं भवति यस्माद्न रूपादिरयम्, तेभ्यो व्यावृत्तत्वेन गृहीतत्वात , अतो 'नाऽशब्दोऽयं इति निश्चीयते । यदि तु रूपादिभ्योऽपि व्यावृत्तिर हीता न स्यात्, तदा 'शब्दोऽयम्' इति निश्चयोऽपि न स्यादिति भावः। तस्मात 'शब्दोऽयं नाशब्द:' इति विशेषप्रतिभास एवाऽयम् तथा च सत्यस्याऽप्यपायप्रसङ्गतोऽवग्रहाभावप्रसङ्ग इति स्थितम् ।। इति गाथार्थः ॥२५४ ।।
अथ परोऽवग्रहा-ऽपाययोर्विषयविभागं दर्शयन्नाह
थोवमियं नाऽवाओ संखाइविसेसणेमवाओ त्ति । तब्भेयावेक्खाए नणु थोवमियं पि नावाओ ॥ २५५ ।
इदं शब्दबुद्धिमात्रकं शब्दमात्रस्तोकविशेषावसायित्वात् स्तोकं स्तोकविशेषग्राहकम् , अतोऽपायो न भवति, किम्ववग्रह एव ऽयमिति भावः। कः पुनस्तापायः, इत्याह- 'संखाईत्यादि शाडोऽयं शब्द इत्यादिविशेषणविशिष्टं यज्ज्ञानं तदपायः बृदिरे पावसायित्वादिति हृदयम् । हन्त ! यदि यद् यत् स्तोकं तत् तद् नापायः, तर्हि निवृत्ता सांप्रतमपायज्ञानकथा, उत्तरोत्तरार्थविशेषग्रहण पेक्षयां पूर्वपूर्वार्थविशेषावसायस्य स्तोकत्वात् । एतदेवाह- 'तम्भेयेत्यादि' तस्य शाशब्दस्य ये उत्तरोत्तरभेदा मन्द्र-मधुरत्वादय तरुण-मध्यम-वृद्ध-स्त्री-पुरुषसमुत्थत्वादयश्च तदपेक्षायां सत्यामिदमपि 'शाहोऽयं शब्दः' इत्यादि ज्ञान ननु स्तोक- स्तोकविशेषण हकमेव, इति नापायः स्यात् । एवमुत्तरोत्तरविशेषग्राहिणामपि ज्ञानानां तदुत्तरोत्तरभेदापेक्षया स्तोकत्वादपायत्वाभावो भावनीया इति गाथार्थः ॥ २५५॥ 'तमेवाऽपायाभावं स्फुटीकुर्वनाह: इय सुबहुणा वि कालेण सव्वभेयाऽवहारणमसज्झं । जम्मि हवेज्ज अवाओ सव्वो च्चिय उग्गहो नाम ॥२५॥ कायदि- स्तोकमिदं नाऽपायः शासादिविशेषणमपाय इति । तद्भेदाऽपेक्षायां ननु स्तोकमिदमपि नाऽपायः ॥ २५५॥ २ घू. ज. व तदपेक्षया त'
- ३ इति सुबहुनाऽपि कालेन सर्वभेदाऽवधारणमसाध्यम् । यस्मिन् भवेदपायः सर्व एवाऽवग्रहो नाम ॥ २५६ र ण अ-1)
For Private and Personal Use Only