________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
71
विशेषा०
जहे देहत्थं चक्खं जं पइ चंदं गयं ति, न य सच्चं । रूढं मणसो वि तहा न य रूढी सच्चिया सव्वा ॥२३॥
- यथा देहस्थं देहादनिर्गतमपि चक्षुः 'चन्द्रं गतम्' इति जल्पति लोका, न च तत् सत्यम् , चक्षुषो बढ्न्यादिदर्शनेन तत्कृतदाहादिपसङ्गात् । तथा तेनैव प्रकारेण मनसोऽपि निर्निबन्धन रूढमिदं यदुत- 'अमुत्र गतं मे मनः' इति । रूढिरपि सत्या भविष्यति, इत्याहन च रूढिः सर्वाऽपि सत्या,
“वटे वटे वैश्रवणश्चत्वरे चत्वरे शिवः । पर्वते पर्वते रामः सर्वगो मधुसूदनः " ॥ १॥ इत्यादिकाया असत्याया अपि दर्शनात् ॥ इति गाथार्थः ॥ २३६ ॥ . तदेवं विषयमाप्तौ निषिद्धायां मनसोऽसद्ग्रहममुश्चन् परः प्रकारान्तरेणापि तस्य व्यञ्जनावग्रहं प्रतिपादयमाह-- "विसयमसंपत्तस्स वि संविज्जइ वजणोग्गहो मणसो । जमसंखेजसमइओ उवओगो जं च सव्वेसु ॥२३७॥
समएसु मणोदब्वाइं गिण्हए वंजणं च दव्वाई । भणियं संबंधो वा तेण तयं जुज्जए मणसो ॥ २३८ ॥ विषयं मेरुशिखरादिक, जला-ऽनलादिकं वा, असंप्राप्तस्यापि- अप्राप्य गृह्णतोऽपीत्यर्थः। किम , इत्याह-संविद्यते युज्यते व्यञ्जनावग्रहो मनसः । कुतः, इत्याह- 'जमसंखेजसमइओ उपभोगो' यद् यस्मात् कारणात् " च्यवमानो न जानाति" इत्यादिवचिनात् सर्वोऽपि च्छमस्थोपयोगोऽसंख्येयैः समयनिर्दिष्टः सिद्धान्ते, न त्वेक-यादिभिः । 'जं च सम्बेसु समयेसु मणोदव्वाइं गिण्हए
ति' यस्माच्च तेषूपयोगसंबन्धिष्वसंख्येयेषु समयेषु सर्वेष्वपि प्रत्येकमनन्तानि मनोद्रव्याणि मनोवर्गणाभ्यो गृह्णाति जीवः द्रव्याणि च, । तत्संबन्धो वा प्रागत्रैव भवद्भिर्व्यञ्जनमुक्तम् , तेन कारणेन तत् तादृशं द्रव्यं, तत्संबन्धो वा व्यञ्जनं व्यञ्जनावग्रह इति हृदयम् , युज्यते
घटते मनसः । यथा हि श्रोत्रादीन्द्रियेणाऽसंख्येयान समयान् यावद् गृह्यमाणानि शब्दादिपरिणतद्रव्याणि, तत्संबन्धो वा व्यञ्जनावग्रहः, तथाऽत्राऽप्यसंख्येयसमयान् यावद् गृह्यमाणानां मनोद्रव्याणां, तत्संबन्धस्य वा किमिति पक्षपातं परित्यज्य मध्यस्थैर्भूत्वाऽसौ नेष्यते , । इति किल परस्याभिप्रायः ॥ इति गाथाद्वयार्थः ।। २३७ ॥ २३८॥ । तदेवं विषयासंमाप्तावपि भङ्गयन्तरेण मनसो व्यञ्जनावग्रहः किल परेण समर्थितः, सांपतं विषयसंप्राप्त्यापि तस्य तं समर्थयन्नाह
यथा देहस्थं चक्षुर्यत् प्रति चन्द्र गतमिति, न च सत्यम् । रूढं मनसोऽपि तथा न च रूदिः सत्यिका (सत्या) सर्वा ॥ २३ ॥२ क, घ. छ. ज, 'म विषयमसंप्राप्तस्यापि संविद्यते व्यअनावग्रहो मनसः । यदसंख्येयसमयिक उपयोगो यच सर्वेषु ॥ २३॥ समयेषु मनोव्याणि गृकाति व्यजनं च द्रव्याणि । भणितं संबन्धो वा तेन तद् युज्यते मनसः ॥ २३८ ॥
देहादणिग्गयस्स वि सकायहिययाइयं विचिंतयओ । नेयस वि संबंधे वंजणमेव पि से जुत्तं ॥ २३९ ।।
देहाच्छरीरादनिर्गतस्यापि मेर्वाद्यर्थमगतस्यापि स्वस्थानस्थितस्यापीत्यर्थः, स्वकाये, खकायस्य वा हृदयादिकमतीव संनिहितत्वादतिसंबद्धं विचिन्तयतो मनसो योऽसौ ज्ञेयेन खकायस्थितहृदयादिना संबन्धस्तत्माप्तिलक्षणस्तस्मिन्नपि शेयसंबन्धे, न केवलं । 'विसयमसंपत्तस्स वि संविज्जई' इत्याद्यनन्तरसमर्थितन्यायेन, इत्यपिशब्दार्थः। किम् ?, इत्याह-व्यञ्जन व्यञ्जनावग्रहः 'से' तस्य मनसो युक्तं घटमानकं, एवमप्यनयाऽपि प्राप्यकारित्वभङ्ग्या ।। इति गाथार्थः॥ २३९ ।।
तदेवं प्रकारद्वयेन मनसः परेण व्यञ्जनावग्रहे समर्थिते, आचार्यः प्रथमपक्षे तावत् प्रतिविधानमाहगिज्झस्स वंजणाणं जं गहणं वंजणोग्गहो स मओ । गहणं मणो, न गिझं को भागो वंजणे तस्स? ॥ २४० ॥
इह — विसयमसंपत्तस्स वि संविज्जइ' इत्यादि यत्परेणोक्तम् , तद् निजाऽसत्पः-परकीयसत्पक्षविषयमसर्पन्महाराग-द्वेषअहग्रस्तचेतीविहलतासूचकमेवावगन्तव्यम् , असंबद्धत्वात , तथाहि- श्रोत्र-घ्राण-रसन-स्पर्शनेन्द्रियचतुष्टयग्राह्यस्य शब्द-गन्धादिविषयस्य संबन्धिनां व्यञ्जनानां तद्रूपपरिणतद्रव्याणां यद् ग्रहणमुपादानं स व्यञ्जनावग्रहोऽस्माकं संमत इति परोऽपि जानात्येव, पागसकत्यतिपादितत्वादिति । मनोद्रव्याण्यपि तर्हि मनसो ग्राह्याणि भविष्यन्ति, ततस्तस्यापि श्रोत्रादेरित व्यञ्जनावग्रहो भविष्यति; अतः किमसंबद्धम् , इत्याह-'गहणं मणो न गिझं ति' चिन्ताद्रव्यरूपं मनोन ग्राह्यम् , किन्तु ग्रहणं गृह्यतेऽवगम्यते शब्दादिरोंऽनेनेति ग्रहणम्- अर्थपरिच्छेदे करणमित्यर्थः । ग्राह्यं तु मेरुशिखरादिकं मनसः सुप्रतीतमेव । अतः को भागः कोऽवसरस्तस्य करणभूतस्य मनोद्रव्यराशेर्व्यञ्जने व्यञ्जनावग्रहेऽधिकृते, न कोऽपीत्यर्थः । ग्राह्यवस्तुग्रहणे हि व्यञ्जनावग्रहो भवति । न च मनोद्रव्याणि ग्राह्यरूपतया गृह्यन्ते, किन्तु करणरूपतया, इत्यसंबद्धमेव पैरोक्तम् ॥ इति गाथार्थः ॥ २४०॥
या च 'देहादणिग्गयस्स वि.सकायाहिययाइयं ' इत्यादिना मनसः प्राप्यकारिता मोक्ता, सापि न युक्ता, खकायहृदयादिको हि । मनसा खदेश एव, यच्च यस्मिन् देशेऽवतिष्ठते, तत् तेन संबद्धमेव भवति, कस्तत्र विवादः १, किं हि नाम तद् वस्त्वस्ति, यदात्मदेशेनाऽसंबद्धम् । एवं हि पाप्यकारितायामिष्यमाणायां सर्वमपि ज्ञानं प्राप्यकार्येव, सर्वस्याऽपि तस्य जीवेन संबद्धत्वात् । तस्मात देहादनिर्गतस्याऽपि स्वकायहृदयादिकं विचिन्तयतः। शेयस्याऽपि संबन्धे व्यञ्जनमेवमपि तस्य युक्तम् ॥ २३९॥ २ गाथा २३७ । प्रामस्य व्यजनानां यद् ग्रहणं व्यजनावमहः स मतः । महणं मनः, न माझं को भागो व्यजने तस्य ?॥२४०॥ ४ घ.छ. क्षवि'। ५ क. ग, ज, 'परेणोक्त'। ६गाथा२३.
For Private and Personal Use Only