________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
h
विशेषा० धर्मा न पटेरनिति भावः, तथाहि-न कर्ताऽऽत्मा, सर्वगतत्वात् , आकाशवत् । आदिशब्दादर्भाक्ता, असंसारी, अशः, न सुखी, न दुःखी आत्मा तत एव हेतोः, तद्वदेवं, इत्यायपि द्रष्टव्यम् ।। आह पर।- मन्वात्मनो निष्क्रियत्वात् कर्तृत्वायभावः सांख्यानां न बाधायै कल्पते तथा च तैरुक्तम्-"अकर्ता निर्गुणो भोक्ताऽऽस्मा" इत्यादि । एतदप्ययुक्तम् , तस्य निष्क्रियत्वे प्रत्यक्षादिममाणोपलपभोक्तृत्वादिक्रियाविरोधमसनात् । प्रकृतेरेष भोगादिकरणक्रिया, म पुरुषस्य, आदर्शमतिबिम्बोदयन्यायेनैव तत्र क्रियाणामिष्टत्वादिति वेद । एतदप्यसङ्गतम् , मकरचेतनत्वात् "पैतन्य पुरुषस्य स्वरूपम् " इति पत्रमात् । अचेतनस्य ष भोगादिमियाऽयोगात् , अन्यथा घटादीनामपि तस्मसङ्गादिति । म केवलं कर्तृत्वायभावतः सर्वगसस्वमात्मनो म पुक्तम्, किन्तु सर्या-सर्वग्रहणमसातोऽपि च तदसातम् । इदमुक्त भवति- आत्मनः समात्रिभुवनगतत्वे, माधकारित्वेनाऽभ्युपगतस्य तदव्यतिरिक्तस्य भाषमनसोऽपि सर्वगतत्वात सर्वार्थमाः सर्वग्रहणमसन तथा च सर्वस्य सर्वजस्वमसक्तिः । अयोक्तन्यायेन मातानपि सर्वार्थानभिहितदोपभया न रहातीत्युच्यते। ताहि सर्वार्थाग्रहणमसा- प्राथत्वेनेष्टानप्यर्थान् मा प्रही भाषमना, प्राप्तत्याविशेषात् , अमावस्येनेष्टार्थवादिति भावः। अथ मातस्वापिशिष्टत्वेऽपि काचिदर्थानेतर ग्रहाति, काचिद नेत्युच्यते । तहि व्यक्तमीपरचेष्ठितम् । न त युक्तिविचारे क्वचिदप्युपयुज्यत इति । आदिशब्दात् सर्वगतत्व आत्मनोऽन्यदपि दूषणमभ्यूयम्, तथाहि- यथाऽङ्गुष्ठादौ दहनदाहादिवेदनायां मस्तकादिष्वप्यसायनुभूयते, तथा सर्वत्रापि तत्मसङ्गा, न च भवति, तथाऽनुभवाभावात् , अमनुभूयमानाया अपि भाषाभ्युपगमेऽतिप्रसङ्गात् । किञ्च, सर्वगतत्वे पुरुषस्य नानादेशगतस्त्रक्-चन्दना-जनादिसंस्पर्शेऽनवरतसुखासिकामसङ्गा, वहि-शस्त्र-जलादिसंबन्धे तु निरन्तरदाह-पाटम-क्लेदनादिप्रसङ्गश्च । यत्रैव शरीर तत्रैव सर्वमिदं भवति, नाऽन्यत्रेति चेत् । कुतः, इति वक्तव्यम् । आज्ञामात्रादेवेति चेत् । न, तस्ये-- हाविषयत्वात् । सहकारिभावेन तस्य तदपेक्षणीयमिति चेत् । न, नित्यस्य सहकार्यपेक्षाऽयोगात् । तथाहि- अपेक्ष्यमाणेन सहकारिणा तस्य कश्चित् विशेषः क्रियते, नवा । यदि क्रियते, स किमर्थान्तरभूतः, अनर्थान्तरभूतो वा यद्याद्यः पक्षः, तर्हि तस्य न किञ्चित् कृतं स्यात् । अथापरः, तर्हि तत्करणे तदव्यतिरिक्तस्याऽऽत्मनोऽपि करणप्रसङ्गात् , कृतस्य चाऽनित्यत्वात् तस्यानित्यत्वप्रसङ्गः। • अथ मा भूदेप दोप इति 'न क्रियते' इत्यभ्युपगम्यते। हन्त ! न तर्हि स तस्य सहकारी, विशेपाकरणात् । अथ विशेपमकुर्वन्नपि सहकारीप्यते । तर्हि सकलत्रैलोक्यस्यापि सहकारिताप्राप्तिः, विशेषाकरणस्य तुल्यत्वात् , इति' व्यर्था शरीरमात्रापेक्षा, इत्याद्यत्र बहु वक्तव्यम् , तत्तु नोच्यते, ग्रन्थगहनताप्रसङ्गात् । तस्माच्छरीरमात्रवृत्तिरेवाऽऽत्मा, न सर्वगत इति । अतस्तदव्यतिरिक्तस्य भावमनसो न
१ ग. "ति वृथा श'। शरीराद् वहिनिःसरणमुपपद्यत इति स्थितम् ।।" इति गाथार्थ ॥ २१६ ॥
अथ द्रव्यमनो विपयदेशं बजतीति ब्रूयात् , तत्राऽप्याह- देवमणो विण्णाया न होइ गंतुं च किं तओ कुणउ ? । अह करणभावओ तस्स, तेण जीवो वियाणेजा।।२१७॥
काययोगसहायजीवगृहीत-चिन्ताप्रवर्तकमनोवर्गणान्तःपातिद्रव्यसमूहात्मक द्रव्यमनः स्वयं विज्ञात न भवत्येव, अचेतनत्वात्, उपलशकलवत् , इत्यतो गत्वाऽपि मर्यादिविषयदेशं किं तद् वराकं करोतु, तत्र गतादपि तस्मादर्थावगमाभावादिति भावः॥ पराभिमायमाशङ्कते- 'अह करणेत्यादि अथ मन्यसे- यद्यपि द्रव्यमना स्वयं न किश्चिज्जानाति, तथापि करणभावः करणत्वं तस्य द्रव्यमनसः प्रदीपादेरिव वस्तुनि प्रकाशयितव्ये समस्ति। ततो' जीवः कर्ता तेन द्रव्यमनसा करणभूतेन विजानीयादववुध्येत मेर्वादिकं वस्त्विति । अत्र प्रयोगः-बहिनिर्गतेन द्रव्यमनसा प्राप्य विपर्य जानाति जीवः, करणत्वात् , प्रदीप-मणि-चन्द्र-सूर्यादिनभयेव ॥इति गाथार्थः ॥२१७॥
अत्रोत्तरमाह
केरणत्तणओ तणुसंठिएण जाणिज फरिसणेणं व । एत्तो च्चिय हेऊओ न नीइ बाहिं फरिसणं व ॥२१८॥
को न मन्यते, यदुत- अर्थपरिच्छेदे कर्तव्ये आत्मनो द्रव्यमनः करणम् ।। किन्तु करणं द्विधा भवति- शरीरगतमन्तःकरणम् , तद्वहिभूतं वाह्यकरणं च । तत्रेदं द्रव्यमनोऽन्तःकरणमेवाऽऽत्मनः । ततश्च 'करणतणउत्ति' सूत्रस्य मूचामात्रत्वात् , एकदेशेन समुदायस्य गम्यमानत्वाच्चान्तःकरणत्वादित्यर्थः। तनुसंस्थितेन शरीराद् बहिरनिर्गतेन जीवस्तेन जानीयाद् मेर्वादिविषयम् , स्पर्शनेन्द्रियेणेव कमलनालादिस्पर्शम् । प्रयोगः- यदन्तःकरणं तेन शरीरस्थेनैव विषय जीवो गृह्णाति, यथा स्पर्शनेन, अन्तःकरणं च द्रव्यमनः। प्रदीप-मणि-चन्द्र-मूर्यप्रभादिकं तु बाह्यकरणमात्मन इति साधनविकलः परोक्तदृष्टान्तः । आह-ननु शरीरस्थमपि तत् पद्मना
लतन्तुन्यायेन बहिव्यमनः किं न निःसरति ?, इत्याह- 'एत्तो चियेत्यादि' इत एवान्तःकरणत्वलक्षणाद्धेतोवहिने निर्गच्छति द्रव्यमनः, . स्पर्शनवत् । मयोगः- यदन्तःकरणं तच्छरीराद् बहिर्न निर्गच्छति, यथा स्पर्शनम् ॥ इति गाथार्थः ॥ २१८ ॥ तदेवं भावमनसो द्रव्यमनसश्च वहिवारितायभावादमाप्यकार्येव मन इत्युक्तम् । सांप्रतं 'नाणुग्गहो-वघायाभावाओ लोयणं व
ग्यमनो विज्ञातृ म भवनि गत्वा च किं ततः करोतु । अथ करणभावतस्तस्य, तेन जीवो विजानीयात् ॥ २१७ ॥ २ करणत्वतस्तनुसंस्थितेन जानीयात् स्पर्शनेनेव । इत एष हेतो निर्गच्छति बहिः स्पर्शनमिव ॥ २१८॥ ३ गाथा २१४ ।
For Private and Personal Use Only