________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
68
विशेषा० अत्र वियुद्धस्य सतस्तद्गतानुग्रहो-पघातानुपलम्भादित्यस्य हेतौरसिद्धतोद्भावनार्थ परः माह
दीसंति कासइ फुडं हरिस-विसादादयो विबुद्धस्स । सिमिणाणुभूयसुह-दुक्ख-रागदोसाइलिंगाई ॥२२६॥ इह कस्यचित् पुरुषस्य स्वमोपलम्मानन्तरं विबुद्धस्य सतः स्फुट व्यक्तं दृश्यन्ते हर्ष-विषादादयः, आदिशब्दादुन्माद-माध्यस्थ्यादिपरिग्रहः कथंभूता ये हर्ष-विषादादयः ? इत्याह-'सिमिणेत्यादि' स्वमे जिनस्नात्रदर्शनादौ यदनुभूतं सुखं, समीहितार्थाऽलाभादौ यदनुभूतं दुःखं, तयोर्विषये यथासंख्यं यौ राग-द्वेषो तयोलिङ्गानि चिहानि-हर्षेः स्वमानुभूतसुखं रागस्य लिङ्ग, विपादस्तु तदनुभूतदुःखद्वेषस्य लिङ्गमिति भावः । तत्र
"स्वमे दृष्टो मयाय त्रिभुवनमहितः पार्श्वनाथः शिशुत्वे द्वात्रिंशद्भिः सुरेन्द्ररहमहमिकया स्नाप्यमानः सुमेरौ ।
तस्माद् मत्तोऽपि धन्यं नयनयुगमिदं येन साक्षात् स दृष्टो द्रष्टव्यो, यो महायान् परिहरति भयं देहिनां संस्मृतोऽपि" ॥१॥ इत्यादिस्खमानुभूतसुखरागलिङ्ग हर्षः, तथा"माकारत्रयातोरणमणिमेजल्लभाम्पाहता नष्टाः कापि रवे करा द्रुततरं यस्यां पचण्डा अपि ।
तां त्रैलोक्यगुरोः सुरेश्वरवतीमास्थायिकामेदिनी हा ! यावत् प्रविशामि तावदधमा निद्रा क्षयं मे गता" ॥१॥ इत्यादिकः समानुभूतदुःखद्वेषलिङ्ग विषादः, अत्यन्तकामोद्रेकादिलिङ्गमुन्मादः, मुनेस्तु माध्यस्थ्यम्, इति “विबुद्धस्याऽनुग्रहोपघातानुपलम्भात्" इत्यसिद्धो हेतुः॥ इति गाथार्थः ॥२२६॥
अत्रोत्तरमाह
नै सिमिणविण्णाणाओ हरिस-विसासादयो विरुज्झति। किरियाफलं तु तित्ती-मद-वह-बंधादओ नत्थि ॥२२७॥ स्वमे सुखानुभवादिविषयं विज्ञानं स्वमविज्ञानं तस्मादुत्पद्यमाना हर्ष-विषादादयो न विरुध्यन्ते-न तान् वयं निवारयामः, जाग्रदवस्थाविज्ञानहर्षादिवत् , तथाहि- दृश्यन्ते जाग्रदवस्थायां केचित् स्वमुत्पेक्षितसुखानुभवादिज्ञानाद् हृष्यन्तः, द्विषन्तो वा । ततश्च दृष्टस्य निषेद्धमशक्यत्वात् खमविज्ञानादपि नैतनिषेधं ब्रूमः । तर्हि किमुच्यते भवद्भिः १, इत्याह-'किरियेत्यादि' क्रिया भोजनादिका तस्याः
. दृश्यन्ते कस्यचित् स्फुटं हर्ष-विषादादयो विबुद्धस्य । स्वमानुभूतसुख-दुःख-राग-दोषादिलिङ्गानि ॥ २२६ ॥ २ घ.छ.क. 'यानपह' ।
३ ग. ज. 'भाभ्याह' ४ न स्वप्नविज्ञानाद् हर्ष-विषादादयो विरुध्यन्ते । क्रियाफलं तु तृप्ति-सद-वध-बन्धादयो न सन्ति ॥२२७॥ फलं तृप्त्यादिकं तत् पुनः स्वमविज्ञानाद् नास्त्येव, इति ब्रूमः । तदेव क्रियाफलं दर्शयति- 'तित्तीत्यादि' तत्र तृप्तिर्बुभुक्षायुपरमलक्षणा, मदः सुरापानादिजनितविक्रियारूपः, वधः शिरश्छेदादिसमुद्भूतपीडाखरूपः, बन्धो निगडादिनियन्त्रणस्वभावः, आदिशब्दाज्जलज्वलनादिप्रवेशात् क्लेद-दाहादिपरिग्रहः । यदि ह्येतत् तृप्त्यादिकं भोजनादिक्रियाफलं स्वमविज्ञानाद् भवेत, तदा विषयमाप्तिरूपा प्राप्यकारिता मनसो युज्येत, न चैतदस्ति, तथोपलम्भस्यैवाभावात् ॥ इति गाथार्थः ।।२२७॥
अथ स्वमानुभूतक्रियाफलं जाग्रदवस्थायामपि परो दर्शयन्नाह- .. 'सिमिणे वि सुरयसंगमकिरियासंजणियवंजणविसग्गो। पडिबुद्धस्स वि कस्सइ दीसइ सिमिणाणुभूयफल||२२८
स्वमेऽपि सुरतार्था याऽसौ कामिनः कामिनीजनेन, कामिन्या वा कामिजनेन सह संगमक्रिया तत्संजनितो व्यञ्जनस्य शुक्रपुद्गलसंघातस्य विसर्गो निसर्गः खमानुभूतसुरतसंगमक्रियाफलरूपः प्रतिबुद्धस्याऽपि कस्यचित् प्रत्यक्ष एव दृश्यते, तद्दर्शनाच्च स्वमे योषित्संगमक्रियाऽनुमीयते, तथाहि- यत्र व्यञ्जनविसर्गस्तत्र योषित्संगमेनापि भवितव्यम्, यथा वासभवनादौ, तथा च स्वमे, ततोत्रापि योषित्याप्त्या भवितव्यम् । इति कथं न प्राप्तकारिता मनसः । इति भावः ॥ इति गाथार्थः ॥ २२८ ॥ अथ योपित्संगमे साध्ये व्यञ्जनविसर्गहेतोरनैकान्तिकतामुपदर्शयन्नाहसो अज्झवसाणकओ जागरओ वि जह तिव्वमोहस्स । तिव्वज्झवसाणाओ होइ विसग्गो तहा सुमिणे ॥२२९॥
स्वमे योऽसौ व्यञ्जनविसर्गः स तत्माप्तिमन्तरेणाऽपि- तां कामिनीमहं परिषजामि' इत्यादिस्वमत्युत्पेक्षिततीव्राध्यवसायकृतो वेदितव्यः । कस्येव , इत्याह- जाग्रतोऽपि तीत्रमोहस्य प्रबलवेदोदययुक्तस्य कामिनी स्मरतश्चिन्तयतो दृढं ध्यायतः प्रत्यक्षामिव पश्यतो बुद्ध्या परिषजतः परिभुक्तामिव मन्यमानस्य यत् तीव्राध्यवसानं तस्माद् यथा व्यञ्जनविसर्गो भवति, तथा खमेऽपि नितम्बिनीप्राप्तियन्तरेणापि स्वयमुत्पेक्षिततीव्राध्यवसानादसौ मन्तव्यः, अन्यथा तत्क्षण एवं प्रबुद्धः सन्निहितां प्रियतमामुपलभेत, तत्कृतानि च स्वमोपलब्धानि नख-दन्त-पदादीनि पश्येत् , न चैवम् । तस्मादनकान्तिकता हेतोः ॥ इति गाथार्थः ॥ २२९ ॥
किन,
१ स्वमेऽपि सुरतसंगमक्रियासंजनितव्यञ्जनविसर्गः । प्रतिबुद्धस्यापि कस्यचिद् दृश्यते स्वमानुभूतफलम् ॥ २२८ ॥ २ घ.छ.ज. 'क्षत ए'। ३ सोऽध्यवसानकृतो जाग्रतोऽपि यथा तीव्रमोहस्य । तीव्राध्यवसानाद् भवति विसर्गस्तथा स्वमे ॥ २२९॥ सुरता-1
For Private and Personal Use Only