________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
. विशेषा०
नेयाउ च्चिय जं सो लहइ सरुवं पईव-सद व्व । तेणाजुत्तं तस्सासंकप्पिय वंजणग्गहणं ॥२४॥ समतिसमयं मनोद्रव्योपादानं ज्ञेयार्थावगमश्च मनसो भवत्येव, न पुनस्तस्यानुपलब्धिकाल: संभवति । कुतः१, इत्याह-यद् यस्मात् कारणात् 'सो' इति प्राकृतशैल्या नपुंसकमपि मनः संबध्यते, ज्ञायत इति ज्ञेयं चिन्तनीयं वस्तु तस्मादेव, स्वरूपमात्मसत्तास्वभावं लभते, नाऽन्यतः । ततो यदि तदेव ज्ञेयं नावगच्छेत् , तर्हि तस्मादुत्पत्तिरप्यस्य कर्थ स्यात् । इदमुक्तं भवति-सान्वर्थक्रियावाचकशब्दाभिधेया हि मनःप्रभृतयः, तद्यथा-मनुते मन्यते वा मनः, प्रदीपयतीति प्रदीपः, शब्दयति भाषत इति शब्दः, दहतीति दहनः, तपतीति जपनः। एतानि च विशिष्टक्रियाकर्तृत्वप्रधानानि मनामभृतिवस्तूनि यदि तामेवार्थमनन-प्रदीपन-भाषणादिकामर्थक्रियां न कुर्युः, सदा तेषां स्वरूपहानिरेव स्यात् । तस्माद् यथा प्रदीपनीय-शब्दनीयवस्त्वपेक्षया प्रदीप-शब्दाभिधानप्रवृत्तेः प्रदीप-शब्दयोरर्थयोरमदीपनमशन्दनं चायुक्तम् तथा मनसोऽपि मननीयवस्तुमननादेव मनोऽभिधानप्रवृत्तेस्तदमननं न युक्तम् । ततः किम् १, इत्याह-येनैवम् , तेनाऽसंकल्पितान्यनालोचितानि, अनवगतानीति यावत् , असंकल्पितानि च तानि शब्दादिविषयभावेन परिणतद्रव्यरूपाणि व्यञ्जनानि च तेषां ग्रहणमसंकल्पितव्यञ्जनग्रहणं तस्य मनसोऽयुक्तम् , किन्तु संकल्पितानामेवाऽर्थावग्रहद्वारेणानगतानामेव तेषां शब्दादिद्रव्याणां ग्रहणं युक्तम् । तस्माद् न मनसोऽनुपलब्धिकालोऽस्ति, तथा च न व्यञ्जनावग्रहसंभव इति स्थितम् ॥ इति गाथार्थः॥ २४४ ॥ तदेवं नयन-मनसोविस्तरेणापाप्यकारितायां साधितायां नयनपक्षेऽद्यापि दूषणशेषमुत्पश्यन् परः प्राह
जैइ नयणिन्दियमपत्तकारि सव्वं न गिण्हए कम्हा? । गहणा-गहणं किंकयमपत्तविसयत्तसामन्ने? ॥२४५॥
याक्तयुक्तिभ्यो नयनेन्द्रियमप्राप्तकारि, तर्हि सर्वमपि त्रिभुवनान्तर्वर्तिवस्तुनिकुरम्ब कस्माद् न गृह्णाति, अमासत्वाविशेषात् । एतदेव व्यक्तीकरोति- अप्राप्तो विषयो यस्य तदप्राप्तविषयं तद्भावोमाप्तविषयत्वं तस्मिन् सामान्येऽविशिष्टेऽपि सति यदिदं कस्यचिद- . र्थस्य ग्रहणं, कस्यचिदग्रहणं, तत् किंकृतं किंनिबन्धनम् , नेह किश्चिद् निबन्धनमुत्पश्याम इति भावः ॥ इति गाथार्थः॥ २४५॥" तस्माद् भो आचार्य । तस्य चक्षुषो विषयपरिमाणाऽनयत्यमामोति, इत्येतदेवाहविसयपरिमाणमनिययमपत्तविसयं ति तस्स मणसो व्व । मणसो वि विसयनियमो नकमइ जओ स सव्वत्थ॥२४॥ (मप्म) ज्ञेयादेव यत् तल्लभते स्वरूप प्रदीप-शब्दाविव । तेनाऽयुक्तं तस्याऽसंकल्पितव्यञ्जनग्रहणम् ॥ २४ ॥२. छ. ज. 'म'। +(य) ३ यदि नयनेन्द्रियमप्राप्तकारि, सबै न गृह्णाति कस्मात् ।। महणा-ग्रहणं किंकृतमप्राप्तविषयत्वसामान्ये ॥ २१५॥
विषयपरिमाणमनियतमप्राप्तविषयामिति तस्य मनस इव । मनसोऽपि विषयनियमोन कामति यतः स सर्वत्र ॥ २४॥
विषयस्य ग्राह्यस्य परिमाणमनियतमपरिमितं प्राप्नोति तस्य चक्षुष इति प्रतिज्ञा। हेतुमाह- अमाप्तविषयमिति कृत्वा । मनस इवेति दृष्टान्तः । प्रयोगः- यदप्राप्तमपि विषयं परिच्छिनत्ति, न तस्य तत्परिमाणं युक्तं, यथा मनसः, अप्राप्तं च विषयमवगच्छति चक्षुः, तस्माद् । न तस्य तत्परिमाणं युक्तमिति । अथेह प्रयोगे दृष्टान्तस्य साध्यवैकल्यं मूरिरुपदर्शयति-मनसो दृष्टान्तीकृतस्याऽभाष्यकारिणो विषयनियमो 'अस्त्येव' इति शेषः। कुतः, इत्याह- यतः 'सति तदपि मनः सर्वेष्वप्यर्थेषु न कामति न प्रसरति ॥ इति गाथार्थः ॥ २४६॥ तथाहि
अत्थग्गहणेसु मुज्झइ सन्तेसु वि केवलाइगम्मेसु । तं किंकयमग्गहणं अपत्तकारित्तसामन्ने ? ॥ २४७ ॥ । अर्था एव मतेदेष्णवेशत्वाद् गहनांनि अर्थगहनानि तेष्वनन्तेषु सत्स्वपि विद्यमानेष्वपि । कथंभूतेषु ? इत्याह- केवलं केवल ज्ञानमादिर्येषामवधिज्ञाना-ऽऽगमादीनां तानि केवलादीनि तैर्गम्यन्ते ज्ञायन्ते केवलादिगम्यानि तेषु । एवंभूतेष्वर्थगहनेषु सत्खपि कस्यचिद् मन्दमतेर्जन्तोर्मनो मुह्यति कुण्ठीभवति तदवगमाय न प्रभवति-तान् गहनभूतान् केवलादिगम्यान् सतोऽप्यर्थान् न गृहातीति तात्पर्यम् । तदत्राहमपि भवन्तं पृच्छामि- तदेतद् मनसोऽग्रहणमर्थानां किंकृतं किंनिबन्धनम् १, अप्राप्तकारित्वसामान्यप्राप्तकारित्वे तुल्येऽपीत्यर्थः । तस्माद् मनसोऽपि विषयपरिमाणसद्भावादनन्तरगाथोक्तः साध्यविकलो दृष्टान्त इति स्थितम् ।। इति गाथार्थः ॥२४७॥
तत् किंकृतमग्रहणमर्थानाम् १, इत्यत्र पराभिप्रायमाशङ्कमानः प्राह-.
कम्मोदयओ व्व सहावओ व्व नणु लोयणे वि तं तुल्लं । तुल्लो व उवालंभो एसो संपत्तविसए वि ॥२४८॥
यत् केषांचिदर्थानां मनसोऽग्रहणं तत् 'तदावरणकोदयाद् वा, स्वभावाद् वा' इति परो ब्रूयात् । नन्वेतल्लोचनेऽपि तुल्यम्, यतस्तदप्यप्राप्यकारित्वे तुल्येऽपि कर्मोदयात् , तत्वाभाव्याद् वा काश्चिदेवार्थान् गृह्णाति न सर्वानिति । तदेवं नयनस्यामाप्यकारित्वेऽतिप्रसङ्गलक्षणं प्राप्तकारिवादिना यद् दूषणमुक्तं तत्परिहृतम् । अथवा यो नयन-मनसोः प्राप्यकारित्वमभ्युपगच्छति, तस्याऽप्येतद् दूषणमापतत्येव, यच्च द्वयोदेषणं न तदेकस्य दातुमुचितम् , इत्येतच्चेतसि निधाय पाह- 'तुल्लो वेत्यादि ' वेत्यथवा, एषोऽतिप्रसङ्गलक्षण उपालम्भस्तुल्यः समानः। क्व, इत्याह-संपातविषयत्वेऽपि नयन-मनसोरभ्युपगम्यमाने, तथाहि- अत्रापि शक्यते वक्तुम- यदि
१५. ज. 'सोऽपि ' । २ अर्थगहनेषु मुह्यति सत्स्वपि केवलादिगम्येषु । तत् किंकृतमग्रहणमप्राप्तकारित्वसामान्ये । ॥ २४ ॥ ... ३ काँदयतो वा.स्वभावतो वा लोचनेऽपि ननु तत् तुल्यम् * तुल्यो वोपालम्भ एष संप्रासविषयेऽपि ॥२८॥
For Private and Personal Use Only