________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
66
विशेषा ०
इत्यादिना मनसोऽप्राप्यकारितायाम् 'अनुग्रहों-पघाताभावात्' इति यः पूर्व हेतुरुक्तः, तस्य परोऽसिद्धिं समुद्भावयन्नाह - नज्जइ उत्रधाओ से दोबल्लो रक्खयाइलिंगेहिं । जमणुग्गहो य हरिसाइएहिं तो सो उभयधम्मो ॥ २१९ ॥
इह मृत नष्टादिकं वस्तु चिन्तयतः, अत्यार्त - रौद्रध्यानप्रवृत्तस्य च 'से' तस्य मनस उपघातो ज्ञायतेऽनुमीयते । कै १, इत्याहदौर्बल्यो- रक्षितादिलिङ्गै:- दौर्बल्यं देहापचयरूपम्, उरःक्षतमुरो विघातः, हृदयबाधेति यावत्, आदिशब्दाद बातमकोप- बैकल्यादिपरिग्रहः । अनुग्रहथ - यद्यस्मात् तस्येष्टसंगम विभवलाभादिकं वस्तु चिन्तयतो हर्षादिभिरनुमीयते । तत्र वदनविकाश-रोमाश्चोद्गमादिचिह्नगम्यो मानसः प्रीतिविशेषो हर्षः, आदिशब्दाद् देहोपचयो- साहादिपरिग्रहः । तत् तस्मात्कारणात् तद् मन उपघाता-नुग्रहलक्षणोभयधर्मकमेव । अयमत्र भावार्थ:- यः शोकायतिशयात् देहोपचयरूपः आर्तादिध्यानातिशयाद् हवरोगादिस्वरूप श्चोपघातः यश्च पुत्रजन्माभष्टातिचिन्तासमुद्भूतहर्षादिरनुग्रहः, स जीवस्य भवन्नपि चिन्त्यमानविषयात् मनसः किल परो मन्यते, तस्य जीवात् कथञ्चिदव्यतिरिक्तत्वात् । ततचैवं मनसोऽनुग्रह-पघातयुक्तत्वात् तच्छ्रन्यत्वलक्षणो हेतुरसिद्धः ।। इति गाथार्थः ।। २१९ ॥
तदेतत् सर्वं परस्याऽसंबद्धभाषितमेवेति दर्शयन्नाह -
जैइ दव्वमणोऽतिबली पीलिज्जा हिदिनिरुद्धवाउ व्व । तयणुग्गहेण हरिसाद व्व नेयस्स किं तत्थ ? ॥ २२०॥
Acharya Shri Kailassagarsuri Gyanmandir
यदि नाम द्रव्यमनो मनस्त्व परिणतानिष्टपुद्गलसमूहरूपमतिशयबलिष्ठमिति कृत्वा शोकादिसमुद्भूतपीडया जीवं कर्मतापनं देहदौर्बल्याद्यापादनेन पीडयेत्, हृन्निरुद्धवायुवत्- हृदयदेशाश्रितनिविडमरुद्ग्रन्थिवदित्यर्थः । यदि च तस्यैव द्रव्यमनसो मनस्त्वपरिणतेष्टपुद्गल संघातस्वरूपस्याऽनुग्रहेण जीवस्य हर्षादयो भवेयुः, तर्हि ज्ञेयस्य चिन्तनीयमर्वादेर्मनसोऽनुग्रहो-पघातकरणे किमायातम् । इदमंत्र हृदयम् - मनस्त्वपरिणतानिष्टपुद्गलनिचयरूपं द्रव्यमनोऽनिष्टचिन्ताप्रवर्तनेन जीवस्य देहदौर्बल्याद्यापत्या हभिरुद्धवायुवदुपघातं जनयति, तदेव च शुभपुद्गलपिण्डरूपं तस्याऽनुकूल चिन्ताजनकत्वेन हर्षाद्यभिनिर्वृस्या भेषजवदनुग्रहं विधत्त इति । अतो जीवस्यैतावनुग्रहो-पघात द्रव्यमनः करोति, न तु मन्यमानमेर्वादिकं ज्ञेयं मनसः किमप्युपकल्पयति । अतो द्रव्यमनसः सकाशादात्मन एवानुग्रहो-पघातसद्भावात् मनसस्तु ज्ञेयात् तद्गन्धस्याऽप्यभावाद् मस्तकाघातविद्दली भूतेनैवाऽसंबद्धभाषिणा परेण हेतोरसिद्धिरुद्भाविता ।। इति गाथार्थः ॥ २२० ॥
१. ज्ञायते उपघातस्तस्य दौर्बल्यो रःक्षतादिलिङ्गैः । यदनुग्रहश्व हर्षादिभिस्ततः स उभयधर्मा ॥ २१९ ॥ २ यदि द्रव्यमनोऽतिबाल पीडयेद् दृशिरुद्धवायुरिव । तदनुग्रहेण हर्षादय इव शेयस्य किं तन्त्र ? ॥ २२० ॥
आह- नन्वलौकिकमिदं यदु- द्रव्यमनसा जीवस्य देहोपचय- दौर्बल्यादिरूपात्रनुग्रहो-पघातौ क्रियेते, तथाप्रतीतेरेवाभावाद,
इत्याशङ्कयाह
tar - हार भहारे होन्ति पुट्ठि-हाणीओ । जह, तह मणसो ताओ पोग्गलगुणउ त्ति को दोसो १ ॥ २२१॥
"
ननु किमिहालौकिकम् १, यतो भवतो लोकस्य व सबालगोपालस्य तावत्प्रतीतमिदं यदुत- मनोऽभिरुचितो य आहारस्तस्याऽभ्यवहारे जन्तूनां शरीरस्य पुष्टिर्भवति यस्त्वनिष्ठोऽनभिमत आहारस्तस्याऽभ्यवहारे हानिर्भवतीति । ततश्व 'जह चि यथा इष्टानिष्टाहाराभ्यवहारे तत्पुद्गलानुभावात् पुष्टि-हानी भवतः 'तह त्ति' तथा यदि द्रव्यमनोलक्षणात् मनसोऽपि सकाशात् 'ताउति' ते पुष्टि - हानी पुगलगुणतः पुद्गलानुभावाद् भवतः, तर्हि को दोषः १ न कश्चिदित्यर्थः । यथाऽऽहार इष्टाऽनिष्टपुद्गलमयत्वात् तदनुभावाज्जन्तु शररािणां पुष्टि-हानी जनयति, तथा द्रव्यमनोऽपि तन्मयत्वाद् यदि तेषां ते निर्वर्तयति, तदा किं भूयते, येन पुद्गलमयत्वे समानेऽपि भवतोऽत्रैवाऽक्षमा ? इति भावः । तथा चोक्तम्- “चिन्तया वत्स ! ते जातं शरीरकमिदं कृशम्" इति । चिन्तैव तर्हि कार्याद्युपघातादिजनिति चेत् । न तस्या अपि द्रव्यमनःप्रभवत्वात्, अन्यथा चिन्ताया ज्ञानरूपत्वात् ज्ञानस्य चामूर्तत्वात्, अमूर्तस्य च नभस इवोपघातादिहेतुत्वायोगात्, 'जैमणुरगहो- बघाया जीवाणं पोग्गलेहिंतो' इति वक्ष्यमाणत्वाच्च ।। इति गाथार्थः॥ २२१ ॥
अथोपसंहारगर्भ प्रस्तुतार्थविषये स्वाभिप्रायपरमार्थ दर्शयन्नाह - .
नीडं आगसिउं वा न नेयमालंबर त्ति नियमोऽयं । तण्णेयकया जेऽणुग्गहो- बघाया य ते नत्थि ॥२२२॥
इह न शरीराद् 'निर्गन्तुं' (निर्गत्य ) द्रव्यमनो मेर्वादिकं ज्ञेयमर्थमालम्बते गृह्णाति, नापि तच्छरीरस्थमेव 'आगसिउं ति' 'आक्रष्टुं' (आकृष्य) हठात् समाकृष्याऽऽत्मनः समीपमानीय ज्ञेयमालम्बत इति, अयं नियमोऽस्माभिर्भुजमुत्क्षिप्य विधीयते प्राप्यादं न भवतीति नियम्यत इति तात्पर्यम् । 'तण्णेयकया जेऽणुग्गहो- बघाय ति' यौ चतज्ज्ञेयकृतौ तच तज्ज्ञेयं च तज्ज्ञेयं तत्कृतौ, मनसोऽनुग्रहो-पघातौ परैरिष्येते, तौ तस्य न स्त एवेति च नियम्यते ।। इति गाथार्थः ॥ २२२ ॥
किं पुनर्न नियम्यते, इत्याह-
१ इष्टानिष्टाहाराभ्यवहारे भवतः पुष्टि-हानी । यथा, तथा मनसस्ते पुलगुणत इति को दोषः १ ॥ २२१ ॥ २ पुष्टि-हानी । निर्गत्याकृष्य वा न शेयमालम्बत इति नियमोऽयम् । तज्ज्ञेयकृतौ यावनुग्रहो रघाती च तौ न स्तः ॥ २२२ ॥
For Private and Personal Use Only
३ गाथा २२३ ।