________________
Kendra Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
64
विशेषा० पोच्यते । सूक्ष्मत्वेन, तैजसत्वेन च तेषां वयादिभिर्दाहादयो न भवन्ति, रविरश्मिपु तथादर्शनात् ॥ तदेतदयुक्ततरम् , तेषां प्रत्य... क्षादिप्रमाणाग्राह्यत्वेन श्रद्धातुमशक्यत्वात , तथाविधानामप्यस्तित्वकल्पनेऽतिमसङ्गात् । वस्तुपरिच्छेदाऽन्यथानुपपत्तेस्ते सन्तीति वि.:. कल्प्यन्त इति चेत । न, तानन्तरेणापि तत्परिच्छेदोपपत्तेः, न हि मनसो रश्मयः सन्ति। न च तदप्राप्तं वस्तु न परिच्छिनत्ति, वक्ष्यमाणयुक्तितस्तस्य तत्सिद्धेः। न च रविरश्म्युदाहरणमात्रेणाऽचेतनानां नयनरश्मीनां वस्तुपरिच्छेदो युज्यते, नख-दन्त-भाल-तलादिगतशरीरश्मीनामपि स्पर्शविषयवस्तुपरिच्छेदप्रसङ्गात् । इत्यलं विस्तरेण ॥ इति गाथार्थः ॥ २११॥
तदेवमञ्जन-ज्वलनादिविषयविहितानुग्रहो-पघातशून्यत्वलक्षणहेतोरमाप्यकारितां चक्षुषः प्रसाध्य हेत्वन्तरेणापि तस्य सां प्रसाधयितुमाहजइ पत्तं गेण्हेज उ, तग्गयमंजण-रओ-मलाईयं । पेच्छेज, जं न पासइ अपत्तकारि तओ चक्टुं ॥२१२॥
यदि तु माप्तं विषयं चक्षुर्ग्रहीयादित्युच्यते, सदा तद्तमात्मसंबद्धमञ्जन-रजो-मल-शलाकादिकं पश्येदवगच्छेत् , तस्य निर्षिवादमेव तत्माप्तत्वेनोपलब्धे यस्माच तद् न पश्यति, ततोऽप्राप्तकारि चक्षुरिति स्थितम् । यद्यमाप्यकारि चक्षुः, तबमाप्सत्वाविशेषाद सर्वस्याऽप्यर्थस्याऽविशेषेण ग्राहक स्यात् , न प्रतिनियतस्येति चेत् । न, ज्ञान-दर्शनावरणादेस्तत्मतिबन्धकस्य सद्भावात, मनसा व्य. भिचाराच, तथाहि-अप्राप्यकारित्वे सत्यपि नाऽविशेषेण सर्वार्थेषु मनः प्रवर्तते, इन्द्रियाद्यप्रकाशितेषु सर्वथाऽदृष्टा-ऽश्रुतार्थेषु तत्मवृत्यदर्शनात् । इत्यलं प्रसङ्गेन ।। इति गाथार्थः॥ २१२॥
तदेवं व्यवस्थापिता चक्षुषोऽमाप्यकारिता । अथ दृष्टान्तीकृतस्य मनसस्तदसिद्धतां परो मन्येत, इत्यतस्तस्यापि तां सिसाधयिषुः पूर्वपक्षमुत्थापयन्नाहगेंतुं नेएण मणो संबज्झइ जग्गओ व सिमिणे वा । सिद्धमिदं लोयम्मि वि अमुगत्थगओमणो मे त्ति ॥२१३॥
'गंतुं' देहाद् निर्गत्य ज्ञेयेन मेरुशिखरस्थजिनप्रतिमादिना संबध्यते संश्लिष्यते मनः। कस्यामवस्थायाम् ?, इत्याह-जाग्रतः, खमे वा। अनुभवसिद्ध चैतत, न च ममैव, किन्तु सिद्धमिदं लोकेऽपि, यतस्तत्राऽप्येवं वक्तारो भवति-अमुत्र मे मनो गतमिति । अत: प्राप्यकारि मनः॥ इति प्रेरकगाथार्थः॥२१३ ॥
यदि प्राप्तं गृह्णीयात् , तद्गतमञ्जन-रजो-मकादिकम् । पश्येत्, यद् न पश्यति अप्राप्तकारि ततश्चक्षुः ॥२२॥x (भवन्ति)
२ गत्वा ज्ञेयेन मनः संबध्यते जाग्रतो वा स्वप्ने वा । सिद्धमिदं लोकेऽपि अमुकाधगतं मनो मे इति ॥ २१३॥ अत्रोत्तरमाहनाणुग्गहो-वघायाभावाओ लोयणं व, सो इहरा । तोय-जलणाइचिन्तणकाले जुज्जेज दोहिं पि ॥ २१४ ॥
न 'ज्ञेयेन सह संपृच्यते मनः' इति गम्यते । कुतः १, इत्याह-'अणुग्गहो-वघायाभावाउ त्ति' ज्ञेयकृतानुग्रहो-पघाताभावात् , लोचनवत । यदि तस्य ज्ञेयेन सह संपर्कः स्यात् तदा किं स्यात् १ , इत्याह- 'सो इहर त्ति तद् मन इतरथा- ज्ञेयसंपर्केऽभ्युपगम्यमाने, तोय-ज्वलनादिविषयचिन्तनकाले द्वाभ्यामप्यनुग्रहो-पघाताभ्यां युज्येत- तोय-चन्दनादिचिन्तनकाले शैत्याद्यनुभवनेन स्पर्शनवदनुगृह्येत, दहन-विष-शस्त्रादिचिन्तनसमये तु तद्वदेवोपहन्येतेति भावः, न चैवम् । तस्माल्लोचनवदमाप्यकार्येव मनः ।। इति गाथार्थः ॥२१॥ किञ्च, मनसः प्राप्यकारितावादिनः प्रष्टव्याः । किम् ?, इत्याहदेव्वं भावमणो वा वएज जीवो य होइ भावमणो । देहव्वावित्तणओ न देहबाहिं तओ जुत्तो ॥ २१५॥
इह मनस्तावद् द्विधा- द्रव्यमनः, भावमनश्चेति । अतः सूरिः परं पृच्छति- 'दव्वं ति ' द्रव्यमनः, भावमनो वा व्रजेद् गच्छेद 'मेर्वादिविषयसन्निधौ' इति गम्यते । किमनेन पृष्टेन ? इति चेत । उभयथाऽपि दोषः, तथाहि- भावमनसश्चिन्ताज्ञानपरिणामरूपत्वात. तस्य च जीवादव्यतिरिक्तत्वाज्जीव एव भावमनो भवति । जीवश्चेति चकारः 'तओ' इत्यस्याऽनन्तरं संबन्धनीयः। ततोऽयमर्थः- सकश्च स च भावमनोरूपो जीवो देहमात्रव्यापित्वाद् न देहाइ बहिनिःसरन् युक्तः, इह ये देहमात्रवृत्तयः, न तेषां बहिनिःसरणमुपपद्यते, यथा द्रवरूपादीनाम् , देहमात्रवृत्तिश्च जीवः ॥ इति गाथार्थः ।। २१५॥
देहमात्रव्यापित्वस्यासिद्धिं मन्यमानस्य परस्य मतमाशङ्कमानः सरिराह
सव्वगउ त्ति च बुद्धी, कत्ताभावाइदोसओ तण्ण । सव्वा-सव्वग्गहणप्पसंगदोसाइओ वा वि ॥ २१६ ॥
अथ स्याद् बुद्धिः परस्य- सर्वगत आत्मा, न तु देहमात्रव्यापी, अमूर्तत्वात् , आकाशवदिति । अत्र गुरुराह- तदेतत्र । कुतः१, इत्याह- भावप्रधानत्वानिर्देशस्य कर्तृत्वाभावादिदोषत इति- सर्वगतत्वे सत्यात्मनः कर्तृत्वादयो गोपाङ्गनादिप्रतीता अपि
न, अनुग्रहो-पघाताभावाद् लोचनमित्र, तदितरथा । तोय-ज्वलनादिचिन्तनकाले युज्येत द्वाभ्यामपि ॥ २१४॥ २ द्रव्यं भावमनो वा व्रजेद् जीवश्च भवति भावमनः । देहव्यापित्वाद् न देहबहिस्ततो युक्तः ॥ २१५॥ ३ सर्वगत इति च बुद्धिः, कर्मभावादिदोषतस्तत्र । सर्वा-सर्वग्रहणप्रसङ्गदोषादितो वाऽपि ॥ २१६॥
For Private and Personal Use Only