________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
67
विशेषा०
सो पुण सयमुवघायण-मणुग्गहं वा करेज को दोसो ? । जमणुग्गहो-वघाया जीवाणं पोग्गलहितो ॥२२३॥
'से' इति प्राकृतत्वात् पुंलिङ्गनिर्देशः, एवं पूर्वमुत्तरत्राऽपि च यथासंभवं द्रष्टव्यम् । तद् द्रव्यमनः पुनः स्वयमात्मना शुभाशुभकर्मवशत इष्टा-ऽनिष्टपुद्गलसंघातघटितत्वादनुग्रहो-पघातौ मन्तुः कुर्यात, को दोषः -न वयं तत्र निषेद्धारः, ज्ञेयकृतयोरेव तस्य नयोरस्माभिनिषिध्यमानत्वादिति भावः । जीवस्याऽपि तौ द्रव्यमनःकृतौ किमिति न निषिध्येते ?, इत्याह- ' जमणुग्गहो इत्यादि । यद्यस्मात्कारणादनुग्रहो-पघातौ जीवानां पुद्गलेभ्य इति युक्तमेव, इष्टा-ऽनिष्टशब्द-रूप-रस-गन्ध-स्पर्शोपभोगादिषु तथादर्शनेनाऽस्याऽर्थरय निषेधुमशक्यत्वादित्यर्थः । आह- ननु शब्दादय इष्टा-निष्टपुद्गलात्मका इति प्रत्यक्षादिप्रमाणसिद्धत्वात् प्रतीमः, द्रव्यमनस्तु यदिदं किमपि भवद्भिरुघुष्यते, तदिष्टा-निष्टपुद्गलमयमस्तीति कथं श्रद्दध्मः इति । अत्रोच्यते- योगिनस्तावदिदं प्रत्यक्षत एव पश्यन्ति; अर्वागदर्शिनस्त्वनुमानात , तथाहि- यदन्तरेण यद् नोपपद्यते तदर्शनात् तदस्तीति प्रतिपत्तव्यम् , यथा स्फोटदर्शनाद् दहनस्य दाहिका शक्तिः, नोपपद्यते चेष्टा-ऽनिष्टपुद्गलसंघातात्मकद्रव्यमनोव्यतिरेकेण जन्तूनामिष्टा-निष्टवस्तुचिन्तने समुपलब्धौ बदनप्रसन्नता-देहदौर्बज्याद्यनुग्रहो-पघातौ, ततस्तदन्यथानुपपत्तेरस्ति यथोक्तरूपं द्रव्यमनः । चिन्तनीयवस्तुकृतावेतौ भविष्यत इति चेत् । न, जल-ज्वलनीइनादिचिन्तने क्लेद-दाह-बुभुक्षोपशमादिप्रसङ्गादिति । " चिन्तया वत्स! ते जातं शरीरकमिदं कृशम्" इत्यादिलोकोक्तश्चिन्ताज्ञानकृतौ जाविति चेत् । तदप्ययुक्तम् , तेस्याऽमृर्तत्वात् , अमूर्तस्य च कर्तृत्वायोगात् , आकाशवत् , इत्युक्तत्वात् , “ चिन्तया वत्स!" इत्या'दिलोकोक्तेश्च कार्ये कारणशक्त्यध्यारोपेणौपचारिकत्वात् । खेदादेस्तदुद्भूतिरिति चेत् । कोऽयं नाम खेदादिः । किं तान्येव मनोद्रव्याणि, चिन्तादिज्ञानं वा । आद्यपक्षे, सिद्धसाध्यता। द्वितीयपक्षस्तु विहितोचर एव । न च निर्हेतुकावेतौ, सर्वदा भवना-ऽभवनप्रसङ्गात् ,
“नित्यं सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणात् । अपेक्षातो हि भावानां कादाचिकत्वसंभवः " ॥१॥ इति । • नच जीवादिक एवाऽन्यः कोऽपि तयोर्हेतुः, तस्य सदावस्थितत्वेन तत एव सर्वदा भवना-ऽभवनप्रसङ्गात् । एवमन्यदपि सुधिया स्वबुद्ध्या समाधानमिह वाच्यम् , इत्यलमतिविस्तरेण । तस्मादुक्तयुक्तिसिद्धं पुद्गलमयं द्रव्यमनो मन्तुः स्वयं कुर्यादनुग्रहो-पघातौ,
यकृतौ तु तौ मनसो न स्त एव, इति न तत्पाप्यकारि ॥ इति गाथार्थः ॥ २२३ ॥ ' आह-ननु जाग्रदवस्थायां मा भूद् मनसो विषयप्राप्तिः, स्वापावस्थायां तु भवत्वसौ, अनुभवसिद्धत्वात, तथाहि- 'अमुत्र मेरुशिखरादिगतंजिनायतनादौ मदीयं मनो गतम् ' इति सुप्तैः स्वमेऽनुभूयत एव, तथा च 'गतुं नेएण मणो संबज्झइ जग्गओ व सिमिणे
तत्पुनः स्वयमुपघाता-नुग्रही वा कुर्यात् को दोषः ? । यदनुग्रहो-पघातौ जीवानां पुद्गलेभ्यः ॥ २२३ ॥२ चिन्ताज्ञानस्य । ३ गाथा २१३ । वा' इति मया प्रागेवोक्तम् , इत्याशङ्कय स्वमेऽपि मनसः प्राप्यकारितामपाकर्तुमाह
सिमिणो न तहारूवो वभिचाराओ अलायचक्कं व । वभिचारो य सदसणमुवघाया-णुग्गहाभावा ॥२२॥ - इह 'मदीयं मनोऽमुत्र गतम्' इत्यादिरूपो यः सुप्तरुपलभ्यते स्वप्नः, स यथोपलभ्यते न तथारूप एव, स्वमोपलब्धमोदकस्तयाविधपरमाचार्यैरिव परैर्न सत्य एव मन्तव्य इत्यर्थः । कुतः १, इत्याह- व्यभिचारात्- अन्यथात्वदर्शनात् । किंवद्- यथा न सत्यम् , इत्याह- अलातचक्रमिव- अलातमुल्युकं तवृत्ताकारतया आशु भ्रम्यमाणं भ्रान्तिवशादचक्रमपि चक्रतया प्रतिभासमानं यथा न सत्यम् , अचक्ररूपताया एव तत्राऽवितथत्वात् , भ्रमणोपरमे स्वभावस्थस्य तथैव दर्शनात; एवं स्वमोऽपि न सत्या, तदुपलब्धस्य । मनोमेरुगमनादिकस्याऽर्थस्याऽसत्यत्वात् । तदसत्यत्वं च प्रबुद्धस्य स्वमोपरमे तदभावात् । तदभावश्च तदवस्थायां देहस्थस्यैव मनसोउनुभूयमानत्वादिति ॥ आह- ननु स्वमावस्थायां मेर्वादौ गत्वा जाग्रदवस्थायां निवृत्तं तद् भविष्यति, इति 'व्यभिचारात' इत्यसिद्धो हेतुः, इत्याशङ्कचाह- 'वभिचारो येत्यादि' यो मया व्यभिचारो हेतुत्वेनोक्तः, स चेत्थं सिद्धः । कथम् , इत्याह- 'सदसणमिति' विभक्तिव्यत्ययात स्वदर्शनादित्यर्थः, स्वस्याऽऽत्मनो मेदिस्थितजिनगृहादिगतस्य दर्शनं स्वदर्शनं तस्मादिति। एतदुक्तं भवति- यथा कदानिदात्मीयं मनः स्वमे मेर्वादौ गतं कश्चित पश्यति, तथा कोऽपिसशरीरमात्मानमपि नन्दनतरुकुसुमावचयादि कुर्वन्तं तद्गतं पश्यति, न च तत् तथैव, इहस्थितैः सुप्तस्य तस्याऽत्रैव दर्शनात , द्वयोश्चात्मनोरसंभवात, कुसुमपरिमलाद्यध्वजनितपरिश्रमाद्यनुग्रहो-पघाताभावाच ॥ इति गाथार्थः॥ २२४ ॥ .
एतदेव भावयन्नाह
इह पासुत्तो पेच्छइ सदेहमन्नत्थ, न य तओ तत्थ । न य तग्गयोवघाया-णुग्गहरूवं विबुद्धस्स ॥२२५॥
इह जगति प्रसुप्तः कश्चित् स्वदेहमन्यत्र नन्दनवनादौ गतं स्वप्ने पश्यति । न च तकोऽसौ देहस्तत्र नन्दनवनादावुपपद्यते, इहस्थितैरन्यैस्तस्याऽत्रैवोपलम्भात् , इत्याअनन्तरोक्तयुक्तेन च विबुद्धस्य सतस्तद्गतयोरन्यत्र गमनगतयोरन्यत्र गमनविषययोरनुग्रहोपघातयो रूपं कुसुमपरिमल-मार्गपरिश्रमादिकं स्वरूपमुपलभ्यते । तस्मात् स्वापावस्थायामपि नाऽन्यत्र मनसो गमनम् , देहगमनदर्शनेन व्यभिचारात् ॥ इति गाथार्थः ।। २२५॥
१ स्वप्नो म तथारूपो व्यभिचारादलातचक्रमिव । व्यभिचारश्च स्वदर्शनादुपघाता-ऽनुग्रहाभावात् ॥२२४॥ २५. छ. ज. 'स्वप्रद' । ३ इह प्रसुप्तः प्रेक्षते स्वर,हमन्यत्र न च सकस्तत्र । न च तद्गतोपघाता-नुग्रहरूपं विबुद्धस्य ॥ २२५॥+भाम्य-)
For Private and Personal Use Only