________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
72 विशेषा० पारिशेष्याद् बाह्यार्थापेक्षयैव प्राप्यकारित्वा-प्राप्यकारित्वचिन्ता युक्ता । स च मनसाप्राप्त एवं गृह्यते, इति न तत्र व्यभिचारः । भवतु वा मनसः स्वकीयहृदयादिचिन्तायां प्राप्यकारिता, तथापि न तस्य व्यञ्जनावग्रहसंभव इति दर्शयन्नाह
तेदेसचिन्तणे होज वंजणं जइ तओ न समयम्मि । पढमे चेव तमत्थं गेहेज न वैजणं तम्हा ॥२४॥
स चासौ स्वकायहृदयादिदेशश्च तस्य चिन्तनं तस्मिन् सति स्यात् मनसो व्यञ्जन व्यञ्जनावग्रहः । यदि किम् ?, इत्याह'जइ तओन समयम्मि पढमे चेव तमत्थं गेण्हेज ति' यदि तद् मनः प्रथम एव समये तं स्वकीयहृदयादिकमर्थं न गृहीया नावगच्छेदिति । एतच नास्ति, यस्मात् मनसः प्रथमसमय एवार्थाऽवग्रहः समुत्पद्यते, न तु श्रोत्रादीन्द्रियस्येव प्रथम व्यञ्जनावग्रहः, तस्य हि क्षयोपशमापाटवेन प्रथममर्थानुपलब्धिकालसंभवाद् युक्तो व्यञ्जनावग्रहः, मनसस्तु पटुक्षयोपशमत्वाचक्षुरिन्द्रियस्येवार्थानुपलम्भकालस्यासंभवेन प्रथममेवावग्रह एवोपजायते । अत्र प्रयोग:-इह यस्य शेयसंवन्धे सत्यप्यनुपलब्धिकालो नास्ति न तस्य व्यञ्जनावग्रहो दृष्टः, यथा चक्षुषः, नास्ति चार्थसंबन्धे सत्यनुपलब्धिकालो मनसा, तस्माद् न तस्य व्यञ्जनावग्रहः। यत्र स्वयमभ्युपगम्यते न तस्य ज्ञेयसबन्धे सत्यनुपलब्धिकालासंभवः, यथा श्रोत्रस्येति व्यतिरेकः । तदेवं परोक्तपक्षद्वयेऽपि मनसो व्यञ्जनावग्रहं निराकत्योपसंहरति-'न बंजणं तम्ह त्ति तस्मादुक्तमकारेण मनसो न व्यञ्जनावग्रहसंभवः ।। इति गाथार्थः ॥ २४१॥ कस्मादून मनसो व्यञ्जनावग्रह इत्याशङ्कथाऽत्रार्थे विशेषवतीमुपपत्तिमाह- ..
सैमए समए गिण्हइ दव्वाइं जेण मुणइ य तमत्थं । जं चिंदिओपओगे वि वंजणावग्गहेऽतीते ॥२४२॥ होइ मणोवावारो पढमाओ चेव तेण समयाओ । होइ तदत्थग्गहणं तदण्णहान प्पवत्तेज्जा ॥ २४३ ॥ 'समए समए त्ति' प्रतिसमयमित्यर्थः, इदमुक्तं भवति- मनोद्रव्यग्रहणशक्तिसंपन्नो जीवः कस्यचिदर्थस्य चिन्तावसरे प्रतिसमयं मनोद्रव्याणि गृहाति, तं च चिन्तनीयमर्थ प्रतिसमयं 'मुणइ त्ति' जानाति येन कारणेन, तेन प्रथमसमयादेव भवति तस्य चिन्तनीयार्थस्य ग्रहणमिति द्वितीयगाथायां संबन्धः, प्रथमसमयादेवार्थावबोधः प्रवर्तत इत्यर्थः, अर्थानुपलब्धिकालस्त्वेकोऽपि समयो
१ सद्देशचिन्तने भवेद् व्यञ्जनं यदि ततो न समये । प्रथम एव तमर्थ गृहीयात् न व्यजनं तस्मात् ॥ २४॥ २ समये समये गृह्णाति द्रव्याणि येन जानाति च तदर्थम् । यश्चिन्द्रियोपयोगेऽपि म्यअनावग्रहेऽतीते ॥ २४ ॥
भवति मनोव्यापारः प्रथमादेव तेन समयात् । भवति तदर्थग्रहणं तवंन्यथा में प्रवर्तेत ॥ २३ ॥ नास्ति, अतो न मनसो व्यञ्जनावग्रहसंभव इति भावः ॥ आह- नन्वपवरकादिव्यवस्थितो यदेन्द्रियव्यापाररहितः केवलेन मनसाऽर्थान् पोलोचयति, तदा मा भूद् मनसो व्यञ्जनावग्रहः, यस्तु श्रोत्रादीन्द्रियव्यापारे मनसोऽपि व्यापारस्तत्र प्रथममनुपलब्धिकालस्य भवद्भिरपीष्यमाणत्वात् किमिति' व्यञ्जनाद् मनसो व्यजनावग्रहो नेष्यते , इत्याशङ्कयाह- 'जं चिंदिओवओगे वि वंजणावग्गहेऽतीते होइ मणोवावारो ति' यच्च यस्माच्च कारणादिन्द्रियस्य श्रोत्रादेरुपयोगेऽपि शब्दाद्यर्थग्रहणकालेऽपीत्यर्थः । किम, इत्याह-व्यञ्जनावग्रहेऽतीते सति मनसो व्यापारो भवति । इदमुक्तं भवति-न केवलं मनसः केवलावस्थायां प्रथममर्थावग्रह एव व्यापारः, किन्तु श्रोत्रादीन्द्रियोपयोगकालेऽपि तथैव, तथाहि- श्रोत्रादीन्द्रियोपयोगकाले व्याप्रियते मनः, केवलमर्थावग्रहादेवाऽऽरभ्य, न तु व्यञ्जनावग्रहकाले । अर्थाऽनवबोधस्वरूपो हि व्यञ्जनावग्रहः, तदवबोधकारणमात्रत्वात् तस्य, मनस्त्वर्थावबोधरूपमेव, मनुतेर्थान् , मन्यन्तेऽर्था अनेनेति वा मन - इति सान्वर्थाभिधानाभिधेयत्वात् । किश्च, यदि व्यञ्जनावग्रहकाले मनसो व्यापार: स्यात् तदा तस्यापि व्यञ्जनावग्रहसद्भावादष्टाविंशतिभेदभिन्नता मतेर्विशीर्येत । तस्मात् प्रथमसमयादेव तस्याऽर्थग्रहणमेष्टव्यम् । अन्यथा किमत्र बाधकम् , इत्याह- 'तदण्णहा न प्पवत्तेज त्ति' यदि हि प्रथमसमयादेव मनसो'ऽर्थग्रहणं नेष्यते तदा तस्य मनस्त्वेन प्रवृत्तिरेव न स्यादनुत्पत्तिरेव स्यादित्यर्थः । यथा हि स्वाभिधेयानर्थान् भाषमाणैव भाषा भवति, नान्यथा; यथा च स्वविषयभूतानर्थानवबुध्यमानान्येवाऽवध्यादिज्ञानान्यात्मलाभ लभन्ते, अन्यथा तेषामप्रवृत्तिरेव स्यादिति एवं स्वविषयभूतानान् प्रथमसमयादारभ्य मन्वानमेव मनो भवति, अन्यथाऽवध्यादिवत् तस्य प्रवृत्तिरेव न स्यात् । तस्मात् तस्याऽनुपलब्धिकालो नास्ति, तथा चन व्यञ्जनावग्रह इति स्थितम् । न चैतत् स्वमनीषिकया युक्तिमात्रमुच्यते, आगमेऽपि व्यञ्जनावग्रहेऽतीत एवेन्द्रियोपयोगे मनसो व्यापाराभिधानात, तथा चोक्तं कल्पभाष्ये- ..
" अत्थाणंतरचारी चित्तं निययं तिकालविसयं ति । अत्थे उ पडुप्पण्णे विणिओगं इंदियं लहइ " ॥१॥ ____ अत्र व्याख्या- अर्थे शब्दादौ श्रोत्रादीन्द्रियव्यञ्जनावग्रहेण गृहीतेऽनन्तरमर्थावग्रहादारभ्य चरति प्रवर्तते, इत्यर्थानन्तरचारि मनः, न तु व्यञ्जनावग्रहकाले तस्य प्रवृत्तिरिति भावः, त्रिकालविषयं चित्तं, सांपतकालविषयं त्विन्द्रियम् । इत्यलं विस्तरेण ॥ इति गाथार्थः॥२४२॥ २४३॥ .. ___अमुमेव मनसोऽनुपलब्धिकालासंभवं सयुक्तिकं भावयबाह
क. ग. 'ति म'। २ क. ग. 'ऽर्थावग्रहो ने। ३ क. ग. 'स्मान्न त'। ४ क. ग. 'लोऽस्ति'।। - ५ अर्थानन्तरचारि चित्तं नियतं त्रिकालविषयमिति । अर्ये तु प्रत्युत्पन्ने विनियोगमिन्द्रियं लभते ॥१॥
For Private and Personal Use Only