________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
63
विशेषा०
तदेवं स्पर्शन-रसन घ्राण-प्रांत्राणां प्राप्यकारित्वं समर्थितम् ; सांप्रत ‘नयण-मणोवजिंदियभेयाओ' इत्यादिना सूचितं नयन-मनसोरपाप्यकारित्वमभिधित्सुनयनस्य तावदाह
लोयणमपत्तविसयं मणो व्व जमणुग्गहाइसुण्णं ति । जल-सूरालोयाइसु दीसंति अणुग्गह-विघाया ॥२०९॥
अप्राप्तोऽसंबद्धोऽसंश्लिष्टो विषयो ग्राह्यवस्तुरूपो यस्य तदप्राप्तविषयं लोचनम् , अप्राप्यकारीत्यर्थः, इति प्रतिज्ञा । कुतः १, इत्याहयद् यस्मादनुग्रहादिशून्यम्, आदिशब्दादुपघातपरिग्रहः-ग्राह्यवस्तुकृतानुग्रहो-पघातशून्यत्वादित्यर्थः, अयं च हेतुः। मनोवदिति दृष्टान्तः। यदि हि लोचनं ग्राह्यवस्तुना सह संबध्य तत्परिच्छेदं कुर्यात , तदाऽग्न्यादिदर्शने स्पर्शनस्येव दाहाद्युपघातः स्यात; कोमलतुल्याधवलोकने त्वनुग्रहो भवेत् , न चैवम् , तस्मादमाप्यकारि लोचनमिति भावः । मनस्यप्राप्यकारित्वं परस्यासिद्धम् , इति कथं तस्य दृष्टान्तत्वेनोपन्यासः ? इति चेत् । सत्यम् , किन्तु वक्ष्यमाणयुक्तिभिस्तत्र तत् सिद्धम्, इति निश्चित्य तस्येह दृष्टान्तत्वेन प्रदर्शनम्, इत्यदोषः । अथ परो हेतोरसिद्धतामुद्भावयन्नाह- 'जल-सूरेत्यादि' आदिशब्दः, आलोकशब्दश्च प्रत्येकमभिसंबध्यते । ततश्च जलादीनामालोके लोचनस्याऽनुग्रहो दृश्यते, सूरादीनां त्वालोके उपघात इति । अतो 'अनुग्रहादिशून्यत्वात्' इत्यसिद्धो हेतुरित्यर्थः । इदमुक्तं भवतिजल-धृत-नीलवसन-वनस्पती-न्दुमण्डलाद्यवलोकनेन नयनस्य परमाश्वासलक्षणोऽनुग्रहः समीक्ष्यते; सूर-सितभित्यादिदर्शने तु जलविगलनादिरूप उपघातः संदृश्यत इति । अतः किमुच्यते-'जमणुग्गहाइसुण्णं ति'१॥ इति गाथार्थः ॥ २०९ ॥
अत्रोत्तरमाह
डेज्जेज पाविउं रविकराइणा फरिसणं व को दोसो ? । मणेज अणुग्गहं पिव उवघायाभावओ सोम्मं ॥२१॥
अयमत्र भावार्थः- अस्मदाभिमायाऽनभिज्ञोऽप्रस्तुताभिधायी परः, न हि वयमेतद् ब्रूमो यदुत- चक्षुषः कुतोऽपि वस्तुनः सकाशात् कदाचित् सर्वथैवानुग्रहो-पाघातौ न भवतः। ततो रविकरादिना दाहाद्यात्मकेनोपघातवस्तुना परिच्छेदानन्तरं पश्चाचिरमवलोकयतः प्रतिपत्तुश्चक्षुः प्राप्य समासाद्य स्पर्शनेन्द्रियमिव दह्येत-दाहादिलक्षणस्तस्योपघातः क्रियेतेत्यर्थः । एतावता चापाप्यकारिचक्षुर्वादिनामस्माकं को दोषः न कश्चित् , दृष्टस्य बाधितुमशक्यत्वादिति भावः । तथा यत् स्वरूपेणैव सौम्यं शीतलं शीतरश्मि वा जल
१ गाथा २०४ । २ लोचनमप्राप्तविषयं मन इव यदनुग्रहादिशून्यमिति । जल-सूरालोकादिपु श्येते अनुप्रह-विधातौ ॥२०९॥
३ दह्येत प्राप्य रविकरादिना स्पर्शनमिव को दोषः । मन्येताऽनुमहमिवोपघाताभावतः सौम्यम् ॥ २१॥+C.३०००) घृत-चन्द्रादिकं वस्तु, तस्मिंश्चिरमवलोकिते उवघाताभावादनुग्रहमिव मन्येत चक्षुः, 'को दोषः ?' इत्यत्राऽपि संबध्यते, न कश्चिदित्यर्थः ॥ इति गाथार्थः ॥२१॥ आह- याक्तन्यायेनोपघातका-ऽनुग्राहकवस्तुन्युपघाता-ऽनुग्रहाभावं चक्षुषो न ब्रूषे, तर्हि यद् ब्रूषे तत् कथय, इत्याशक्याह
गंतुं न रूवदेसं पासइ पत्तं सयं व नियमोऽयं । पत्तेण उ मुत्तिमया उवधाया-गुग्गहा होज्जा ॥ २११ ॥ . अयं नियमः- इदमेवाऽस्माभिनियम्यत इत्यर्थः । किं तत?, इत्याह-रूपस्य देशो रूपदेश आदित्यमण्डलादिसमाक्रान्तप्रदेशरूपस्तं गत्वोत्प्लवनतस्तं समाश्लिष्य चक्षुर्न पश्यति न परिच्छिनत्ति, अन्यस्याऽश्रुतत्वाद् 'रूपम्' इति गम्यते । 'पत्तं सयं व त्ति' स्वयं वाऽन्यत आगत्य चक्षुर्देशं प्राप्त समागतं रूपं चक्षुर्न पश्यति, किन्त्वप्राप्तमेव योग्यदेशस्थं विषयं तत् पश्यति ॥ अत्राह परः-नन्वनेन नियमेनाप्राप्यकारित्वं चक्षुषः प्रतिज्ञातं भवति । न च प्रतिज्ञामात्रेणैव हेतूपन्यासमन्तरेण समीहितवस्तुसिद्धिः। अतो हेतुरिह वक्तव्यः। 'जेमणुग्गहाइसुण्णं ति' इत्यनेन पूर्वोक्तगाथावयवेन विषयकृतानुग्रहो-पघातशून्यत्वलक्षणोऽयमभिहित एवेति चेत् । अहो ! जराविधुरितस्येवं सूरेविस्मरणशीलता, यतो 'जेमणुग्गहाइसुण्णं ति' इत्यनेन विषयादनुग्रहो-पघातौ चक्षुषो निषेधयति, ' डेंजेज पावित्रं रविकराइणा फरिसणं व ' इत्यादिना तु पुनरपि ततस्तौ तस्य समनुजानीते, अतो न विद्मः, कोऽप्येष वचनक्रम इति । नैतदेवम् , अभिप्रायाऽपरिज्ञानात् , यतः प्रथमत एव विषयपरिच्छेदमात्रकालेऽनुग्रहो-पघातशून्यता हेतुत्वेनोक्ता, पश्चात्तु चिरमवलोकयतः प्रतिपत्तुः प्राप्तेन रविकरादिना, चन्द्रमरीचि-नीलादिना वा मूर्तियता निसर्गत एवं केनाऽप्युपघातकेन, अनुग्राहकेण च विषयेणोपघाताऽनुग्रही भवेतामपीति । एतदेवाह- 'पत्तेण उ मुत्तिमोत्यादि अनेनाभिप्रायेण तो पुनरपि समनुज्ञायेते, न पुनर्विस्मरणशीलतया । यदि पुनर्विषयपरिच्छित्तिमात्रमपि तममाप्य चक्षुन करोतीति नियम्यते, तदा वनि-विष-जलधि-कण्टक-करवाल-करपत्र-सौवीराजनादिपरिच्छित्तावपि तस्य दाह-स्फोट-क्लेद-पाटन-नीरोगतादिलक्षणोपघाता-ऽनुग्रहप्रसङ्गः। न हि समानायामपि प्राप्तौ रविकरादिना तस्य भवन्ति दाहादयः, न वदयादिभिः। तस्माद् व्यवस्थितमिदम्-विषयममाप्यैव चक्षुः परिच्छिनत्ति, अञ्जन-दहनादिकृताऽनुग्रहो-पघातशून्यत्वात् , मनोवत् । परिच्छेदानन्तरं तु पश्चात्याप्तेन केनाऽप्युपघातकेन, अनुग्राहकण वा मूर्तिमता द्रव्येण तस्योपधाता-ऽनुग्रहो न निषिध्येते, विष-शर्करादिभक्षणे मूर्छा-स्वास्थ्यादय इव मनस इति॥
अत्राऽपरः माह- नयनाद्' नायना रश्मयो निर्गत्य माप्य च रविबिम्बरश्मय इव वस्तु प्रकाशयन्तीति नयनस्य प्राप्यकारिता १ गत्वा न रूपदेशं पश्यति प्राप्त स्वयं वा नियमोऽयम् । प्राप्तेन तु मूर्तिमतोपघाता-ऽनुग्रही भवेताम् ॥ २१॥ २ गाथा २०९ । ३ घ.छ. 'व पुनर्वि'। ४ गाथा २१० ।
For Private and Personal Use Only