________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
70
. विशेषा०
निषेद्धारः। सिद्धं तर्हि परस्य समीहितम् । सिध्येत् , यदि सा व्यञ्जनावग्रहता मनसो भवेत्। न पुनः सा तस्य । कस्य तर्हि सा, इत्याह-सा खलु प्राप्यकारिणां श्रोत्रादीन्द्रियाणां श्रवण-रसन-घ्राण-स्पर्शनानामित्यर्थः, इदमुक्तं भवति- स्त्यानद्धिनिद्रोदये प्रेक्षणकरङ्गभूम्यादौ गीतादिकं शृण्वतः श्रोत्रेन्द्रियस्य व्यञ्जनावग्रहो भवति, कर्पूरादिकं जिघ्रतो घाणेन्द्रियस्य, आमिष-मोदकादिकं भक्षयतोरसनेन्द्रियस्य, कामिनीतनुलतादि स्पृशतः स्पर्शनेन्द्रियस्य व्यञ्जनावग्रहः संपद्यते न तु नयन-मनसो, वहि-क्षुरिकादिविषयकृतदाहपाटनादिप्रसङ्गेन तयोर्विषयमाप्त्यभावात , तामन्तरेण च व्यञ्जनावग्रंहासंभवादिति भावः ॥ इति गाथार्थः ॥ २३४॥
आह-ननु स्त्यानर्द्धिनिद्रोदये स्वममिव मन्यमानः किं कोऽपि चेष्टा काश्चित् करोति, येन तत्करणे व्यञ्जनावग्रहः स्यात! इत्याशक्य स्त्यानर्दिनिद्रोदयोदाहरणान्याह
. 'पोग्गल-मोयग-दन्ते फरुसग-वडसालभंजणे चेव । थीणद्धियस्स एए आहारणा होति नायव्वा ॥ २३५ ॥
स्त्यानर्दिनिद्रोदयवेर्तिन एतानि पौद्गलादीन्युदाहरणानि ज्ञातव्यानि भवन्ति । तद्यथा- 'पोग्गलेत्यादि' तत्र समयपरिभाषया पौद्गलं मांसमुच्यते, तदुदाहरणं यथा-एकस्मिन् ग्रामे कुटुम्बिकः कोऽप्यासीत् , स च मांसगृद्ध आमानि, पकानि, तलितानि, केवलानि, तीमनादिमध्यप्रक्षिप्तानि च मांसानि भक्षयति । अन्यदा च गुणातिशायिभिः स्थविरैः कैश्चित प्रतिबोधितो दीक्षां कक्षीकृतवान् । तेन च प्रामा-ऽनुग्राम विहरता कदाचित् कचित् प्रदेशे, मांसलुब्धैः कैश्चिद् विकृत्यमानो महिषः समीक्षाश्चक्रे । तचे संवीक्ष्य तदामिषभक्षणे तस्याऽप्यभिलाष: समजायत । स चाभिलाषोऽस्य भुञ्जानस्य विचारभूमी गतस्य चरमां सूत्रपौरुषी, प्रतिक्रमणक्रियां, प्रादोषिकपौरुषी च कुर्वतो न निवृत्तः, किंबहुना, तदभिलाषवर्येव प्रसुप्तोऽसौ । ततः स्त्यानार्द्धिनिद्रोदयो जातः। तदुदये चोत्थाय ग्रामाद् बहिर्महिषमण्डलमध्ये गत्वाऽन्यं महिषमेकं विनिहत्य तदामिषं भक्षितवान् । तदुद्वरितशेषं च समानीयोपाधयो. परि क्षिप्त्वा प्रसुप्तः। समुत्थितश्च प्रत्युषसि स 'मयेत्थंभूतः स्वमो दृष्टः इत्येवं गुर्वन्तिक. आलोचयामास । साधुभिश्चोपाश्रयोपरि तदामिषमदृश्यत । ततः 'स्त्यानर्द्धिनिद्रोदयोऽस्याऽस्ति' इति ज्ञातम् । तथा च संघेन लिङ्गमपहृत्य विसर्जितोऽसौ ॥ इति स्त्यानार्द्धिनिद्रोदये प्रथममुदाहरणमिति ॥१॥ अथ द्वितीयं मोदकोदाहरणमुच्यते, यथा- एकः कोऽपि साधुर्भिक्षा पर्यटन् चिद् गृहे पटलकादिव्यवस्थापितानतिप्रचुरान्
१ पौद्गल-मोदक-दन्ताः कुकाल-बटशाकमाने चैव । स्त्यानबेरेतान्युदाहरणानि भवन्ति ज्ञातव्यानि ॥ २३५॥
२ ज. 'वर्तिनि ए'। ३ घ. छ. ज. 'श्चित् । ४ क. ग. 'च समीक्ष्य'। ५ घ. छ. 'नपि प्र'। सुरभिस्निग्धमधुरमनोज्ञान् मादकानद्राक्षीत् । तेन चोकस्थितेन ते सुचिरमुदीक्षिताः। न च किमपि तन्मध्याल्लब्धम् । ततः सोऽप्यविच्छिन्नतदभिलाष एव सुष्वाप । स्त्यानर्दिनिद्रोदये च रजन्यां तद्गृहं गत्वा, स्फोटयित्वा कपाटानि, मोदकान् स्वेच्छया भक्षयित्वा, उद्वरितांस्तु पतद्ग्रहके क्षिप्त्वोपाश्रयमागत्य पतद्ग्रहकं स्थाने मुक्त्वा प्रसुप्तः । उत्थितेन च तथैवाऽऽलोचितं गुरूणाम् । ततः प्रत्युपेक्षणासमये भाजनादि प्रत्युपेक्षमाणेने साधुना पतद्ग्रहके दृष्टास्ते मोदकाः । ततो गुर्वादिभिर्जातोऽस्य स्त्यानर्द्धिनिद्रोदयः । तथैव च संघेन लिङ्गपाराश्चिकं दत्त्वाऽयमपि विसर्जितः॥२॥
दन्तोदाहरणं तृतीयमुच्यते,यथा- एका साधुर्दिवा द्विरदेन खेदितः कथमपि पलाय्योपाश्रयमागतः। तं च दन्तिन प्रत्यविच्छिनकोप एव निशि प्रसुप्तः । स्त्यानर्द्धिनिद्रोदयश्च जातः । तदुदये च वज्रऋषभनाराचसंहननवतः केशवार्धबलसंपन्नता समये निगद्यते । अतो नगरकपाटानि भवा मध्ये गत्वा तं हस्तिनं व्यापाद्य दन्तद्वयमुत्पाटय खोपाश्रयद्वारे क्षिप्त्वा सुप्तः । प्रबुद्धेन च 'स्वमोऽयम्' इत्यालोचितम् । दन्तदर्शने च ज्ञातः स्त्यानदिनिद्रोदयः। तथैव च लिङ्गं गृहीत्वा संघेन विसर्जितः ॥३॥
फरुसगशब्देन समयप्रसिद्धया कुम्भकारोऽभिधीयते, तदुदाहरणं चतुर्थमुच्यते- एक: कुम्भकारो महति गच्छे प्रवजितः । अन्यदा चे सुप्तस्याऽस्य स्त्यानद्धिनिद्रोदयो जातः। ततोऽसौ पूर्व यथा मृत्तिकापिण्डानत्रोटयत् , तथा तदभ्यासादेव साधना शिरासि बोटयित्वा कबन्धैः सहैवैकान्ते उज्झाञ्चकार । ततः शेषाः केचन साधवोऽपसृताः। प्रभाते च ज्ञातं सम्यगेव सर्व तच्चेष्टितम् । संघन तथैव विसर्जितः ॥४॥
- अथ वटशाखाभञ्जनोदाहरणं पञ्चममुच्यते, यथा-- कोऽपि साधुामान्तराद् गोचरचयाँ विधाय प्रतिनिवृत्तः । स चौधण्याऽभिहतो भृतभाजनस्तृषितो बुभुक्षितश्छायार्थी मार्गस्थों वटवृक्षस्याऽधस्तादागच्छन्नतिनीचैर्वतिन्या तच्छाखया मस्तके घट्टितः, गाढंच परितापितः, अव्यवच्छिम्मकोपश्च प्रसुप्तः । स्त्यानर्द्धिनिद्रोदये रात्री गत्वा बटशाखा भड्न्त्वोपाश्रयद्वारे क्षिप्त्वा पुनः प्रसुप्तः। 'स्वमो दृष्टः' इत्यालोचिते, स्त्यानयुदये च ज्ञाते लिङ्गापनयनतः संघेन विसर्जित इति॥५॥ एतान्युदाहरणानि विशेषतो निशीथादवसेयानि॥ इति गाथार्थः ॥ २३५॥ . ... ... तदेवं 'गतुं नेएण मणो संबज्झइ जग्गओ व सिमिणे वा' इत्यादिपूर्वपक्षगाथायाः प्रथमार्धमपाकृतम् । सांपतं 'सिद्धमियं लोयम्मि वि अमुग्गत्थगओ मणो मे त्ति' एतदुत्तरार्धमपाकुर्वनाह--
१. 'नानि प्र'। २ वा. घ. छ. ज. 'न तेन सा'। ।ज, च प्रसुप्तस्य स्त्या' प्र. छ. 'च सुप्तस्य स्त्या'। ४ गाथा २१३६ स्थ-1)
For Private and Personal Use Only