________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
75
| विशेषा०
समयप्रविष्टाः पुद्गलाः शब्दद्रव्यविशेषा ग्रहणमागच्छन्ति- अर्थावग्रहज्ञानहेतवो भवन्तीति भावः । इह च चरमसमयप्रविष्टा एव विज्ञानजनकत्वेन पहणमागच्छन्ति, तदन्ये त्विन्द्रियक्षयोपशमोपकारिण इति सर्वेषां सामान्येन ग्रहणमुक्तम् । सेयं प्रतिबोधकदृष्टान्तेन ' व्यञ्जनावग्रहप्ररूपणा' इति वाक्यशेषः ॥ अथ केयं मल्लकदृष्टान्तेन प्ररूपणा । तद्यथा नाम कश्चित् पुरुष आपाकशिरसो मल्लकं शरावं गृहीत्वा, रूक्षमिदं भवतीत्यस्य ग्रहणम् । तत्र मल्लके एकमुदकबिन्दुं प्रक्षिपेत् स नष्टः, तत्रैव तद्भावपरिणतिमापन्न इत्यर्थः । शेष सुबोधं यावद् जेणं तं मल्लगं'। 'रावेहिति' आर्द्रता नप्यति । शेष सुबोधम् । नवरं ' पवाहेहिति ' प्लावयिष्यतीति । एवामेवेत्यादि । अतिबहुत्वात् प्रतिसमयमनन्तैः शब्दपुद्गलैर्यदा तद् व्यञ्जनं पूरितं भवति, तदा 'हु' इति करोति तमर्थ गृह्णातीत्युक्तं भवति । किविशिष्टं !, नाम-जात्यादिकल्पनारहितम् । अत एवाऽऽह- 'नो चेव णं जाणइ के वेस सद्दाइ त्ति' न पुनरेवं जानाति क एष शब्दादिः ? इत्यर्थः । एवं च सति सामयिकत्वादविग्रहस्य, अर्थावग्रहात् पूर्व सर्वो व्यञ्जनावग्रहः "॥ .
तदेवमस्य व्यञ्जनावग्रहस्वरूपमतिपादकस्य नन्दिसूत्रस्य शेषं प्रायः सुगममिति मन्यमानो भाष्यकारः “जाहे तं वंजणं पूरियं होई" इत्येतद् व्याचिख्यासुराह
तोएण मल्लगं पिव वंजणमापूरियं ति जं भणियं । तं दवमिंदियं वा तस्संजोगो व न विरुद्धं ॥ २५०॥
'जं भणियं' यदुक्तं नन्दिसूत्रकारेण । किं तत् ?, इत्याह- व्यञ्जनमापूरितमिति । केन किंवत् १, इत्याह- तोयेन जलेन मल्लक रावं तद्वदिति । तस्मिन् सूत्रकारभणिते व्यञ्जनं द्रव्यं गृह्यते, इन्द्रियं घा, तयोर्वा द्रव्ये-न्द्रिययोः संयोगः संबन्धः, इति सर्वथाऽप्यविरोधः । इदमुक्तं भवति-व्यञ्जनशब्देन शब्दादिविषयपरिणतपुद्गलसमूहरूपं द्रव्यं, श्रोत्रादीन्द्रियं वा, द्रव्ये-न्द्रिययोः संबन्धो वा गृह्यते, न कश्चिद् विरोधः, व्यज्यते प्रकटीक्रियते विवक्षितोऽर्थोऽनेनेति व्यञ्जनमित्यस्या व्युत्पत्तेः सर्वत्र घटनात् ॥ इति गाथार्थः ॥ २५० ॥ केवलं द्रव्यादिषु त्रिष्वपि व्यञ्जनशब्दवाच्येषु प्रत्यकमापूरितत्वे विशेषो द्रष्टव्यः । कः पुनरसौ ?, इत्याह
दैव्वं माणं पूरियमिंदियमापूरियं तहा दोण्हं । अवरोप्परसंसग्गो जया तया गिण्हइ तमत्थं ॥ २५१ ॥ 'दव्यं ति यदा द्रव्यं व्यञ्जनमधिक्रियते तदा "जाहे तं बंजणं पूरियं होई" इति कोऽर्थः ? इत्याह-'माणं पूरियं ति' मानं तस्य शब्दादिद्रव्यस्य प्रमाणं प्रतिसमयप्रवेशेन प्रभूतीकृतत्वात् स्वप्रमाणमानीतं प्रकर्षपुपनीतं स्वग्राहकज्ञानजनने समर्थीकृतमिति यावत् । यदा
१ यदा तब्यञ्जनं पूरितं भवति । २ तोयेन मालकमिव व्यञ्जनमापूरितामाते यद् भणितम् । तत् व्यमिन्द्रियं वा तत्संयोगो वा न विरुद्धम् ॥२५०॥
३ ज. 'कदाचिद्'। । द्रव्यं मानं पूरितमिन्द्रियमापूरितं तथा द्वयोः । परस्परसंसर्गो यदा तदा गृह्णाति तमर्थम् ॥ २५ ॥ विन्द्रियमितीन्द्रियं व्यञ्जनमधिक्रियते तदा" जाहे तंबंजणं पूरियं होइ" इति किमुक्तं भवति?, इत्याह-'आपूरियं ति' आपूरितं व्याप्त भृतं वासितमित्यर्थः । तथा, 'दोहं ति' द्वयोः श्रोत्रादीन्द्रिय-शब्दादिपरिणतद्रव्ययोः संबन्धो यदि व्यञ्जनमधिक्रियते तदा "जाहे तंबंजणं परियं होई', इति किमुक्तं भवति', इत्याह-'अवरोप्परसंसग्गो त्ति' सम्यक् सर्गो योगः संसर्गः सम्यक संवन्ध इत्यर्थः. | इदमत्र हृदयम्-अस्मिन् पक्षे यदा तयोरिन्द्रिय-द्रव्ययोः परस्परमतीव संयुक्तताऽनुषक्तताऽङ्गाङ्गिभावेन परिणामो भवति, तदा प्रस्तुत
संबन्धलक्षण व्यञ्जनमापूरितं भवतीत्युच्यत इति । 'जया तया गिण्हइ तमत्थं ति' एवं यदा त्रिविधमपि व्यञ्जनं प्रकारत्रयेणाऽऽपूरितं.. । भवति, तदा तं विवक्षितं शब्दादिकमर्थमव्यक्तं नाम-जात्यादिकल्पनारहितं गृहाति । एतच्च "तोहे हुँ ति करेइ" इत्यस्य व्याख्यानम् । । अर्थावग्रहश्चाऽयमेकसामयिको विज्ञेयः, इतरस्तु पूर्वमन्तर्मुहूर्त द्रव्यप्रवेशादिरूपो व्यञ्जनावग्रहोऽवसेयः॥ इति गाथार्थः॥ २५१॥ किंविशिष्टं पुनस्तमर्थ गृह्णाति ?, इत्याशङ्कय खत एव भाष्यकारस्तत्स्वरूपमाह
सामन्नमणिदेसं सरूव-नामाइकप्पणारहियं । जइ एवं जं तेणं गहिए सद्दे त्ति तं किह णु ? ॥ २५२ ॥ ग्राह्यवस्तुनः सामान्य-विशेषात्मकत्वे सत्यप्यर्थावग्रहेण सामान्यरूपमेवाऽर्थ गृह्णाति, न विशेषरूपम् , अर्थावग्रहस्यैकसामयिकत्वात, समयेन च विशेषग्रहणायोगादिति । सामान्यार्थश्च कश्चिद् ग्राम-नगर-वन-सेनादिशब्देन निर्देश्योऽपि भवति, तद्व्यवच्छेदार्थमाहअनिर्देश्य केनापि शब्देनाऽनभिलप्यम् । कुतः पुनरेतत् , इत्याह- यतः स्वरूप-नामादिकल्पनारहितम् , आदिशब्दाज्जाति-क्रिया-गुणद्रव्यपरिग्रहः । तत्र रूप-रसाद्यर्थानां य आत्मीयचक्षुरादीन्द्रियगम्यः प्रतिनियतः स्वभावस्तत् स्वरूपम् । रूप-रसादिकस्तु तदभिधायको ध्वनिर्नाम, रूपत्व-रसत्वादिका तु जातिः । प्रीतिकरमिदं रूपं, पुष्टिकारोऽयं रस इत्यादिकस्तु शब्दः क्रियाप्रधानत्वात् क्रिया। कृष्णनीलादिकस्तु गुणः । पृथिव्यादिकं पुनद्रव्यम् । एषां स्वरूप-नाम-जात्यादीनां कल्पना अन्तर्जल्पारूषितज्ञानरूपा तया रहितमेवार्थमर्थावग्रहेण गृह्णाति यतो जीवः, तस्मादनिर्देश्योऽयमर्थः प्रोक्तः, तत्कल्पनारहितत्वेन स्वरूप-नाम-जात्यादिप्रकारेण केनापि निर्देष्टुमशक्यत्वादिति । एवमुक्ते सति परः प्राह- 'जइ एवमित्यादि' यदि स्वरूप-नामादिकल्पनारहितोऽर्थोऽर्थावग्रहस्य विषय इत्येवं व्याख्यायते भवद्भिः, तर्हि 'जति' यन्नन्यध्ययनसूत्रे प्रोक्तं । किम् ?, इत्याह- "तेणं गहिए सद्दे त्ति" उपलक्षणत्वादित्थं संपूर्ण द्रष्टव्यम्" से जहा नामए केइ पुरिसे अव्बत्तं सई सुणेज्जा, तेणं सद्दे ति उग्गहिए, न उण जाणइ के वेस सद्दाइ ति । तं किह णु त्ति'
- यदा तब्यव्यञ्जनं पूरितं भवति । २ तदा 'हुँ' इति करोति । . सामान्यमनिर्देश्य स्वरूप-नामादिकल्पनारहितम् । यद्येवं यस् 'तेन गृहीतः शब्दः' इति तत् कथं नु! ॥ २५२ ॥ ४ क.ग. 'सहिति ।
५ तथानामा कश्चित् पुरुषोऽव्यक्तं शब्दं शृणुयात् । तेन शब्द इस्यवगृहीतः, न पुनर्जानाति क एष शब्द इति ॥
For Private and Personal Use Only