________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
69
विशेषा
सुरयपडिवत्ति-रइसुह-गब्भाहाणाइ इहरहा होज्जा । सुमिणसमागमजुवईए, न य जओ ताई तो विफला ॥२३॥
इतरथा- स्वमे सुरतक्रियया योऽसौ व्यञ्जनविसर्गः स यदि योषित्माप्त्यव्यभिचारी स्यात् , तदा सुरतोपभुक्तयुवतेरपि 'सुरतक्रियाऽमुकेन सह मयाऽनुभूता' इत्येवंरूपा सुरतप्रतिपत्तिः स्यात् , तथा, रतिसुखं, गर्भाऽधानादिकं च भवेत् । आदिशब्दादरवृद्धि-दोहद-पुत्रजन्मादिपरिग्रहः । यतश्च नैतानि तस्याः समुपलभ्यन्ते, अतो विफलैव सा स्वप्नसुरतक्रिया, विशिष्टस्य परिभुक्तकामिनीगर्भाधानादिफलस्याभावात् । इदमुक्तं भवति- न स्वप्ने योषित्माप्तिपूर्विका विशिष्टा सुरतक्रिया, नापि विशिष्टं गर्भाऽऽधानादिक तत्फलं; या तु तीव्रवेदोदयाविर्भूताऽध्यवसायमात्रकृता निधुवनक्रिया सा व्यञ्जनविसर्गमात्ररूपेणैव फलेन फलवती, न विशिष्टेन, इति तदपेक्षया सा'विफला' इत्युच्यते । अतो यथोक्तविशिष्टफलाभावात् फलमात्राद् योषित्माप्त्यसिद्धेश्च न प्राप्यकारिता मनस इति भावः॥ इति गाथार्थः॥२३०॥ पुनरप्याह पर:नेणु सिमिणओ वि कोई सच्चफलो फलइ जो जहा दिट्ठो। ननु सिमिणम्मि निसिद्ध किरिया किरियाफलाइं च॥२३१॥
ननु स्वमोऽपि कश्चित् सत्यं फलं यस्याऽसौ सत्यफलो दृश्यते । कः ?, इत्याह- यो यथा येन प्रकारेण राज्यलाभादिना दृष्टस्तेनैव फलति-राज्यादिफलदायको भवतीत्यर्थः, तेत् किमिति वमोपलब्धं मनसो मेरुगमनादिकं सत्यतया नेष्यते । इति भावः । अत्रोत्तरमाह-'नन्वित्यादि' नन्वयुक्तोपालम्भोऽयम् , सर्वथास्वमसत्यत्वस्याऽस्माभिरनिषिध्यमानत्वात् । तर्हि किं निषिध्यते , इत्याह- खमे क्रिया मेरुगमनादिका, अध्वश्रम-कुसुमपरिमलादीनि क्रियाफलानि च, इत्येतद्वयमस्माभिः प्रागुक्तयुक्तः सत्यतया निषिद्धम् ॥ इति गाथार्थः ॥ २३१॥ तर्हि किं तत्, यत् खमे भवद्भिर्न निषिध्यते ?, इत्याहजै पुण विण्णाणं तप्फलं च सिमिणे विबुद्धमेत्तस्स । सिमिणयनिमित्तभावं फलं च तं को निवारेइ ? ॥२३२॥
१ सुरसप्रतिपत्ति-रतिसुख-गर्भाधानादीतरथा भवेत् । स्वप्नसमागमयुक्तेः, न च यतस्तान्यतो विफला ॥ २३० ॥ २ घ. छ. ज. 'द्धिदौहृद'। ३ ननु स्वसकोऽपि कश्चित् सत्यफलः फलति यो यथा दृष्टः । ननु स्वग्ने निषिद्धं क्रिया क्रियाफलानि च ॥२३१॥४ घ. छ. 'कुतः' । ५ क. ग. 'ततः कि। ६ क. 'खप्ने या क्रि' ज. 'खप्नेऽपि कि'। . यत्पुनर्विज्ञानं तत्फलं च स्यमे विबुद्धमात्रस्य । स्वमकनिमित्तभावं फलं च तत् को निवारयति ? ॥ २३२ ॥
यत्पुनः स्वमे जिनस्नात्रदर्शनादिकं विज्ञानं, यच्च स्वमे विवुद्धमात्रस्य च हर्षादिकं तत्फलं, तदनुभवादिसिद्धत्वात्को निवारयति ?, तथा, यो भविष्यत्फलापेक्षया स्वमस्य निमित्तभावः स्वानिमित्तभावस्तं च को वा निवारयति ?, यच्च तस्मात् स्वमनिमित्तादवश्यंभावि. भविष्यत्फलं तदपि को निवारयति । यदेव हि मेरुगमनक्रियादिकं युक्त्या नोपपद्यते तदेव निषिध्यते, न त्वेतानि विज्ञानादीनि, युक्त्युपपन्नत्वात् । न चैतैरभ्युपगतैरपि मनसः प्राप्यकारिता काचित् सिध्यतीति भावः ॥ इति गाथार्थः ॥ २३२ ॥
किमिति पुनः स्वमस्य निमित्तभावो न निवार्यते ?, इत्याशक्याह
'देहप्फुरणं सहसोइयं च सिमिणो य काइयाईणि । सगयाइं निमित्ताइं सुभा-सुभफलं निवेएंति ॥२३३॥
स्वस्मिन्नात्मनि गतानि स्थितानि स्वगतानि निमित्तानि, एतानि शास्त्रे, लोकेऽपि च प्रसिद्धानि भविष्यच्छुभा-शुभफलं निवेदयन्ति । कानि पुनस्तानि ?, इत्याह- कायिकम्, आदिशब्दाद् वाचिकं, मानसं च । एतान्येव क्रमेण दर्शयति- कायिकं बाहादौ देहस्फुरणं भविष्यच्छुभा-ऽशुभफलं निवेदयति, वाचिकं तु सहसोदितं- सहसाऽकस्मादेवोदितं सहसोदितं सहसैव तत् किमपि बदत आगच्छति यत् , भविष्यच्छुभा-ऽशुभफलमावेदयति, मानसं तु निमित्तं स्वमे, इत्येतानि को निवारयति ?, लोक-शास्त्रप्रसिद्धस्य, युक्त्युपपन्नस्य च निषेधुमशक्यत्वात् ॥ इति गाथार्थः ॥ २३३ ॥
__ आह- ननु स्त्यानार्द्धिनिद्रोदये वर्तमानस्य द्विरददन्तोत्पाटनादिप्रवृत्तस्य स्वप्ने मनसः प्राप्यकारिता, तत्पूर्वको व्यञ्जनावग्रहश्च सिद्धयति, तथाहि-स तस्यामवस्थायां 'द्विरददैन्तोत्पाटनादिकं सर्वमिदमहं स्वमे पश्यामि' इति मन्यते, इत्ययं स्वमः, मनोविकल्पपूर्विका च दशनाद्युत्पाटनक्रियामसौ करोति । इति मनसः पाप्यकारिता, तत्पूर्वकश्च मनसो व्यञ्जनावग्रहो भवत्येव, इत्याशक्याह - सिमिणमिव मन्नमाणस्स थीणगिद्धिस्स वंजणोग्गहया । होज व, न उ सा मणसो(सा)खलु सोइंदियाईणं ॥२३४॥
'होज व' इत्यत्र वाशब्दः पुनरर्थे, तस्य च व्यवहितः संबन्धः कार्यः, तद्यथा- अनन्तरोक्तयुक्तिभ्यः स्वमावस्थायामपि विषयपाप्त्यभावाद् मनसो व्यञ्जनावग्रहो नास्ति, स्त्यानगृद्धेः पुनः स्त्यानगृद्धिनिद्रोदये पुनर्वर्तमानस्य जन्तोरित्यर्थः, मांसभक्षण-दशनोत्पाटनादि कुर्वतो गाढनिद्रोदयपरवशीभूतत्वेन स्वममिव मन्यमानस्य भवेद् व्यञ्जनावग्रहता-- स्याद् व्यञ्जनावग्रह इत्यर्थः, न वयं तत्र
१ देहस्फुरणं सहसोदितं च स्वमश्च कायिकादीनि । स्वगतानि निमित्तानि शुभा- शुभफलं निवेदयन्ति ॥ २३३॥ २ क. ग. 'ततः कि' ।। ३ घ. छ. ज. 'दशनोत्पा' स्वममिव मन्यमानस्य स्त्यानगृद्धेद्यञ्जनावग्रहता । भवेद् वा, न तु सा मनसः सा खलु श्रोनेन्द्रियादीनाम् ॥२३४३
For Private and Personal Use Only