________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विशेषा०
प्राप्तमर्थ गृहाति चक्षुः, तर्हि अतिसंप्राप्तानप्यञ्जन-रजो-मल-शलाकादीन् कस्माद्न गृह्णाति । मनोऽपि प्राप्तान् सर्वानपि किमिति न गृह्णाति । गृह्णात्येवेति चेत् । न, ग्रहेणाऽनवस्थानप्रसङ्गात्- यावद्धि घटं गृह्णाति, तावत् पटं, शङ्ख, शुक्तिकादीन् वा किमिति न गृहातीति । घटमाप्तिकाले पटादयो न प्राप्ता एवेति चेत् । न, तदप्राप्ती हेत्वभावात् , तथाहि-न तावत् केट-कुव्यादयस्तेषामाधारकार, तैरन्तरितानामपि मेर्वादीनां मनसा परिच्छेदानुभवात् । कर्मोदयात् , खभावाद् वा प्रतिनियतमेव मनः प्राप्नोतीति चेत् । नन्वंतदभाग्यकारिणो नयनस्यापि समानम् ॥ इति गाथार्थः ॥ २४८॥
तस्मात् किमिह स्थितम् १, इत्याह
सामत्थाभावाओ मणो व्व विसयपरओ न गिण्हेइ । कम्मक्खओवसमओ साणुग्गहओ य सामत्थं ॥२४९॥
चक्षुः सिद्धान्तनिर्दिष्टनियतविषयपरिमाणात् परतो न गृह्णातीति प्रतिज्ञा, चक्षुषश्वेह कर्तृत्वं प्रक्रमाद् गम्यते, सामर्थ्याभावादिति हेतुः, मनोवदिति दृष्टान्तः । सामर्थ्याभावोऽपि नयनस्य कुतः, इत्याह- 'कम्मक्खओ इत्यादि तदावरणकर्मक्षयोपशमात्, खानुग्रहतश्चाप्राप्तेष्वपि केचिद् योग्यदेशावस्थितेष्वर्थेषु परिच्छेदे कर्तव्ये लोचनस्य सामर्थ्य भवति । इदमुक्तं भवति- अमातत्वे समानेऽपि येष्वर्थेषु ग्रहणविषये कर्मक्षयोपशमो भवति, तथा, स्वस्याऽऽत्मनो रूपा-ऽऽलोक-मनस्कारादिसामग्याः सकाशादनुग्रहो भवति, तेष्वर्थेषु कर्मक्षयोपशमसद्भावात, शेषसामग्यनुग्रहाच चक्षुषो ग्रहणसामर्थ्य भवति । येषु त्वर्थेषु ग्रहणविषये कर्मक्षयोपशमः, शेषसामग्यनुग्रहश्च नास्ति, तेषु तस्य सामर्थ्याभाव इत्यर्थापत्तित एव गम्यते । तस्माद् व्यवस्थितममाप्यकारित्वं नयन-मनसोः । ततच स्पर्शनरसन-घ्राण-श्रोत्रभेदाचतुर्विध एव व्यञ्जनावग्रह इति स्थितम् ॥ इति गाथार्थः॥ २४९॥
तदेवं 'नयण-मणोवजिदियभेयाओ वंजणोग्गहो चउहा' इत्येतत् समर्थितम् । अथ प्रकृतमुच्यते
- 'तेत्थोग्गहो दुरूवो गहणं जं होई वंजण-त्थाणं । वंजणओ य जमत्थो तेणाईए तयं वोच्छं' ॥१॥
इत्यादिना ग्रन्थेन प्रतिज्ञातव्यञ्जनावग्रहस्वरूपमतिपादनं चेह प्रकृतम् । तस्य च व्यञ्जनावग्रहस्य स्वरूपं नन्धध्ययनागमसूत्रे प्रतिबोधक-मल्लकोदाहरणाभ्यां प्रतिपादितम् , तद्यथा
क. ग. 'हणेऽन' । २ घ. छ. ज. 'घट'। सामर्थ्याभावाद् मन इव विषयपरतो न गृहाति । कर्मक्षयोपशमतः सानुप्रहत सामर्थ्यम् ॥२९॥ 7 . ४ गाथा २०४।५ गाथा १९३ । ६ क. ग. घ. छ. ज. 'दुभेओ ग' ७ क.ग. घ. छ. ज. 'होज्न ।
" 'बंजणोग्गहस्स परूवणं करिस्सामि पडिबोहगदिटुंतेणं, मल्लगदिद्रुतेण य। से कि त पडिबोहगदिट्ठतेणं । पडिबोहगदिद्वैतेणं से- जहानामए केइ पुरिसे कंचि पुरिसं सुत्तं पडिबोहेज्जा-अमुग! अमुग ! ति । तत्थ य चोयए पण्णवर्ग एवं वयासी-किं एगसमयपविट्ठा पोग्गला गहणमागच्छंति, जाव संखेज-असंखेजसमयपविट्ठा पोग्गला गहणमागच्छंति । एवं वयंतं चोयगं पन्नवए एवं वयासी- नो एगसमयपविट्ठा पोग्गला गहणमागच्छंति, जाव नो संखेज्जसमयपविट्ठा पोग्गणा गहणमागच्छति, असंखेज्जसमयपविट्ठा पोग्गला गहणमागच्छति, सेत्तं पडिबोहगदिट्ठतेणं । से किं तं मल्लगदिट्ठतेणं । मल्लगदिट्ठतेणं से- जहानामए केइ पुरिसे आवागसीसाओ मल्लगं गहाय तत्थेगं उदगबिंदु पक्खिवेज्जा, से नढे । अन्ने वि पक्खित्ते, से वि नढे । अन्ने वि पक्खित्ते, से वि नढे । एवं पक्खिप्पमाणेसु पक्खिप्पमाणसु होही से उदगबिंदू जेणं तं मल्लगं रोवेहिति। होही से उदगबिंदू जेणं तंसि मल्लगंसि ठाइति । होही से उदगबिंदू जे णं तं मल्लगं भरेहिति । होही से उदगबिन्दू जेणं तंसि मल्लगंसि न द्वाहिहिति । होही से उदगबिंदू जेणं तं मल्लगं पवाहेहिति । एवामेव पक्खिप्पमाणेहिं अणंतेहिं पोग्गलेहिं जाहे तं वंजणं परियं होइ, ताहे हुँ ति करेइ, नो चेव णं जाणइ के वेस सदाइ" इत्यादि।
इदं सत्र नन्दिविवरण एवेत्थं व्याख्यातम , तद्यथा- (नन्दिवृत्ति-पृ.६५)
"प्रतिबोधक-मल्लकदृष्टान्ताभ्यां व्यञ्जनावग्रहस्य प्ररूपणं करिष्यामि । तत्र प्रतिबोधयतीति प्रतिबोधकः स एव दृष्टान्तस्तेन, तद्यथा नाम कश्चिदनिर्दिष्टस्वरूपः पुरुषः कश्चिदन्यमनिर्दिष्टस्वरूपमेव पुरुषं सुप्तं सन्तं प्रतिबोधयेत् । कथम् !, इत्याह- अमुक ! अमुक ! इति । तत्र प्रेरकः प्रज्ञापकमेवैमवादीत्-किमेकसमयप्रविष्टा इत्यादि । एवं वदन्तं प्रेरक प्रज्ञापक . एवमुक्तवान्- नो एकसमयप्रविष्टा इत्यादि, प्रकटाथै, यावद् नोसंख्येयसमयप्रविष्टाः पुद्गला ग्रहणमागच्छन्ति । नवरमयं प्रतिषेधः शब्दविज्ञानग्राधतामधिकृत्य वेदितव्यः, शब्दविज्ञानजनकत्वेनेत्यर्थः, अन्यथा संबन्धमात्रमधिकृत्य प्रथमसमयादारभ्य पुद्गला ग्रहणमागच्छन्त्येव । ' असंखेज्ज इत्यादि ' प्रतिसमयप्रवेशेनाऽऽदित आरभ्याऽसंख्येयसमयैः प्रविष्टा असंख्येय
व्यञ्जनावग्रहस्य प्ररूपणां करिष्यामि प्रतिबोधकदृष्टान्तेन, मल्लकदृष्टान्तेन च । अथ केयं प्रतिबोधकरष्टान्तेन । प्रतिबोधकदृष्टान्तेन सा- यथानामा कश्चित् पुरुषः कश्चित् पुरुष सुसं प्रतिबोधयेत्- अमुक ! अमुक! इति । तत्र च चोदकः प्रज्ञापकमेवमवादीत्-किमेकसमयप्रविष्टाः पुनला ग्रहणमागच्छन्ति, यावत्संख्येवा-संख्येयसमयप्रविष्टाः पुगका ग्रहणमागच्छन्ति । एवं वदन्तं चोदकं प्रज्ञापक एवमवादी-मो एकसमयप्रविष्टाः पुनला ग्रहणमागच्छन्ति यावत् नो संख्येयसमयप्रविष्टाः पुद्गला ग्रहणमागच्छन्ति, असंख्येयसमयप्रविष्टाः पुद्गला ग्रहणमागच्छन्ति, सेयं प्रतिबोधकदृष्टान्तेन । अथ केयं मल्लकदृष्टान्तेन । मलगहष्टान्तेन सा- यथानामा कश्चित् पुरुष आपाकशिरसो मल्लकं गृहीत्वा तत्रैकमुदकविन्दुं प्रक्षिपेत्, स नष्टः । अन्योऽपि प्रक्षिप्तः, सोऽपि नष्टः । अन्योऽपि प्रक्षिप्तः सोऽपि नष्टः । एवं प्रक्षिप्यमाणेषु प्रक्षिप्यमाणेषु भविष्यति स उदकविन्दुर्यस्तं मल्लकमार्द्रता नेष्यति । भविष्यति स उदकबिन्दुर्यस्तस्मिन् मल्लके स्थास्यति । भविष्यति स उदकविन्दुर्यस्तं मस्कक भरिष्यति । भविष्यति स उदकविन्दुर्यस्तस्मिन् मल्लके म स्थास्यति । भविष्यति स उदकविन्दुर्यस्तं मल्लकं प्लावयिष्यति । एवमेव प्रक्षिप्यमाणेरनन्तैः पुद्गलैयदा तद् व्यञ्जनं परितं भवति तदा 'हु' इति करोति, नो चेन जानाति क एष शब्दादिः । ॥२ वेश्योऽयं शब्द आकरणार्थे । ३ क. ग. 'वं सम' ।
For Private and Personal Use Only